संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ७७ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ७७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७७ Translation - भाषांतर महादेव उवाच-पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम्पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम् ॥१॥तवाग्रे संप्रवक्ष्यामि शृणु सुंदरि सांप्रतम्इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम् ॥२॥रजस्वला तु या नारी सहसा पापरूपिणीकृतेन च व्रतेनैव महापापैः प्रमुच्यतेपितॄणामक्षयं देयं धर्मकामार्थसाधनम् ॥३॥श्रीविष्णुरुवाच-पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगःसदाध्ययनशीलस्तु देवशर्मा इति द्विजः ॥४॥अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदासर्ववर्णेषु संपूज्यः सपुत्रपशुबांधवः ॥५॥तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनीप्राप्ते भाद्रपदे मासे शुक्लपक्षे तु पंचमी ॥६॥पितुःक्षयाहं कुरुते यतात्मा च जितेंद्रियःरात्रौ निमंत्रयेद्विप्रान्सुखसौभाग्यदायकान् ॥७॥प्रभाते विमले प्राप्ते भांडान्यन्यानि कारयेत्पाकं सर्वेषु पात्रेषु स कारयति जायया ॥८॥अष्टादशरसोपेतं पितॄणां प्रीतिदायकम्आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक् ॥९॥सर्वे विप्रास्तु संप्राप्ता मध्याह्ने वेदपाठकाःअर्घपाद्यादि विधिवत्कृतवान्द्विजसत्तमः ॥१०॥रजसा दूषितः श्राद्धे प्रक्षाल्य विधिवत्तदागृहमध्ये गताः सर्वे आसने ते निरूपिताः ॥११॥प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतःविधिना च कृतं श्राद्धं पिंडदानप्रपूर्वकम् ॥१२॥तांबूलं दक्षिणां चैव वस्त्राणि विविधानि चसर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः ॥१३॥विप्रा विसर्जिताः सर्वे आशीर्वादपरायणाःगोत्रिणां बांधवानां च अन्येषां च बुभुक्षताम् ॥१४॥दत्तमन्नं तदा तेन भोजने विधिपूर्वकम्निशायां तु कुटीद्वारे उपविष्टो यदा तदा ॥१५॥ब्राह्मण्या वारि संगृह्य पादप्रक्षालनं कृतम्तदा शुनी बलीवर्दौ परस्परमभाषताम् ॥१६॥शृणु कांत वचो मह्यं यादृक्कृतवती वधूःतादृशं संप्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम् ॥१७॥कदाचिद्दैवयोगेन गताहं पुत्रसद्मनितत्रस्थितं पयः पातुं वध्वा दृष्टं न तत्पुनः ॥१८॥पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनःपश्चात्पीतं मया सम्यक्दृष्टं वध्वा तदा पुनः ॥१९॥तेन संपर्कदोषेणकटिर्भग्ना च मे सदातेन दुःखेन भो स्वामिन्जाताहं दुःखभागिनीभग्ना कटिश्च संजाता ह्याहारो नैव रोचते ॥२०॥बलीवर्द्द उवाच-शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम्अस्मिन्वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनम् ॥२१॥कारितं मम पुत्रेण मम चिंता तु नो कृतानोदकं न तृणं चैव न दत्तं केनचित्क्वचित् ॥२२॥अनाहारोह्यहं पापी बद्धोऽस्मिन्पापभावितःपूर्वपापविशेषेण जातं शुनि न संशयः ॥२३॥तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमताममायं तु पिता साक्षाज्जातो मम गृहे पशुः ॥२४॥इयं तु जननी साक्षान्मम चैव न संशयःदैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम् ॥२५॥एवं विचार्यासौ विप्रो नैव निद्रामवाप सःरात्रौ चिंतापरो भूत्वा स्मरन्विश्वेश्वरं परम् ॥२६॥नानाधर्मपरोऽहं च ममैवं च कथं शुभम्विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः ॥२७॥प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतःतेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम् ॥२८॥ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम्इति पृष्टस्तदा विप्रः प्रणाममकरोत्तदा ॥२९॥अद्य मे सफलं जन्म अद्य मे सफला क्रियाअद्य मे पितरस्तृप्ता दुर्लभात्तव दर्शनात् ॥३०॥यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताःकुटुंबिनां तु सर्वेषां भोजनं कारितं तथा ॥३१॥भोजनानंतरं प्राप्ता शुनी तत्र उवाच हअस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्त्तते ॥३२॥तं पतिं प्रतिवाक्यं यद्दिवज मत्तः शृणुष्व तत्गृहेस्थितं दुग्धभांडमहिना दूषितं मया ॥३३॥दृष्टं मे महती चिंता तदा जाता न संशयःअनेन पयसा चैव पक्वमन्नं यदा भवेत् ॥३४॥तदात्र सर्वे विप्राश्च म्रियंते भोजनात्ततःएवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया ॥३५॥तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम्चरामि तेन संभग्ना किं करोमि सुदुःखिता ॥३६॥तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रतिशृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम् ॥३७॥अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनिअद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः ॥३८॥न तृणं नोदकं चैव ममाग्रे संनिवेदितम्तेन दुःखेन मे दुःखं जातं बहुतरं तदा ॥३९॥एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप नमम चिंता तु तत्रैव जाता वै ऋषिसत्तम ॥४०॥वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणिअनयोश्च महद्दुःखं किं करोमीति चिंतयन्आगतस्त्वत्समीपे तु ममकष्टं निवारय ॥४१॥ऋषिरुवाच-उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम्अयं वै तु द्विजश्रेष्ठो कुंडने नगरे शुभे ॥४२॥मासे भाद्रपदे चैव पंचमी या समागतातद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात् ॥४३॥स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघतया चैव कृतं सर्वं ब्राह्मणानां च भोजनम् ॥४४॥न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मनाप्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी ॥४५॥तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यतितेन पापेन सा जाता शुनी स्वगृहचारिणीबलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत ॥४६॥उग्रजन्मोवाच-व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रतब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम ॥४७॥ऋषिरुवाच-मासे भाद्रपदे शुक्ले जायते ऋषिपंचमीरजसा विकृतं पापं नश्यते करणाद्यतः ॥४८॥पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनीनद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा ॥४९॥गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत्तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् ॥५०॥यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथास्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः ॥५१॥आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैःनैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम् ॥५२॥एकभक्तेन कर्तव्यमृषीणामर्चनं तदापूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम् ॥५३॥निर्वापं सघृतं देयं दक्षिणासंयुतं तदादेयं विप्राय विधिवदृषीणां प्रीयतां प्रति ॥५४॥कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम्धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक् ॥५५॥ऋषयः संतु मे नित्यं व्रतसंपूर्णकारिणःपूजां गृह्णंतु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः ॥५६॥पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथावसिष्ठमरिचात्रेया अर्घं गृह्णंतु वो नमः ॥५७॥एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैःपितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः ॥५८॥पूर्वकर्मविपाकेन रजसा दोषभावतःकृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः ॥५९॥तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवेते गता मुक्तिमार्गेण आशीर्वादपरायणाः ॥६०॥ऋषिपंचमीव्रतं पुण्यं विप्राय परिकीर्तितम्ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः ॥६१॥ये कुर्वंति नरश्रेष्ठ ऋषिव्रतमनुत्तमम्भुक्त्वात्र भोगान्विपुलान्यांति विष्णोः पदं तु ते ॥६२॥इतिश्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे ऋषिपंचमीव्रतंनाम सप्तसप्ततितमोऽध्यायः ॥७७॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP