संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ३५

उत्तरखण्डः - अध्यायः ३५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच-
अतस्त्वां संप्रवक्ष्यामि उन्मीलनीमनुत्तमाम्
यस्याः श्रवणमात्रेण जन्मसंसारबंधनात् ॥१॥
पापात्मा मुच्यते पापैः स्वर्गलोके महीयते
देवताः पितरश्चैव तस्या गतिमवाप्नुयुः ॥२॥
विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात्
तस्या व्रतान्न संदेहः स्वर्गलोके महीयते ॥३॥
स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयते
अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम् ॥४॥
वैष्णवानां तु ये राजन्सेवा कुर्वंति नित्यशः
तेषां दंडं च कुरुषे नो वा तेषां नराधिपः ॥५॥
भोजनानंतरं तेषां भोजनं कुरुते नृप
तैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः ॥६॥
शालग्रामशिलाभूतां दत्त्वा मूर्द्धनि प्रत्यहम्
त्वं धारयसि भूपाल कंठे नित्यं सुभक्तितः ॥७॥
धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते
आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप ॥८॥
शंखोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितः
नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान् ॥९॥
नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम्
विष्वक्सेनाय दत्वा वै स्वयं भुनक्षि वाडव ॥१०॥
विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यते
नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम् ॥११
दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम्
श्यामांकुरैः पूजयसे पूज्यंते नृपसत्तम ॥१२॥
श्यामांकुरैः सदा वत्स पूजनं चाति दुर्ल्लभम्
पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते ॥१३॥
अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवि
तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता ॥१४॥
अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह
यवाक्षतैर्विशेषेण पूजनं कुरुषेन वा ॥१५॥
पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम्
यत्कृतं तु महाराज महापापप्रणाशनम् ॥१६॥
मोक्षदं सुखदं चैव तथायुष्यप्रदं सदा
एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम् ॥१७॥
गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम्
सर्वरोगादिशमनं पवित्रं कायशोधनम् ॥१८॥
व्रतमेतच्च कुरुषे नो वा चैव नराधिप
दशमीवेधरहितं कुरुषे जागरान्वितम् ॥१९॥
तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम्
गोपीचंदनजं पत्रं भाले वा नृपसत्तम ॥२०॥
धारितं सर्वलोकानां पवित्रीकरणं नृप
अतस्त्वं च धारयसे गोपीचंदनसंभवम् ॥२१॥
ब्रह्महा हेमहारी च मद्यपानी तथैव च
अगम्यगो महापापी तथा ह्यनृतभाषितः ॥२२॥
ते सर्वे मुक्तिमायांति तिलकं धारणादृताः
बिभर्षि कंठे नित्यं त्वं धात्रीफलसमुद्भवाम् ॥२३॥
मालां मुख्यायुतसमां तुलसीपत्रसंभवाम्
शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम् ॥२४॥
नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम्
पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः ॥२५॥
चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते
वासरं वासुदेवस्य सवेधं कुर्वतो नरान् ॥२६॥
निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः
सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते ॥२७॥
लिप्यते तेन पापेन राजा भवति नारकी
वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम्
कुलकोटिं समुद्धृत्य विष्णुलोके महीयते ॥२८॥
गौतम उवाच-
शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम्
यं श्रुत्वा पापिनः सर्वे मुक्तिमायांति तत्क्षणात् ॥२९॥
द्वादशीसंभवं पुण्यं मया ख्यातं न कस्यचित् ॥३०॥
वैष्णवोऽसि महाराज भक्तो भागवते नृणाम्
वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय ॥३१॥
उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु
कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम् ॥३२॥
एकादशी अहोरात्रं प्रभाते घटिका भवेत्
उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया ॥३३॥
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च
कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च ॥३४॥
उन्मीलनी समं किंचिन्न भूतं न भविष्यति
प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः ॥३५॥
शैलो हिमाचलो नैव न मेरुर्गंधमादनः
शैलो न नीलनिषधो न विंध्यो नैव नैमिषम् ॥३६॥
गोदावरी न कावेरी चंद्रभागा न वेदिका
न तापी न पयोष्णी च न क्षिप्रा नैव चंदना ॥३७॥
चर्मण्वती च सरयूश्चंद्रभागा न गंडिका
गोमती च विपाशा च शोणाख्यश्च महानदः ॥३८॥
किमत्र बहुनोक्तेन भूयोभूयो नराधिप
उन्मीलनीसमं किंचिन्न देवः केशवात्परः ॥३९॥
उन्मीलनीमनु प्राप्य यैः कृतं केशवार्चनम्
पापचक्रसमूहस्य राशयः पतिताः क्षणात् ॥४०॥
यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत्
तन्मासनाम्ना गोविंदः पूजनीयः प्रयत्नतः ॥४१॥
जातरूपमयः कार्यं मासनाम्ना तु माधवः
स्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः ॥४२॥
पवित्रोदकसंयुक्तं पंचरत्नसमन्वितम्
गंधपुष्पाक्षतैर्युक्तं कुंभं स्रग्दामभूषितम् ॥४३॥
पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम्
नानारत्नैश्च संयुक्तं नानागंधैः प्रपूजितम् ॥४४॥
मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम्
श्वेताख्यैस्तंदुलैश्चैव पूरणीयः प्रयत्नतः ॥४५॥
प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम्
उपानहौ तु राजर्षे आतपत्रं शिरोपरि ॥४६॥
भोजनं जलपात्रं च सप्तधान्यं तिलैः सह
रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः ॥४७॥
धेनुर्वात्र तु दातव्या वत्सालंकारसंयुता
सुवर्णशृंगी रौप्यखुरी ताम्रपृष्ठी तथैव च ॥४८॥
कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा
शय्यां सोपस्करां दद्यात्साधवे भक्तिपूर्वकम् ॥४९॥
धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत्
पूजनीयो महाभक्तैर्मंत्रैरेभिस्तु केशवः ॥५०॥
तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा
मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे ॥५१॥
गुह्ये तु गुह्यपतये कटे वै पीतवाससे
ब्रह्ममूर्तिभृते नाभावुदरे विश्वयोनये ॥५२॥
हृदये ज्ञानगम्याय कंठे वैकुंठमूर्तये
ऊर्द्ध्वगाय ललाटे तु बाहौ दक्षांतकारिणे ॥५३॥
उत्तमांगे सुरेशाय सर्वांगे सर्वमूर्तये
स्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः ॥५४॥
अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम्
शंखोपरि जले कृत्वा गंधपुष्पाक्षतान्वितम् ॥५५॥
सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतः
देवदेव महादेव श्रीकेशव जनार्दन ॥५६॥
सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन
शोकमोहमहापापान्मामुद्धर भवार्णवात् ॥५७॥
सुकृतं न कृतं किचिज्जन्मकोटिशतैरपि
तथापि मां महास्वामिन्मामुद्धर भवार्णवात् ॥५८॥
व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः
वियोनिं च गताश्चान्ये पापमृत्युवशं गताः ॥५९॥
ये भविष्यंति येऽतीताः प्रेतलोकान्समुद्धर
श्रांतोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी ॥६०॥
दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधर
दत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसंभवैः ॥६१॥
स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः संतोषयेद्धरिम्
वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम् ॥६२॥
तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात्
लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः ॥६३॥
अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतः
अहितं यो नाशयति स्वहितं दर्शयेत्सदा ॥६४॥
स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः
अकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत् ॥६५॥
गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम्
कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह ॥६६॥
कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैः
अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् ॥६७॥
कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ ॥६८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे उन्मीलनीव्रतंनाम पंचत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP