संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ६५

उत्तरखण्डः - अध्यायः ६५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
चातुर्मास्यव्रतानां च प्रब्रूह्युद्यापनं विभो
उद्यापने कृते सर्वं संपूर्णं भवति ध्रुवम् ॥१॥
महादेव उवाच-
व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत्
यस्तु कर्त्ता कर्मणां स न सम्यक्फलभाक्भवेत् ॥२॥
व्रतवैकल्यमासाद्य कुष्ठी चांधः प्रजायते
एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज ॥३॥
गृहीत्वा नियमानेतान्पालयित्वा यथाविधि
सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसंनिधौ ॥४॥
क्षमापयेद्देवदेवं यथाविधि च विस्तरात्
तैलत्यागे घृतं दद्याद्घृतत्यागे पयः स्मृतम् ॥५॥
मौने पिंडास्तिला देयाः सहिरण्या द्विजातये
भोजने भोजनं दद्याद्दध्योदनसमन्वितम् ॥६॥
अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम्
अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते ॥७॥
पालाशपात्रे यो भुंक्ते नरो मासचतुष्टयम्
भाजनं घृतपूर्णं तु दद्यादुद्यापने द्विज ॥८॥
षड्रसं भोजनं दद्याद्ब्राह्मणे नक्तभोजने
अयाचिते ह्यनड्वाहं सहिरण्यं प्रदापयेत् ॥९॥
माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम्
धात्रीस्नाने नरो दद्यात्स्वर्णं माषिकमेवच ॥१०॥
फलानां नियमे चैव फलानि च प्रदापयेत्
धान्यानां नियमे धान्यमथवा शालयः स्मृताः ॥११॥
तद्वद्भूशयने शय्यां सतूलां गेंदुकान्विताम्
ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम ॥१२॥
दंपत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम्
सभोगं दक्षिणोपेतं सशाकं लवणं तथा ॥१३॥
नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिः सक्तवः
नखकेशव्रते चैव प्रादेशं परिकल्पयेत् ॥१४॥
उपानहौ प्रदातव्यौ उपानहविवर्जनात्
आमिषस्य परित्यागात्सवत्सा कपिला स्मृता ॥१५॥
नित्यं दीपप्रदो यस्तु सौवर्णं दीपमावहेत्
तं दीपं घृतसंयुक्तं दद्याच्चैव द्विजन्मने ॥१६॥
विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया
शाकस्य नियमे शाकं माषे सौवर्णमाषकम् ॥१७॥
मैथुनानां तु नियमे रौप्यं दद्याद्दिवजातये
नागवल्ल्यास्तु नियमे कर्पूरं सहरिण्यकम् ॥१८॥
कालेकाले द्विजश्रेष्ठ यत्कृतं नियमेन तु
तत्तद्देयं विशेषेण परलोकगतीप्सया ॥१९॥
आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेत्
अनादिनिधनो देवः शंखचक्रगदाधरः
तस्याग्रे के न कुर्वंति यतो विष्णुस्तु पापहा ॥२०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चातुर्मास्योद्यापनंनाम पंचषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP