संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ६१

उत्तरखण्डः - अध्यायः ६१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
श्रुतं रमाया माहात्म्यं त्वत्तः कृष्ण यथातथम्
कार्तिके शुक्लपक्षे या तां मे कथय मानद ॥१॥
श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि शुक्ले चोर्जदले तु या
सा यथा नारदे प्रोक्ता ब्रह्मणा लोककारिणा ॥२॥
नारद उवाच -
प्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम
यस्यां जागर्ति गोविंदो धर्मकर्मप्रवर्त्तकः ॥३॥
ब्रह्मोवाच-
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम्
मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम ॥४॥
तावद्गर्जंति तीर्थानि आसमुद्रसरांसि च
यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ॥५॥
तावद्गर्जंति विप्रेंद्र गंगाभागीरथी क्षितौ
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी ॥६॥
अश्वमेधसहस्राणि राजसूयशतानि च
एकेनैवोपवासेन प्रबोधिन्या लभेन्नरः ॥७॥
यद्दुर्ल्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम्
तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी ॥८॥
ऐश्वर्यं संपदं प्रज्ञां राज्यं च सुखसंपदः
ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी ॥९॥
मेरुमन्दरमात्राणि पापान्युक्तानि यानि च
एकेनैवोपवासेन दहते पापनाशिनी ॥१०॥
पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितम्
निशि जागरणं चास्या दहते तूलराशिवत् ॥११॥
उपवासं प्रबोधिन्यां यः करोति स्वभावतः
विधिवन्मुनिशार्दूल यथोक्तं लभते फलम् ॥१२॥
यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः
स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम् ॥१३॥
विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम्
अणुमात्रं तदाप्नोति फलं धर्मस्य नारद ॥१४॥
ये ध्यायंति मनोवृत्या ये करिष्यंति बोधिनीम्
वसंति पितरो हृष्टा विष्णुलोके च तस्य वै ॥१५॥
विमुक्ता नारकैर्दुःखैर्याति विष्णोः परं पदम्
कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः ॥१६॥
कृत्वा तु जागरं विष्णोर्द्धौतपापो भवेन्नरः
दुष्प्राप्यं यत्फलं विप्र अश्वमेधादिकैर्मखैः ॥१७॥
प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे
आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा कांचनं महीम् ॥१८॥
तत्फलं समवाप्नोति यत्कृत्वा जागरं हरेः
जातः स एव सुकृती कुलं तेनैव पावितम् ॥१९॥
कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी
यथा ध्रुवं नृणां मृत्युर्धनं गात्रं तथाध्रुवम् ॥२०॥
इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम्
यानि कानि च तीर्थानि त्रैलोक्ये संभवंति च ॥२१॥
तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम्
किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी ॥२२॥
पुत्रपौत्रप्रदा ह्येषा कार्तिके हरिबोधिनी
स ज्ञानी च स योगी च स तपस्वी जितेंद्रियः ॥२३॥
भोगो मोक्षश्च तस्यास्ति उपास्ते हरिबोधिनीम्
विष्णोः प्रियतरा ह्येषा धर्मसारसहायिनी ॥२४॥
यः करोति नरो भक्त्या भुक्तिभाक्स भवेन्नरः
प्रबोधिनीमुपोषित्वा गर्भे न विशते नरः ॥२५॥
सर्वधर्मान्परित्यज्य तस्मात्कुर्वीत नारद
कर्मणा मनसा वाचा पापं यत्समुपार्जितम् ॥२६॥
तत्क्षालयति गोविंदः प्रबोधिन्यां तु जागरे
स्नानं दानं जपः पूजां समुद्दिश्य जनार्दनम् ॥२७॥
नरो यत्कुरुते वत्स प्रबोधिन्यां तदक्षयम्
येर्चयंति नरास्तस्यां भक्त्या देवं च माधवम् ॥२८॥
समुपोष्य प्रमुच्यंते पापैस्तैः शतजन्मजैः
महाव्रतमिदं पुत्र महापापौघनाशनम् ॥२९॥
प्रबोधवासरं विष्णोर्विधिवत्समुपोषयेत्
व्रतेनानेन देवेशं परितोष्य जनार्दनम् ॥३०॥
विराजयन्दिशः सर्वाः प्रयाति हरिमंदिरम्
कर्तव्यैषा प्रयत्नेन नरैः कांतिधनार्थिभिः ॥३१॥
बाल्ये यत्संचितं पापं यौवने वार्द्धके तथा
शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥३२॥
तत्क्षालयति गोविंदश्चास्यामभ्यर्चितो नृणाम्
धनधान्यवहा पुण्या सर्वपापहरा परा ॥३३॥
तामुपोष्य हरेर्भक्त्या दुर्ल्लभं न भवेत्क्वचित्
चंद्रसूर्योपरागे च यत्फलं परिकीर्तितम् ॥३४॥
तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां प्रजागरे
स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः ॥३५॥
तत्सर्वं कोटिगुणितं प्रबोधिन्यां कृतं तु यत्
जन्मप्रभृतियत्पुण्यं नरेणोपार्जितं भवेत् ॥३६॥
वृथा भवति तत्सर्वमकृत्वा कार्तिके व्रतम्
अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः ॥३७॥
न जन्मार्जितपुण्यस्य फलं प्राप्नोति नारद
तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् ॥३८॥
उपसेवेत विप्रेंद्र सर्वकामफलप्रदम्
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः ॥३९॥
परान्नवर्जनाद्वत्स चांद्रायणफलं लभेत्
नित्यं शास्त्रविनोदेन कार्तिके मधुसूदनः ॥४०॥
स दहेत्सर्वपापानि यज्ञायुतफलं लभेत्
न तथा तुष्यते यज्ञैर्न दानैर्वाजपादिभिः ॥४१॥
यथा शास्त्रकथालापैः कार्तिके मधुसूदनः
ये कुर्वंति कथां विष्णोर्ये शृण्वंति शुभान्विताः ॥४२॥
श्लोकार्द्धं श्लोकपादं वा कार्तिके गोशतं फलम्
सर्वधर्मान्परित्यज्य कार्तिके केशवाग्रतः ॥४३॥
शास्त्रावधारणं कार्यं श्रोतव्यं च महामुने
श्रेयसा लोभबुद्ध्या च यः करोति हरेः कथाम् ॥४४॥
कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम्
नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम् ॥४५॥
कार्तिके तु विशेषेण गोसहस्रफलं लभेत्
प्रबोधवासरे विष्णोः शृणुते यो हरेः कथाम् ॥४६॥
सप्तद्वीपवती दाने तत्फलं लभते मुने
श्रुत्वा विष्णुकथां दिव्यां येऽर्चयंति कथाविदम् ॥४७॥
स्वशक्त्या मुनिशार्दूल तेषां लोकोऽक्षयः स्मृतः
गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः ॥४८॥
न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय
गीतं नृत्यं च वाद्यं च भव्यां विष्णुकथां मुने ॥४९॥
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः
बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुंकुमैः ॥५०॥
हरेः पूजा विधातव्या कार्तिके बोधवासरे
यस्मात्पुण्यमसंख्यातं प्राप्यते मुनिसत्तम ॥५१॥
फलैर्नानाविधैर्द्रव्यैः प्रबोधिन्यां तु जागरे
शंखे तोयं समादाय अर्घो देयो जनार्दने ॥५२॥
यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम्
तत्फलं कोटिगुणितं दत्त्वार्घं बोधवासरे ॥५३॥
गुरुपूजा ततः कार्या भोजनाच्छादनादिभिः
दक्षिणाभिश्च देवर्षे तुष्ट्यर्थं चक्रपाणिनः ॥५४॥
भागवतं शृणुते यस्तु पुराणं च पठेन्नरः
प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ॥५५॥
कार्त्तिके मुनिशार्दूल स्वशक्त्या वैष्णवं व्रतम्
यः करोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला ॥५६॥
केतक्या एकपत्रेण पूजितो गरुडध्वजः
समाः सहस्रं सुप्रीतो भवति मधुसूदनः ॥५७॥
अगस्तिकुसुमैर्देवं पूजयेद्यो जनार्दनम्
दर्शनात्तस्य देवर्षे नरकाग्निः प्रणश्यति ॥५८॥
मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः
ददात्यभिमतान्कामान्शशिसूर्यग्रहे यथा ॥५९॥
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम्
कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥६०॥
तुलसीदलानि पुष्पाणि ये यच्छंति जनार्दने
कार्तिके सकलं वत्स पापं जन्मायुतं दहेत् ॥६१॥
दृष्टा स्पृष्टाथ वा ध्याता कीर्तिता नामतस्तु ता
रोपिता सिंचिता नित्यं पूजिता तुलसी शुभा ॥६२॥
नवधा तुलसीभक्तिं ये कुर्वंति दिनेदिने
युगकोटिसहस्राणि तन्वंति सुकृतं मुने ॥६३॥
यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने
रोपिता तुलसी पुंभिर्वर्द्धते वसुधातले ॥६४॥
तेषां वंशे तु ये जाता ये भविष्यंति ये गताः
आकल्पवर्षसाहस्रं तेषां वासो हरेर्गृहे ॥६५॥
यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद
तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत् ॥६६॥
संप्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः
पूजनीयो महाविष्णुः कोमलैस्तुलसीदलैः ॥६७॥
इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः
तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने ॥६८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्त्तिके शुक्लैकादशीमाहात्म्यंनामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP