संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|

उत्तरखण्डः - अध्यायः ११९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ईश्वर उवाच
माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम
त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते ॥१॥
चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम्
यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम् ॥२॥
जितेंद्रियः शांतमनाः सदाचारेण संयुतः
स्नानं करोति यो माघे संसारी न भवेत्पुनः ॥३॥
श्रीकृष्ण उवाच
शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः
यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा ॥४॥
सूत उवाच
इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ
तदहं संप्रवक्ष्यामि तच्छृणुध्वं तपोधनाः ॥५॥
श्रीकृष्ण उवाच
पंचयोजनविस्तीर्णे शूकरे हरिमंदिरे
यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः ॥६॥
त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च
त्रयो हस्ता शूकरस्य परिमाणं विधीयते ॥७॥
षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः
तत्फलं लभते देवि प्रहरार्द्धेन शूकरे ॥८॥
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे
तुलापुरुषदानेन तत्फलं परिकीर्त्तितम् ॥९॥
काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत्
सहस्रगुणितं प्रोक्तं गंगासागरसंगमे ॥१०॥
अनंतं चैव विज्ञेयं शूकरे हरिमंदिरे
अन्यत्र ददते लक्षं संविधानेन कार्तिक ॥११॥
इहैवैकेन दत्तेन शूकरे तत्समं भवेत्
शूकरे च तथा वेण्यां गंगासागरसंगमे ॥१२॥
सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति
अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुंधरा
शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन ॥१३॥
मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक
कार्त्तिकेय उवाच
भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
विधिं मासोपवासस्य फलं चास्य यथोचितम् ॥१४॥
यथाविधि नरैः कार्या व्रतचर्या यथा भवेत्
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि ॥१५॥
यावत्संख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर
व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ ॥१६॥
श्रीरुद्र उवाच
पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ॥१७॥
सुराणां च यथा विष्णुस्तपतां च यथा रविः
मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ॥१८॥
तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक्
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥१९॥
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ॥२०॥
अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः
न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात् ॥२१॥
तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा
यः करोति विधानेन नरो मासमुपोषणम् ॥२२॥
उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम्
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥२३॥
वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ॥२४॥
अतिकृच्छ्रं च पाराकं कृत्वा चांद्रायणं ततः
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः ॥२५॥
आश्विनस्यामले पक्षे एकादश्यामुपोषितः
व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥२६॥
वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् ॥२७॥
अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः
मालतींदीवर्रैबुध्नैः कमलैश्च सुगंधिभिः ॥२८॥
कुसुमोशीरकर्पूरैर्विलिप्य वरचंदनैः
नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम् ॥२९॥
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्
कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेंद्रियः ॥३०॥
नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम्
भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता ॥३१॥
सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ॥३२॥
स्मृत्यालोकनगंधादि स्वादनं परिकीर्त्तनम्
अन्नस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम् ॥३३॥
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम्
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ॥३४॥
न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत्
देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम् ॥३५॥
कृत्वा मासोपवासं तु यथोक्तविधिना नरः
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥३६॥
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम्
कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः ॥३७॥
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः ॥३८॥
वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः
संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः ॥३९॥
चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम्
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥४०॥
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम् ॥४१॥
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते
एवं मासोपवासांते कृत्वा विप्रान्त्रयोदश ॥४२॥
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥४३॥
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम्
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ॥४४॥
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
विशुद्धकुलचारित्र विष्णुपूजनतत्परान् ॥४५॥
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश
तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च ॥४६॥
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि
दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ॥४७॥
ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम्
साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम् ॥४८॥
कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ॥४९॥
आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ
पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् ॥५०॥
एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान्
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ॥५१॥
ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम्
मंडपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः ॥५२॥
मंत्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः
सर्वंसंपूर्णतां यातु भवद्वाक्यप्रसादतः
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥५३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिताया
मुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो
पवासकथनंनामैकोनविंशत्यधिकशततमोऽध्यायः ॥११९॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP