संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ३४

उत्तरखण्डः - अध्यायः ३४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः
यच्छ्रुत्वा मुच्यते लोकः कर्मबंधनतः क्षणात् ॥१॥
महादेव उवाच-
सर्वपापौघशमनं महादुःखविनाशनम्
शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् ॥२॥
कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम्
त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम ॥३॥
प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः
त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने ॥४॥
न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत्
त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः ॥५॥
नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः
बहुभिर्व्रतसंघैश्च पूजितैस्त्रिदशैरपि ॥६॥
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि
मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः ॥७॥
द्विजानां दुर्विदं सांख्यं कलिकाले विशेषतः
अनिग्रहश्चेंद्रियाणां स्थिरत्वं मनसो नहि ॥८॥
विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम्
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ॥९॥
मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे
क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा ॥१०॥
त्रिस्पृशां ये करिष्यंति विषयैरपि संयुताः
तेषामपि मया दत्तो मोक्षः सांख्यविवर्जिनाम् ॥११॥
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी
बहुभिर्मुनिसंघैश्च कृतेयं च महामुने ॥१२॥
कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि
सोमेन सोमजेनापि पापकोटिविनाशिनी ॥१३॥
यस्या उपोषणकृतो हत्यायुक्त महेशितुः
हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि ॥१४॥
कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा
उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात् ॥१५॥
हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने
गता भृगूपदेशेन त्रिस्पृशा समुपोषणात् ॥१६॥
शतायुधेन विप्रेंद्र निहतो ब्राह्मणो वने
ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात् ॥१७॥
जीवोपदेशाच्छक्रस्य हत्या नमुचिसंभवा
विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात् ॥१८॥
ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात्
विलयं यांति विप्रेंद्र पापेष्वन्येषु का कथा ॥१९॥
न प्रयागे न काश्यां तु गोमत्यां कृष्णसंनिधौ
मोक्षो भवति विप्रेंद्र त्रिस्पृशा यदि नो कृता ॥२०॥
मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ
स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती ॥२१॥
गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात्
विषये वर्त्तमानस्य कामभोगान्वितस्य च ॥२२॥
निवृत्तविषयस्यापि मुक्तिः सांख्येन दुर्ल्लभा
तस्मात्कुरुष्व विप्रेंद्र त्रिस्पृशां मोक्षदायिनीम् ॥२३॥
नारद उवाच-
कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम्
मुक्तिदं यद्दिवजातीनां त्वया प्रोक्तं ममाधुना ॥२४॥
महादेव उवाच-
जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु
प्राची सरस्वती तीरे कथिता त्वनुकंपया ॥२५॥
जाह्नव्युवाच-
कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः
कलिकाले हृषीकेश स्नानं कुर्वंति मज्जले ॥२६॥
तेषां पापशतैर्दोषैर्देहो मे कलुषी कृतः
कथं यास्यति मे देव पातकं गरुडध्वज ॥२७॥
प्राचीमाधव उवाच-
कथयामि न संदेहो मा पुत्रि रोदनंकुरु
श्यामोवटस्तु मे स्थानं प्राचीदेवी ममाग्रतः ॥२८॥
वहते ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीम्
स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि ॥२९॥
यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः
तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम् ॥३०॥
पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम्
संतुष्टेन मया दत्तं यस्मात्प्राणाधिकासि मे ॥३१॥
तीर्थकोटिसहस्राणि नित्यं तिष्ठंति जाह्नवि
प्राचीसरस्वती तोये सर्वदैव ममाज्ञया ॥३२॥
ब्रह्मवधात्सुरापानात्गोधवाद्वृषलीवधात्
ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात् ॥३३॥
चक्रियानाद्गुरुद्रोहादभक्ष्यस्य च भक्षणात्
सर्वपापस्य करणात्प्राची ब्रह्मसुता सुते ॥३४॥
व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः
कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ॥३५॥
जाह्नव्युवाच-
नाहं शक्नोमि देवेश आगंतुं नित्यमेव हि
कथं नश्यंति पापानि कथयस्वेह माधव ॥३६॥
प्राचीमाधव उवाच-
न शक्नोषि यदागंतुं नित्यमेव हि जाह्नवि
तदान्यत्संप्रवक्ष्यामि यस्मान्मत्पादसंभवा ॥३७॥
सरस्वत्यधिका या च तीर्थकोटिशताधिका
मखकोट्यधिका वापि व्रतदानाधिका च या ॥३८॥
जपहोमाधिका या च चतुर्वर्गफलप्रदा
सांख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा ॥३९॥
यस्मिन्मासे समायाति सिता च यदि वासिता
कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते ॥४०॥
जाह्नव्युवाच-
कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव
ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना ॥४१॥
दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत्
त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो ॥४२॥
कृष्ण उवाच-
आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता
वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः ॥४३॥
असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी
वर्जनीया प्रयत्नेन यथा नारी रजस्वला ॥४४॥
स्वजातिं च परित्यज्य या गताधमजातिषु
सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम् ॥४५॥
यथा रजस्वलासंगाद्दूष्यंते ज्ञानवर्जिताः
तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम् ॥४६॥
हत्यायुतशतं हंति त्रिस्पृशा समुपोषिता
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥४७॥
त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि
कृत्वापराधं मुच्येत प्रायश्चित्ते कृते नरः ॥४८॥
दशमीवेधजं दोषं न क्षमामि सुरापगे
भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम् ॥४९॥
दशमीमिश्रितं येन कृतमेकादशीव्रतम्
इति मत्वा न कर्त्तव्यं मद्दिनं दशमीयुतम् ॥५०॥
जन्मकोटिकृतंपुण्यं संतानं याति संक्षयम्
पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम् ॥५१॥
स्वदेहं शोधयित्वा तु कर्त्तव्यो मम वासरः
वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता ॥५२॥
जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम्
संवृद्धौ तु विशेषेण संदेहे समुपस्थिते ॥५३॥
ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम ॥५४॥
जाह्नव्युवाच-
करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव
सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया ॥५५॥
श्रीकृष्ण उवाच-
स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन
तव देवि सरिच्छ्रेष्ठे न पापं संक्रमिष्यति ॥५६॥
स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम्
प्रणमंति जगन्नाथं ते यांति परमां गतिम् ॥५७॥
जाह्नव्युवाच-
विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम्
प्रसादयामि देवेशं दामोदरमनामयम् ॥५८॥
प्राचीमाधव उवाच-
शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम्
यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः ॥५९॥
पलेन च पलार्धेन तदर्द्धेनापि वापगे
प्रतिमा मम सौवर्णा कार्या विभवसारतः ॥६०॥
पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम्
सजलं तु घटं शुभ्रं पंचरत्नसमन्वितम् ॥६१॥
वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम्
न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ॥६२॥
परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम्
मंत्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः
पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः ॥६३॥
छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम्
निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ॥६४॥
उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम्
वैणवं दापयेद्दंडं सुरूपं सोन्नतं दृढम् ॥६५॥
दामोदराय वै पादौ जानुनी माधवाय च
गुह्यं कामप्रदायेति कटिं वामनमूर्तये ॥६६॥
पद्मनाभाय नाभिं तु जठरं विश्वयोनये
हृदयं ज्ञानगम्याय कंठं वैकुंठगामिने ॥६७॥
सहस्रबाहवे बाहू चक्षुषी योगरूपिणे
संपूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः ॥६८॥
शुभ्रेण नालिकेरेण शंखोपरि स्थितेन हि
सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि ॥६९॥
स्मृतो हरसि पापानि यदि नित्यं जनार्दन
दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता ॥७०॥
नारकं तु भयं देव भयदुर्गतिसंभवम्
यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् ॥७१॥
तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते
कृपादृष्टिः सदैवास्तु दामोदर ममोपरि ॥७२॥
धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः
शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः ॥७३॥
कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः
दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कंचुकम् ॥७४॥
उपानहोऽपि छत्रं च मुद्रिकां च कमंडलुम्
भोजनं चैव तांबूलं सप्तधान्यं च दक्षिणाम् ॥७५॥
गुरुं संपूज्य देवेशं कुर्याज्जागरणं हरेः
गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् ॥७६॥
निशांते चैव देवाय दत्वा चार्घं विधानतः
स्नानादिकां क्रियां कृत्वा भुंजीयाद्वाडवैः सह ॥७७॥
शिव उवाच-
द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्
श्रुत्वा तु लभते पुण्यं गंगां स्नानसमुद्भवम् ॥७८॥
अश्वमेधसहस्राणि वाजपेयशतानि च
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥७९॥
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः
तैः सर्वैः सह संमुक्तो विष्णुलोके महीयते ॥८०॥
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥८१॥
ब्राह्मणा येऽपि कुर्वंति क्षत्रियाः कृष्णमानसाः
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः ॥८२॥
ते सर्वे मुक्तिमायांति भुवं त्यक्त्वा द्विजोत्तम
मंत्राणां मंत्रराजोऽथ यथा स्याद्द्वादशाक्षरः ॥८३॥
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता ॥८४॥
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी
अनेन विधिना ब्रह्मंस्त्रिस्पृशासंभवं व्रतम् ॥८५॥
यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम्
गंगावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम् ॥८६॥
मन्वंतरसहस्रैस्तु त्रिस्पृशाकारको हि तत्
प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम् ॥८७॥
तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः
तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः ॥८८॥
हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत्
पापकोटिसहस्राणि हत्याकोटिशतानि च ॥८९॥
एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम्
त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम् ॥९०॥
गतिमिच्छंति विप्रर्षे महत्पापशतानि च
स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः ॥९१॥
प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे
पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति ॥९२॥
पुण्यैरवाप्यते विद्वन्मन्वंतरशतैरपि
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ॥९३॥
कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वंति नराधमाः
तेषां जन्मफलं चैव जीवितं विफलं भवेत् ॥९४॥
प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः
कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे ॥९५॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे त्रिस्पृशाख्यानंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP