संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ३३ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ३३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३३ Translation - भाषांतर नारद उवाच-शनिपीडा कथं याति तन्मे वद सुरोत्तमत्वन्मुखाच्छ्रूयते यद्वै तेन जंतुः प्रमुच्यते ॥१॥महादेव उवाच-देवर्षे शृणु वृत्तांतं तेन मुच्येत बंधनात्ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः ॥२॥अयं तु देवो विख्यातः कालरूपी महाग्रहःजटिलो वज्ररोमा च दानवानां भयंकरः ॥३॥तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभोमया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ॥४॥रघुवंशेऽति विख्यातो राजा दशरथः पुराचक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ॥५॥कृत्तिकांते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सःरोहिणीं भेदयित्वा च शनिर्यास्यति सांप्रतम् ॥६॥शाकटं भेदमत्युग्रं सुरासुरभयंकरम्द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥७एतच्छ्रुत्वा ततो वाक्यं मंत्रिभिः सह पार्थिवःमंत्रयामास किमिदं भयंकरमुपस्थितम् ॥८॥आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम्ब्रुवंति सर्वतो लोकाः क्षय एष समागतः ॥९॥देशाः सनगरा ग्रामा भयभीताः समंततःपप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् ॥१०॥संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ॥११॥वसिष्ठ उवाच-प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाःअयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा ॥१२॥इति संचिंत्य मनसा साहसं परमं महत्समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥१३॥रथमारुह्य वेगेन गतो नक्षत्रमंडलम्सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् ॥१४॥रोहिणीपृष्ठमास्थाय राजा दशरथः पुरारथे तु कांचने दिव्ये मणिरत्नविभूषिते ॥१५॥हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रयेदीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥१६॥बभ्राज स तदाकाशे द्वितीय इव भास्करःआकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् ॥१७संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयंकरम्हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥१८॥शनिरुवाच -पौरुषं तव राजेंद्र परं रिपुभयंकरम्देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥१९मया विलोकिता राजन्भस्मसाच्च भवंतितेतुष्टोऽहं तव राजेंद्र तपसा पौरुषेण चवरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि ॥२०॥दशरथ उवाच-रोहिणीं भेदयित्वा तु न गंतव्यं कदाचनसरितः सागरा यावत्यावच्चंद्रार्कमेदिनी ॥२१याचितं तु मया सौरे नान्यमिच्छामि ते वरम्एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् ॥२२पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रतप्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा ॥२३॥न भेत्तव्यं हि शकटं त्वया भास्करनंदन द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥२४॥शनिरुवाच-द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यतिकीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति ॥२५॥वरद्वयं तु संप्राप्य हृष्टरोमा च पार्थिवःरथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि ॥२६॥ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम्राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् ॥२७॥दशरथ उवाच-नमः कृष्णाय नीलाय शितिकंठनिभाय चनमः कालाग्निरूपाय कृतांताय च वै नमः ॥२८॥नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय चनमो विशालनेत्राय शुष्कोदरभयाकृते ॥२९॥नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमःनमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ॥३०॥नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमःनमो घोराय रौद्राय भीषणाय कपालिने ॥३१॥नमस्ते सर्वभक्षाय वलीमुख नमोस्तु तेसूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ॥३२॥अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु तेनमो मंदगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ॥३३॥तपसा दग्धदेहाय नित्यं योगरताय चनमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥३४॥ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवेतुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥३५॥देवासुरमनुष्याश्च सिद्धविद्याधरोरगाःत्वया विलोकिताः सर्वे नाशं यांति समूलतः ॥३६॥प्रसादं कुरु मे देव वरार्होऽहमुपागतःएवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥३७॥अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिःतुष्टोऽहं तव राजेंद्र स्तवेनानेन सुव्रतवरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन ॥३८॥दशरथ उवाच-अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित्देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ॥३९॥शनिरुवाच-गृह्णंतीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताःअदेयं याचितं राजन्किंचिद्युक्तं वदाम्यहम् ॥४०॥त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवःएककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ॥४१॥देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम्मृत्युं मृत्युगतो दद्यां जन्मन्यंते चतुर्थके ॥४२॥यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितःशमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ॥४३॥माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम्कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ॥४४॥मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत्पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलि ॥४५॥तस्य पीडा न चैवाहं करिष्यामि कदाचनगोचरे जन्मलग्ने वा दशास्वंतर्दशासु च ॥४६॥रक्षामि सततं तस्य पीडां चापि ग्रहस्य चअनेनैव विधानेन पीडामुक्तं जगद्भवेत् ॥४७॥एवं युक्त्या मया दत्तो वरस्ते रघुनंदनवरत्रयं तु संप्राप्य राजा दशरथस्तदा ॥४८॥मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम्शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ॥४९॥स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदाय इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् ॥५०॥पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति चनरः स मुच्यते पापात्स्वर्गलोके महीयते ॥५१॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डेउमापतिनारदसंवादे दशरथकृतशनिस्तोत्रंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : November 18, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP