TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८४

मत्स्यपुराणम् - अध्यायः १८४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १८४
वारणसीक्षेत्रमाहात्म्यम् ।
महेश्वर उवाच ।
सेवितं बहुभिः सिद्धैरपुनर्भवकाङ्क्षिभिः ।
विदित्वा तु परं क्षेत्रमविमुक्तनिवासिनाम् ॥१॥

तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ।
परं स्थानं तु ते यान्ति सम्भवन्ति न ते पुनः ॥२॥

ज्ञाने विहितनिष्ठानां परमानन्दमिच्छताम् ।
या गतिर्विहिता सद्भिः साविमुक्ते मृतस्य तु ॥३॥

भवस्य प्रीतिरतुला ह्यविमुक्ते ह्यनुत्तमा ।
असङ्ख्येयं फलं तत्र ह्यक्षया च गतिर्भवेत् ॥४॥

परं गुह्यं समाख्यातं श्मशानमिति संज्ञितम् ।
अविमुक्तं न सेवन्ते वञ्चितास्ते नरा भुवि ॥५॥

अविमुक्ते स्थितैः पुण्यैः पांसुभिर्वायुनेरितैः ।
अपि दुष्कृतकर्म्माणो यास्यन्ति परमाङ्गतिम् ॥६॥

मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्म्मणः ।
अविमुक्तं समासाद्य तत् सर्वं व्रजति क्षयम् ॥७॥

श्मशानमिति विख्यातमविमुक्तं शिवालयम् ।
तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ॥८॥

तत्र ब्रह्मादयो देवा नारायणपुरोगमाः ।
योगिनश्च तथा साध्या भगवन्तं सनातनम् ॥९॥

उपासन्ते शिवं मुक्ता मद्भक्ता मत्परायणाः ।
या गतिर्ज्ञानतपसां या गतिर्यज्ञ याजिनाम् ॥१०॥

अविमुक्ते मृतानान्तु सा गतिर्विहिता शुभा ।
संहर्तारश्च कर्त्तारस्तस्मिन् ब्रह्मादयः सुराः ॥११॥

सम्राङ्विराण्मया लोका जायन्ते ह्यपुनर्भवाः ।
महर्जनस्तपश्चैव सत्यलोकस्तथैव च ॥१२॥

मनसः परमो योगो भूतभव्यभवस्य च ।
ब्रह्मादि स्थावरान्तस्य योनौ साङ्क्यादिमोक्षयोः ॥१३॥

येऽविमुक्तं न मुञ्चन्ति नरास्ते नैव चिन्तिताः ।
उत्तमं सर्वतीर्थानां स्थानानामुत्तमञ्च यत् ॥१४॥

क्षेत्राणामुत्तमञ्चैव श्मशानानां तथैव च ।
तटाङ्कानाञ्च सर्वेषां कूपानां स्रोतसां तथा ॥१५॥

शैलानामुत्तमञ्चैव तडागानां तथोत्तमम् ।
पुण्यकृद् भवभक्तैश्च ह्यविमुक्तन्तु सेव्यते ॥१६॥

ब्रह्मणः परमं स्थानं ब्रह्मणाध्यासितञ्च यत् ।
ब्रह्मणा सेवितं नित्यं ब्रह्मणा चैव रक्षितम् ॥१७॥

अत्रैव सप्तभुवनं काञ्चनो मेरुपर्वतः ।
मनसः परमो योगः प्रीत्यर्थ ब्रह्मणः स तु ॥१८॥

ब्रह्मा तु तत्र भगवांस्त्रिसन्ध्यं चेश्वरे स्थितः ।
पुण्यात् पुण्यतमं क्षेत्रं पुण्यकृद्भिर्निषेवितम् ॥१९॥

आदित्योपासनं कृत्वा विप्राश्चामरताङ्गताः ।
अन्येऽपि ये त्रयोवर्णा भवभक्त्या समाहिताः ॥२०॥

अविमुक्ते तनुन्त्यक्त्वा गच्छन्ति परमाङ्गतिम् ।
अष्टौ मासान् विहारस्य यतीनां संयतात्मनाम् ॥२१॥

एकत्र चतुरो मासान् मासौ वा निवसेत् पुनः ।
अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते ॥२२॥

न देहो भविता तत्र दृष्टं शास्त्रे पुरातने ।
मोक्षो ह्यसंशयस्तत्र पञ्चत्वन्तु गतस्य वै ॥२३॥

स्त्रियः पतिव्रता याश्च भवभक्ताः समाहिताः ।
अविमुक्ते विमुक्तास्ता यास्यन्ति परमाङ्गतिम् ॥२४॥

अन्या याः कामचारिण्यः स्त्रियो भोगपरायणाः ।
कालेन निधनं प्राप्ता गच्छन्ति परमाङ्गतिम् ॥२५॥

यत्र योगश्च मोक्षश्च प्राप्यते दुर्लभो नरैः ।
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥२६॥

सर्वात्मना तपः सेव्यं ब्राह्मणैर्नात्र संशयः ।
अविमुक्ते वसेद्यस्तु मम तुल्यो भवेन्नरः ॥२७॥

यतो मया न मुक्तं हि त्वविमुक्तं ततः स्मृतम् ।
अविमुक्तं न सेवन्ते मूढा ये तमसावृताः ॥२८॥

विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ।
कामः क्रोधश्च लोभश्च दम्भस्तम्भोऽति मत्सरः ॥२९॥

निद्रा तन्द्रा तथाऽऽलस्यं पैशून्यमिति ते दश ।
अविमुक्ते स्थिता विघ्नाः शक्रेण विहिताः स्वयम् ॥३०॥

विनायकोपसर्गाश्च सततं मूर्ध्नि तिष्ठति ।
पुण्यमेतद् भवेत् सर्वं भक्तानामनुकम्पया ॥३१॥

परं गुह्यमिति ज्ञात्वा ततः शास्त्रानुदर्शनात् ।
व्याहृतं देवदेवैस्तु मुनिभिस्तत्वदर्शिभिः ॥३२॥

मेदसा विप्लुता भूमिरविमुक्ते तु वर्जिता ।
पूता समभवत् सर्वा महादेवेन रक्षिता॥३३॥

संस्करस्तेन क्रियते भूमेरन्यत्र सूरिभिः ।
ये भक्ता वरदं देवमक्षरं परमं पदम् ॥३४॥

देवदानवगन्धर्व यक्षरक्षोमहोरगाः ।
अविमुक्तमुपासन्ते तन्निष्ठस्तत्परायणाः ॥३५॥

ते विशन्ति महादेवमाज्याहुतिरिवानलम् ।
तं वै प्राप्य महादेवीमीश्वराध्युषितं शुभम् ॥३६॥

अविमुक्तं कृतार्थोऽस्मीत्यात्मानमुपलभ्यते ।
ऋषिदेवासुरगणैर्जपहोमपरायणैः ॥३७॥

यतिभिर्मोक्षकामैश्च ह्यविमुक्तं निषेव्यते ।
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ॥३८॥

ईश्वरानुगृहीता हि सर्वे यान्ति पराङ्गतिम् ।
द्वियोजनमयार्द्धञ्च तत् क्षेत्रं पूर्वपश्चिमम् ॥३९॥

अर्द्धयोजनविस्तीर्णं दक्षिणोत्तरतः स्मृतम् ।
वाराणसी तदीया च यावच्छुक्लनदी तु वै ॥४०॥

एतत् क्षेत्रस्य विस्तारः प्रोक्तो देवेन धीमता ।
लब्ध्वा योगञ्च मोक्षञ्च काङ्क्षन्तो ज्ञानमुत्तमम् ॥४१॥

अविमुक्तं न मुञ्चन्ति तन्निष्ठास्तत्परायणाः ।
तस्मिन् वसन्ति ये मर्त्या न ते शोच्याः कदाचन ॥४२॥

योगक्षेत्रं तपः क्षेत्रं सिद्धगन्धर्व सेवितम् ।
सरितः सागराः शैला नाविमुक्त-समाभुवि ॥४३॥

भूर्लोके चान्तरिक्षे च दिवि तीर्थानि यानि च ।
अतीत्य वर्तते चान्यदविमुक्तं प्रभावतः ॥४४॥

ये तु ध्यानं समासाद्य मुक्तात्मानः समाहिताः ।
सन्नियम्येन्द्रियग्रामं जपन्ति शतरुद्रियम् ॥४५॥

अविमुक्ते स्थिता नित्यं कृतार्थास्ते द्विजातयः ।
भवभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः ॥४६॥

संहृत्य शक्तितः कामान् विषयेभ्यो बहिः स्थिताः ।
शक्तितः सर्वतो मुक्ताः शक्तितस्तपसि स्थिताः ॥४७॥

कारणानीह चात्मानमपुनर्भवभाविताः ।
तं वै प्राप्य महात्मानमीश्वरन्निर्भयाः स्थिताः ॥४८॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
अविमुक्ते तु गृह्यन्ते भवेन विभुना स्वयम् ॥४९॥

उत्पादितं महाक्षेत्रं सिध्यन्ते यत्र मानवाः ।
उद्देशमात्रं कथिता अविमुक्तगुणास्तथा ॥५०॥

समुद्रस्येव रत्नानामविमुक्तस्य विस्तरम् ।
मोहनं तदभक्तानां भक्तानां भक्तिवर्धनम् ॥५१॥

मूढास्ते तु न पश्यन्ति श्मशानमिति मोहिताः ।
हन्यमानोऽपि यो विद्वान् वसेद्विघ्नशतैरपि ॥५२॥

स याति परमं स्थानं यत्र गत्वा न शोचति ।
जन्म मृत्यु जरा मुक्तः परं याति शिवालयाम् ॥५३॥

अपुनर्मरणानां हि सा गतिर्मोक्ष काङ्क्षिणाम् ।
यां प्राप्य कृतकृत्यः स्यादिति मन्येत पण्डितः ॥५४॥

न दानैर्न तपोभिर्वा न यज्ञैर्नापि विद्यया ।
प्राप्यते गतिरिष्टा या ह्यविमुक्तेतु लभ्यते ॥५५॥

नानावर्णा विवर्णाश्च चण्डाला ये जुगुप्सिताः ।
किल्बिषैः पूर्णदेहाश्च प्रकृष्टैः पातकैस्तथा ॥५६॥

भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ।
जात्यन्तरसहस्रेषु ह्यविमुक्ते म्रियेत यः ॥५७॥

भक्तो विश्वेश्वरे देवे न स भूयोऽभिजायते ।
यत्र चेष्टं हुतं दत्तं तपस्तप्तं कृतं च यत् ॥५८॥

सर्वमक्षयमेतस्मिन्नविमुक्ते न संशयः ।
कालेनोपरता यान्ति भवे सायुज्यमक्षयम् ॥५९॥

कृत्वा पापसहस्राणि पश्चात् सन्तापमेत्य वै ।
यो विमुक्ते वियुज्येत स याति परमाङ्गतिम् ॥६०॥

उत्तरं दक्षिणं चापि अयनं न विकल्पयेत् ।
सर्वस्तेषां शुभः कालो ह्यविमुक्ते म्रियन्ति ये ॥६१॥

न यत्र कालो मीमांस्यो शुभो वा यदि वा शुभः ।
तस्य देवस्य माहात्म्य-स्थानमद्भुत कर्मणः ॥६२॥

सर्वेषामेव नाथस्य सर्वेषां विभुना स्वयम् ।
श्रुत्वेदं ऋषयः सर्वे स्कन्देन कथितं पुरा
अविमुक्ताश्रमं पुण्यं भावयेत् करणैः शुभैः ॥६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हिंमत मर्दा, मदत खुदा

  • मनुष्यानें धैर्य धरुन कार्यास आरंभ केला तर त्यास परमेश्र्वर साहाय्य करतो. " आता ‘ हिंमत मर्दा मदत खुदा ’ मारतां मारतां भरावें. नजीबखान म्हणजे कोण जिन्नस? चढतें घोडियानिशीं उडवून टाकूं." -भाब. 
  • ( गु.) हिम्मते मरदां, मद्दे खोदा,पादशहाकी बेटी फकीरसे बिहा. A man of courage never wants weapons. 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.