संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २९

उत्तरखण्डः - अध्यायः २९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच-
अथान्यत्संप्रवक्ष्यामि शृणु देवर्षिसत्तम
गोपीचंदनमाहात्म्यं यथादृष्टं श्रुतं मया ॥१
ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः
गोपीचंदनलिप्तांगो मुच्यते ब्रह्महत्यया ॥२॥
तिलकं कुरुते यस्तु गोपीचंदनसंभवम्
मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः ॥३॥
गोपीचंदनलिप्तांगो वैष्णवो विष्णुतत्परः
सर्वदोषैः प्रमुच्येत यथा गंगांभसा पुनः ॥४॥
ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च
गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः ॥५॥
स सद्यो मुच्यते पापादाजन्मशतकारणात्
द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः ॥६॥
वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम्
दंडाकारं ललाटे स्यात्पद्माकारं तु वक्षसि ॥७॥
वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति
उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे ॥८॥
नाममुद्राद्वयं नीचैः शंखमेकं तयोरपि
मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत् ॥९॥
वामेऽपि चतुरः शंखान्नाममुद्रे च पूर्ववत्
चक्रमेकंगदे द्वे द्वे तयोरिति विभेदतः ॥१०॥
ललाटे च गदामेकां नाममुद्रां तथा हृदि
त्रीणित्रीणि विचित्राणि मध्ये शाखावुभावुभौ ॥११॥
हृदि पार्श्वे स्तनादूर्ध्वं गदापद्मानि बाहुवत्
त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः ॥१२॥
एकमेकं तदन्येषु तिलकेषु च धारयेत्
संप्रदायजमुद्रां तु धार्या शिष्टानुसारतः ॥१३॥
यथारुच्यथवा धार्या न तत्र नियमा यतः
आचांडालाद्विशुद्ध्यंति तिलकस्यैव धारणात् ॥१४॥
चांडालादधिकं मन्ये वैष्णवानां हि निंदकम्
स च विष्णुसमो ज्ञेयो नात्र कार्या विचारणा ॥१५॥
वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः
नांतरस्तस्य वै ज्ञेयः स वै विष्णुर्भवेदिह ॥१६॥
शंखचक्रधरो विप्रो वेदाध्ययनतत्परः
स वै नारायण इति वेदे चैव तु पठ्यते ॥१७॥
तप्तचक्रधरो विप्रः पंक्तिपावनपावनः
तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते ॥१८॥
तुलसीपत्रमालां वा तुलसीकाष्ठसंभवाम्
धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः ॥१९॥
विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः
पंचत्वे यस्य तिलकं गोपीचंदनसंभवम् ॥२०॥
विमानं स समारुह्य याति विष्णोः परं पदम्
कलौ नारद वक्ष्यामि तिलकं गोपिचंदनम् ॥२१॥
ये कुर्वंति नरश्रेष्ठा न तेषां दुर्गतिः क्वचित्
शंखं चैव तथा चक्रं दक्षिणे चापि सव्यके ॥२२॥
हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते
मद्यपानरता ये च ये च स्त्रीबालघातकाः ॥२३॥
अगम्यागमका ये वै दृश्यंते भुवि वाडव
भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः ॥२४॥
संसारे तुच्छसारेस्मिन्कुतो वै वैष्णवा जनाः
अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः ॥२५॥
काश्यां निवसतां ह्यत्र रामरामेति संजपन्
तेन पुण्यादियोगेन शिवो वै नात्र संशयः ॥२६॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे गोपीचंदनमाहात्म्यं नामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP