संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १४६

उत्तरखण्डः - अध्यायः १४६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
ततो गच्छेत देवेशि तीर्थं रुद्र महालयम्
केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितम् ॥१॥
श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम्
तत्र श्राद्धप्रदानेन पितरः सपितामहाः ॥२॥
तृप्ताः समभिगच्छंति रुद्रस्य परमं पदम्
वृषमुत्सृजते यस्तु तत्र रुद्र महालये ॥३॥
कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोदते
केदारे उदकं पीत्वा पुनर्जन्म न विद्यते ॥४॥
अत्र तु स्नानमात्रेण मुक्तिभागी न संशयः
एकस्मिन्समये देवि त्यक्त्वा कैलासमागतः ॥५॥
साभ्रमतीं महागंगां ज्ञात्वा लोकहिताय वै
तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम् ॥६॥
ततोहं च स्वकं स्थानं कैलासं प्रति भामिनि
तदनंतरं महापुण्यं तीर्थं जातं महालयम् ॥७॥
रुद्र महालयमिति लोके ख्यातिं गमिष्यति
कार्तिक्यामथ वैशाख्यां ये गच्छंति सुरोत्तमे
न तेषां विद्यते दुःखं सर्वसंसारजं पुनः ॥८॥

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायांमुत्तरखंडे उमामहेश्वर संवादे
रुद्र महालयतीर्थंनाम षट्चत्वारिंशाधिकशततमोऽध्यायः ॥१४६॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP