संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २२१ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २२१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २२१ Translation - भाषांतर नारद उवाच-इत्युक्ता सा कला राजंस्तया नृपतिभार्ययास्वकोशात्स्वर्णमंजूषामानाय्य विदधे पुरः ॥१॥उवाच च महाराज भार्येऽस्यामहदद्भुतम्पुस्तकं वर्तते देवि तत्र चित्राणि संति वै ॥२॥उद्धाट्य दृश्यतां किंचित्किं किमस्त्यत्र पुस्तकेरंस्यते ते मनो नूनं तत्रस्था लेख्यदर्शने ॥३॥इत्युक्त्वा भूपपत्नी सा दास्या तामुदघाटयत्मंजूषां तत्र संस्थं च पुस्तकं पाणिनाऽग्रहीत् ॥४॥तत्रावलोकयामास सावतारान्समासतःपूर्वं ततस्तु भूगोलं पंचाशत्कोटियोजनम् ॥५॥तत्रांधकारसंयुक्ता भूमिर्दृष्टाथ कांचनीएतयोरंतरे राजँल्लोकालोकश्च पर्वतः ॥६॥सप्तद्वीपास्ततो दृष्ट्वा समुद्रैः सप्तभिर्वृताःएतेषु नद्यः शैलाश्च खंडानि तु महामते ॥७॥एतद्भारतखंडं सा पश्यंती भूपतिप्रियायमुनाजाह्नवी मुख्या सरितः समवैक्षत ॥८॥यमुनातीरगं राजन्निंद्रप्रस्थमिदं शुभम्ददर्श सा महाभागा तीर्थं व्रजयुतं नृप ॥९॥अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मितम्पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी ॥१०॥ततस्तूष्णीं समुत्थाय तूर्णं सा स्वगृहं ययौनिश्चित्येति न भोक्ष्यामि ततः प्रस्थाय तीर्थकम् ॥११॥तदैव सा तु हेमांगी सहगंतुमसुप्रियम्वीरवर्माणमाहेदं तीर्थराजं प्रिया सती ॥१२॥हेमांग्युवाच-भो भो प्राणपते वाक्यं मदीयं शृणु धर्मदम्विधेहि च महाभाग तूर्णं पूर्णो भविष्यति ॥१३॥पुराहं मोहिनी नाम वेश्या च बहुपापकृत्यौवने वार्द्धके किंचिद्धर्मे जाता मतिर्मम ॥१४॥पापेनोपार्जितां वित्तं धर्मेण व्ययितं मयानिर्द्धनाहं यदा राजन्निर्गता निजपत्तनात् ॥१५॥तदा मां निर्जनेऽरण्ये यांती जघ्नुस्तु तस्कराःवृथा दारिद्र्यसंतप्ता पापा धनजिघृक्षया ॥१६॥शितशस्त्रक्षतांगीं मां श्वसंतीं गतचेतनाम्विसृज्य तस्करास्तत्र गता हतमनोरथाः ॥१७॥ततो वैखानसो ह्येकः प्रयागस्य जलं वहन्इंद्रप्रस्थगतस्यैव वने तत्र समागतः ॥१८॥तत्र मां पतितां दृष्ट्वा तदवस्थां स तापसःका त्वं कुतः किमर्थं वा हता केनेति पृष्टवान् ॥१९॥तदा किमपि नोक्तं मे प्रार्थितं पुण्यमंबु तत्तेन तन्मे मुखे क्षिप्तं ततोऽहं देहमत्यजम् ॥२०॥प्राणप्रयाणकाले तु वारितत्सर्वकामदम्श्रुत्वेति वांच्छितवती महिषी स्यामिति प्रभो ॥२१॥तस्य तीर्थांभसो राजन्प्रसादात्ते गृहेश्वरीजाताहं सत्कुलाचारा शीलया परयो निधेः ॥२२॥सांप्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृपप्रयागं तीर्थराजं तं भवता सह कामदम् ॥२३॥प्रस्थास्येहं यदा राजन् तीर्थराजं प्रति प्रभोतदाहमन्नं भोक्ष्यामि मयेति विहितः पणः ॥२४॥राजोवाच-कथमेतद्विजानीयां त्वदुक्तं चललोचनेप्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम् ॥२५॥नारद उवाच-इत्युक्ते तेन भूपेन खे वागित्यभवत्तदाआकाशवागुवाच-सत्यमुक्तं वचो राजन्ननया तव भार्यया ॥२६॥इंद्रप्रस्थे गते पुण्ये प्रयागे तीर्थपुंगवेतत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि ॥२७॥नारद उवाच-निशम्येति ततो वाणीं नृपो गगनसंभवाम्दंडवत्पतितो भूमौ तद्वक्तारं नमाम्यहम् ॥२८॥अथ मंत्रिणमाहूय राज्यमारोप्य तत्र वैतया सह समारुह्य रथं तीर्थवरं ययौ ॥२९कतिभिर्वासरैरत्र हेमांग्या सह आययौउपजहृ तीर्थराजे क्षीरं भार्यायुतो नृपः ॥३०॥सस्नतुस्तौ शिवे तीर्थे दंपती तत्र कामदेप्रयागे तेन वपुषा वैकुंठप्राप्तिरस्तु मे ॥३१॥प्रतीच्छया स्नानमात्रे मिथुने तत्र भूपतेआगतौ सुरशार्दूलौ हंसपक्षींद्रवाहनौ ॥३२॥आगतौ तौ समालोक्य वीरवर्मा स भूपतिःप्रणम्य शिरसा देवौ तुष्टावैकाग्रमानसः ॥३३॥राजोवाच-नमो वां सुरशार्दूलौ बिभ्रद्भ्यामसितारुणेवपुषी क्षौमवासांसि हेमसिंदूरभानि च ॥३४॥वंदे युवां सत्वरजः प्रधानौ चराचरस्य स्थितिसर्गहेतूवैकुंठसत्याद्भुतलोकनाथौ चतुर्द्विबाहू खगराजवाहौ ॥३५॥वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादिकौ चवृंदारके वंदितपादपद्मौ सद्भावनम्रेण नमामि मूर्ध्ना ॥३६॥गोविंदवृंदारकवंद्यपाद न कोऽपि जानाति तव स्वरूपम्यतः परस्त्वं प्रकृतेश्च पुंसो मनोवचोभ्यामपि दूरवर्ती ॥३७॥धन्यः सलोके पुरुषः परात्मन्यो विश्वमेतत्क्षणिकं विचिंत्यअनन्यचेता भजति त्वदीय पादारविंदं मुनिवृंदवंद्यम् ॥३८॥त्वत्पादसेवनंनाम तीर्थमेतच्च दुर्लभम्जनानां भजमानानां वांछितार्थफलप्रदम् ॥३९॥तथाप्येतद्द्वयं सेव्यं मुक्तये नान्यलब्धयेअन्यकामनया यस्तु सेवते स तु वंचितः ॥४०॥संतो भवंतमासेव्य तीर्थमेतच्च मुक्तिदम्नान्यमिच्छंत्यतिक्रम्य सर्वलोकान्जिजीषवः ॥४१॥नारद उवाच-इत्यभिष्टूय देवेशं लोकेशं स च भूपतिःतस्थौ यदा तदा राजन्हेमांगी सा जगाद ह ॥४२॥पद्मापते पद्मपलाशलोचन ब्रह्मन्करालासन भारती गुरोनमो युवाभ्यां यदि दीनचेतसे प्रसीदतां तारयतां भवाब्धेः ॥४३॥तीर्थस्यास्य प्रसादेन जाताहं महिषी प्रभोयुवयोर्दर्शनं जातं देवानामपि दुर्लभम् ॥४४॥युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम्स्नानकाले यदावाभ्यां विहितं पारमार्थिकम् ॥४५॥एवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुंगवौप्रसन्नवदनौ भूत्वा प्रोचतुर्दंपती प्रति ॥४६॥हरिब्रह्माणावूचतुःधन्या त्वमसि हेमांगि यतोऽयं तारितः पतिःत्वया राज्यसुखासक्त चित्तोप्येतत्समागमात् ॥४७॥राज्ञां विषयसक्तानां दुर्लभा मुक्तिरीदृशीत्वद्भर्तुर्यादृशी जाता तीर्थस्यास्य प्रसादतः ॥४८॥नारद उवाच-इत्युक्त्वा तौ समालोक्य गरुडं पक्षिपुंगवम्जग्मतुस्तौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर ॥४९॥तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृपतस्य चित्तानुरोधेन तस्थुरेकं मुहूर्तकम् ॥५०॥अथ ताभ्यामुभाभ्यां स दंपतीभ्यां समं हरिःआरुह्य गरुडं श्रीमद्वैकुंठमगमन्नृप ॥५१॥इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवम्पुण्यं समस्तपापघ्नं यशस्यं सुतदं नृप ॥५२॥य एतच्छृणुयान्नित्यं पठेदपि च मानवःस गच्छेद्वांछितं स्थानं सत्यमेतन्मयोदितम् ॥५३॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहात्म्ये प्रयागवर्णनंनामैकविंशत्यधिकद्विशततमोऽध्यायः ॥२२१॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP