उत्तरखण्डः - अध्यायः ८४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच-
अस्मिन्वै चैत्रमासे तु कार्यो दमनकोत्सवः
द्वादश्यां तु तथा सम्यग्विधिः कार्यो विशेषतः ॥१॥
वैष्णवैः श्रद्धया पुण्यो जनतानंदवर्द्धनः
देवानंदसमुद्भूता दिव्या दमनमंजरी ॥२॥
निवेद्या वैष्णवैर्भक्तैः सर्वपूजाफलेप्सुभिः
चैत्रे तु शुक्लपक्षे तु द्वादश्यां नगनंदिनि ॥३॥
कारयेत्परया भक्त्या महोत्सवमनास्तथा
तत्रादौ च स्वयं गत्वा आरामं प्रति चानघे ॥४॥
गुर्वाज्ञया प्रकर्त्तव्यं पूजनं रतिना सह
कामदेव नमस्तेऽस्तु विश्वमोहनकारक ॥५॥
विष्णोरर्थे विचेष्यामि कृपां कुरु ममोपरि
गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ॥६॥
एकादश्यां सुरश्रेष्ठि ह्यधिवासनपूर्वकम्
कर्त्तव्यं पूजनं तत्र रात्रौ भक्त्या तु वैष्णवैः ॥७॥
कर्त्तव्यमग्रतस्तस्य सर्वतोभद्र मंडलम्
स्थापयित्वा तु देवेशं रतिना सह तत्र वै ॥८॥
आच्छाद्य श्वेतवस्त्रेण दमनं स्थापयेद्बुधः
तत्र वै पूजनं कार्यं वैष्णवैर्द्विजसत्तमैः ॥९॥
क्लीं कामदेवाय नमो ह्रीं रत्यै च तथा नमः
एंद्र्यादि दिशि संस्थाप्य कंदर्प्पं पूजयेद्बुधः ॥१०॥
गंधं पुष्पं तथा धूपं दीपमारार्तिकं तथा
रात्रौ भक्त्या प्रकर्त्तव्यं विधिनात्र सुरेश्वरि ॥११॥
मदनाय नम इति प्राच्याम्
मन्मथाय नम इति आग्न्येय्याम्
कंदर्पाय नम इति याम्ये
अनंगाय नम इति रक्षोदिशि
भस्मशरीराय नमः इति वारुण्याम्
स्मराय नम इति वायव्याम्
ईश्वराय नमः इति कौबेर्याम्
पुष्पबाणाय नमः इति ईशान्याम्
चतुर्दिक्षु च सर्वासु पूजनं तत्र कारयेत्
पूजिते केशवे चात्र सर्वे देवाः सुपूजिताः ॥१२॥
अक्षतगंध धूपदीपैर्नैवेद्यैस्तांबूलैश्च दमनकं पूजयित्वा तु
तत्पुरुषाय विद्महे कामदेवाय धीमहि
तन्नोऽनंगः प्रचोदयात्
इति वै कामगायत्र्या अष्टोत्तरशतवारं तं दमनकं अभिमंत्र्य नमस्कुर्यात्
नमोस्तु पुष्पबाणाय जगदाह्लादकारिणे
मन्मथाय जगन्नेत्रे रतिप्रीतिकराय च ॥१३॥
देवदेव नमस्तेऽस्तु श्रीविश्वेश नमोस्तु ते
रतिपते नमस्तेस्तु नमस्ते विश्वमंडन ॥१४॥
नमस्तेस्तु जगन्नाथ सर्वबीज नमोस्तु ते
एतैर्नानाविधैर्मंत्रैरागमोक्तैर्विशेषतः ॥१५॥
पूजनीयः प्रयत्नेन लक्ष्म्या सह जनार्दनः
ततो निवेद्य तत्कर्म जागरं कारयेद्बुधः ॥१६॥
देवदेव जगन्नाथ वांच्छितार्थप्रदायक
हृत्स्थान्पूरय मे विष्णो कामान्कामेश्वरीप्रिय ॥१७॥
इत्येतैर्बहुभिर्मंत्रैः पूजनीयः प्रयत्नतः
श्रीनिवासो जगन्नाथो भक्तानां शमभीप्सकः ॥१८॥
ततो दमनकमुष्टिं गृहीत्वा तत्र मूलमंत्रेण
श्रीश्रीविष्ण्वादिदेवेभ्यो दमनकं निवेदयेत्
ततो गंधादिभिर्महतीपूजागीतवाद्यनृत्यैश्च महोत्सवः कार्यः
देवाग्रेस्थापितः कलशोदकं देवस्य पादयोर्निक्षिप्य जलक्रीडा तस्मिन्दिने कर्त्तव्या
ततः स्वगुरुं वस्त्रालंकारद्रविणैः श्रद्धया प्रपूजयेत्
ततः स्वयं वैष्णवैर्बंधुभिः सह अश्नीयात् ॥१९॥
महादेव उवाच-
ततो दमनकमंजर्या यो वै विष्णुं प्रपूजयेत्
पूजिते वै जगन्नाथे ह्यहं वै पूजितः सदा ॥२०॥
ब्रह्महा हेमहारी च मद्यपो मांसभक्षकः
मुच्यते पातकाद्देवि दृष्ट्वा दमनकोत्सवम् ॥२१॥
एवं दमनको देवि पूजितो यैः सुवैष्णवैः
सर्वं तीर्थं कृतं तैस्तु मंजर्या पूजनं कृतम् ॥२२॥
वेदाध्ययनं कृतं तेन शास्त्राध्ययनमेव च
अग्निहोत्रं कृतं तेन मंजर्या पूजितो हरिः ॥२३॥
तत्कुलं तु महज्ज्ञेयं ब्राह्मं वा चाथ क्षात्रियम्
शौद्रं वैश्यं च यच्चान्यद्धन्यं धन्यतरं स्मृतम् ॥२४॥
यस्मिन्कुलेऽवतीर्याथोत्सवो दमनकः कृतः
स च धन्यस्तु धन्यो वै येन विष्णुः प्रपूजितः ॥२५॥
दमनकेन तु तथा संप्राप्ते मधुमाधवे
संपूज्य गोसहस्रस्य देवि संलभते फलम् ॥२६॥
मल्लिकाकुसुमैर्देवं वसंते गरुडध्वजम्
योऽर्चयेत्परया भक्त्या मुक्तिभागी भवेत्तु सः ॥२७॥
मरुकोदमनकश्चैव सद्यस्तुष्टिकरो हरेः
अतः पूजा प्रकर्त्तव्या वैष्णवैर्नरसत्तमैः ॥२८॥
गोसहस्रं कृतं तेन कन्यादानं तथैव च
पृथ्वीदानं कृतं तेन विष्णोर्वै पूजने कृते ॥२९॥
एकामेकां गृहीत्वा तु मंजरीं दमनस्य तु
यः पूजयति देवेशं संप्राप्ते मधुमाधवे ॥३०॥
पुण्यसंख्यां न जाने वै तस्याहं नगनंदिनि
स वै चतुर्भुजो भूत्वा इह लोके परत्र च
धर्मानर्थांश्च कामांश्च प्रभुंक्ते वैष्णवं पदम् ॥३१॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
दमनकमहोत्सवो नाम चतुरशीतितमोऽध्यायः ॥८४॥
N/A
References : N/A
Last Updated : November 20, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP