TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८०

मत्स्यपुराणम् - अध्यायः १८०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १८०
वारणस्या माहात्म्यम्
ऋषय ऊचुः ।
श्रुतोऽन्धक वधः सूत! यथावत्त्वदुदीरितः ।
वाराणस्यास्तु महात्म्यं श्रोतुमिच्छाम साम्प्रतम् ॥१॥

भगवान् पिङ्लः केन गणत्वं समुपागतः ।
अन्नदत्त्वञ्च सम्प्राप्तो वाराणस्यां महाद्युतिः ॥२॥

क्षेत्रपालः कथं जातः प्रियत्वञ्च कथङ्गतः ।
एतदिच्छाम कथितं श्रोतुं ब्रह्मसुत! त्वया ॥३॥

सूत उवाच ।
श्रृणुध्वं वै यथा लेभे गणेशत्वं स पिङ्गलः ।
अन्नदत्वं च लोकानां स्थानं वाराणसी त्विह ॥४॥

पूर्णभद्रसुतः श्रीमानासीद्यज्ञः प्रतापवान् ।
हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह ॥५॥

तस्य जन्मप्रभृत्यैव सर्वे भक्तिरनुत्तमा ।
तदासीत्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ॥६॥

आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन् ।
भुञ्जानोऽथ पिबन्वापि रुद्रमेवान्वचिन्तयत् ॥७॥

तमेवं युक्तमनसम्पूर्णभद्रः पिताब्रवीत् ।
न त्वां पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा ॥८॥

न हि यक्ष कुलीनानामेतद्वृत्तं भवत्युत ।
गुह्यका बत यूयं वै स्वभावात् क्रूरचेतसः ॥९॥

क्रव्यादाश्चैव किं भक्षा हिंसाशीलाश्च पुत्रक ।
मैवं काषीर्नते वृत्तिरेवं दृष्टा महात्मना ॥१०॥

स्वयम्भुवा यथादिष्टा त्यक्तव्या यदि नो भवेत् ।
आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्तु तत् ॥११॥

हित्वा मनुष्यभावं च कर्मभिर्विविधैश्चर ।
यत्त्वमेवं विमार्गस्थो मनुष्याज्जात एव च॥१२॥

यथावद्विविधन्तेषां कर्म तज्जाति संश्रयम् ।
मयापि विहितं पश्य कर्मैतन्नात्र संशयः ॥१३॥

सूत उवाच ।
एवमुक्त्वा स तं पुत्रं पूर्णभद्रः प्रतापवान् ।
उवाच निष्क्रमन्क्षिप्रं गच्छपुत्र! यथेच्छसि ॥१४॥

ततः स निर्गतस्त्यक्त्वा गृहं सम्बन्धिनस्तथा ।
वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम् ॥१५॥

स्थाणुभूतो ह्यनिमिषः शुष्क काष्ठोपलोपमः ।
सन्नियम्येन्द्रियग्राममवतिष्ठत निश्चलः ॥१६॥

अथ तस्यैवमनिशन्तत्परस्य तदाशिषः ।
सहस्रमेकं वर्षाणां दिव्यमप्यभ्यवर्तत ॥१७॥

वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः ।
वज्रसूचीमुखैस्तीक्ष्णैः विध्यमानस्तथैव च ॥१८॥

निर्मांसरुधिरत्वक्च कुन्दशंखेन्दु सप्रभः ।
अस्थिशेषोऽभवच्छर्वं देवं वै चिन्तयन्नपि ॥१९॥

एतस्मिन्नन्तरे देवी विज्ञापयत शङ्करम् ।
देव्युवाच ।
उद्यानं पुनरेवेह द्रष्ट्रमिच्छामि सर्वदा ॥२०॥

क्षेत्रस्य देव माहात्म्यं श्रोतुं कौतूहलं हि मे ।
यतश्च प्रियमेतत्ते तथास्य फलमुत्तमम् ॥२१॥

इति विज्ञापितो देवः शर्वाण्या परमेश्वरः ।
शर्वः पृष्टोयथातथ्यमाख्यातुमुपचक्रमे ॥२२॥

निर्जगाम च देवेशः पार्वत्या सह शङ्करः ।
उद्यानं दर्शयामास देव्या देवः पिनाकधृक् ॥२३॥

देवदेव उवाच ।
प्रोत्फुल्लनानाविध गुल्मशोभितं लताप्रतानावनतं मनोहरम् ।
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः ॥२४॥

तमालगुल्मैर्निचितं सुगन्धिभिः सकर्णिकारैर्बकुलैश्च सर्वशः ।
अशोकपुन्नागवरैः सुपुष्पितैर्द्विरेफमालाकुल पुष्पसञ्चयैः ॥२५॥

क्वचित् प्रफुल्लाम्बुजरेणुरूषितैः विहङ्गमैश्चारुकलप्रणादिभिः ।
विनादितं सारसमण्डनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः ॥२६॥

क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्ब कदम्बकैर्युतम् ।
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ॥२७॥

मदाकुलाभिस्त्वमराङ्गनाभिर्निषेवितञ्चारु सुगन्धिपुष्पम् ।
क्वचित् सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिल कद्रुमैश्च ॥२८॥

प्रगीतविद्याधरसिद्धचारणं प्रवृत्तनृत्याप्सरसाङ्गणाकुलम् ।
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ॥२९॥

मृगेन्द्रनादाकुलसत्वमानसैः क्वचित् क्वचित्द्वन्द्वकदम्बकैर्मृगैः ।
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तटाकैरुपशोभितं क्वचित् ॥३०॥

निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहङ्गव्रातनादाभिरामम् ।
कुसुमित तरुशाखा लीनमत्तद्विरेफं नवकिशलय शोभिशोभितप्रान्तशाखम् ॥३१॥

क्वचिच्च दन्तिक्षतचारुवीरुधं क्वचिल्लतालिङ्गितचारुवृक्षकम् ।
क्वचिद्विलासालसगामिबर्हिणं निषेवितं किं पुरुषव्रजैः क्वचित् ॥३२॥

पारावतध्वनिविकूजितचारुश्रृङ्गैरभ्रङ्कषैः सितमनोहरचारुरूपैः ।
आकीर्णपुष्पनिकुरम्बविमुक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः ॥३३॥

फुल्लोत्पलागुरुसहस्रवितानयुक्तै स्तोयावयैस्तमनुशोभितदेवमार्गम् ।
मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम् ॥३४॥

तुङ्गाग्रैर्नीलपुष्पस्तवकभरनतप्रान्तशाखैरशोकै-
र्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तर्मनोज्ञैः
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं
च्छाया सुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् ॥३५॥

हंसानां पक्षपातप्रचलितकमलस्वच्छविस्तीर्णतोयम्  ।
तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम् ।
मायुरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्मप्रदेशम्
देशे देशे विकीर्णप्रमुदितविलसन्मत्तहारीतवृक्षम्॥३६॥

सारङ्गः क्वचिदपि सेवितप्रदेशं सच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः ।
हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिः क्षीबाभिः समधुरगीतवृक्षखण्डम् ॥३७॥

संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम् ।
आमूलात् फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरहैरुपेतम् ॥३८॥

फुल्लातिमुक्तकलतागृहसिद्धलीलं सिद्धाङ्गना-कनकनूपुरनादरम्यम् ।
रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीषु स्खलिताम्बु कदम्बपुष्पम् ॥३९॥

पुष्पोत्करानिलविघूर्णितपादपाग्रमग्रेसरे भुवि निपातित वंशगुल्मम् ।
गुल्मान्तरप्रभृतिलीनमृगासमूहं संमुह्यतान्तनुभृतामपवर्गदातृ ॥४०॥

चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः ।
चामीकराभनिचयैरथ कर्णिकारैः फुल्लारिविन्दरचितं सुविशालशाखैः ॥४१॥

क्वचिद्रजतपर्णाभैः क्वचिद्विद्रुमसन्निभैः ।
क्वचित्काञ्चनसङ्काशैः पुष्पैराचितभूतलम् ॥४२॥

पुन्नागेषु द्विजगणविरुतं रक्ताशोकस्तबकभरनमितम् ।
रम्योपान्तं श्रमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥४३॥

सकलभुवनभर्ता लोकनाथस्तदानीन्तुहिनशिखरिपुत्र्याः सार्द्धमिष्टैर्गणेशैः ।
विविधतरुविशालं मत्तहृष्टान्यपुष्टमुपवनतरुरम्यं दर्शयामास देव्याः ॥४४॥

देव्युवाच ।
उद्यानं दर्शितं देव! शोभया परया युतम् ।
क्षेत्रस्य तु गुणान् सर्वान्पुनर्वक्तुमिहार्हसि ॥४५॥

अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तथा ।
श्रुत्वापि हि न मे तृप्तिरतो भूयो वदस्व मे ॥४६॥

देवदेव उवाच ।
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।
सर्वेषामेव भूतानां हेतुर्मोक्षस्य सर्वदा ॥४७॥

अस्मिन् सिद्धाः सदा देवि! मदीयं व्रतमास्थिताः ।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ॥४८॥

अभ्यसन्ति परं योगं मुक्तात्मानो जितेन्द्रियाः ।
नानावृक्षसमाकीर्णे नानाविहगकूजिते॥४९॥

कमलोत्पलपुष्पाढ्यैः सरोभिः समलङ्कृते ।
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ॥५०॥

रोचते मे सदा वासो येन कार्येण तच्छृणु ।
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ॥५१॥

यथा मोक्षमिहाप्नोति ह्यन्यत्र न तथा क्वचित् ।
एतन्मम परं दिव्यं गुह्याद्गुह्यतरं महत् ॥५२॥

ब्रह्मादयस्तु जानन्ति येऽपि सिद्धा मुमुक्षवः ।
अतः प्रियतमं क्षेत्रं तस्माच्चेह रतिर्मम ॥५३॥

विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन ।
महत् क्षेत्रमिदं तस्मादविमुक्तमिदं स्मृतम् ॥५४॥

नैमिषेऽथ कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे ।
स्नानात्संसेविताद्वापि न मोक्षः प्राप्यते यतः ॥५५॥

इह संप्राप्यते येन तत एतद्विशिष्यते ।
प्रयागे च भवेन्मोक्ष इह वा मत्परिग्रहात् ॥५६॥

प्रयागादपि तीर्थाग्य्रादिदमेव महत् स्मृतम् ।
जैगीषव्यः परां सिद्धिं योगतः स महातपाः ॥५७॥

अस्य क्षेत्रस्य माहात्म्याद् भक्त्या च मम भावनात् ।
जैगीषव्यो महाश्रेष्ठो योगिनां स्थानमिष्यते ॥५८॥

ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् ।
कैवल्यं परमं याति देवानामपि दुर्लभम् ॥५९॥

अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्त वेदिभिः ।
इह संप्राप्यते मोक्षो दुर्लभो देवदानवैः ॥६०॥

तेभ्यश्चाहं प्रयच्छामि भोगैश्वर्यमनुत्तमम् ।
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च ॥६१॥

कुबेरस्तु महायक्षस्तथा शर्वार्पितक्रियः ।
क्षेत्रसम्वसनादेव गणेशत्वमवाप ह ॥६२॥

सम्वर्तो भविता यश्च सोऽपि भक्त्या ममैव तु ।
इहैवाराध्य मां देवि! सिद्धिं यास्यत्यनुत्तमाम् ॥६३॥

पराशरसुतो योगी ऋषिर्व्यासो महातपाः ।
धर्मकर्त्ता भविष्यश्च वेदसंस्था प्रवर्तकः ॥६४॥

रंस्यते सोऽपि पद्माक्षि! क्षेत्रेऽस्मिन् मुनिपुङ्गवः ।
ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वायुर्दिवाकरः ॥६५॥

देवराजस्तथा शक्रो येऽपि चान्ये दिवौकसः ।
उपासन्ते महात्मानः सर्वे मामेव सुव्रते ॥६६॥

अन्येऽपि योगिनः सिद्धाश्छन्नरूपा महाव्रताः ।
अनन्यमनसो भूत्वा मामिहोपसते सदा ॥६७॥

अलर्कश्च पुरीमेतां मत्प्रसाददवाप्स्यति ।
स चैनां पूर्ववत्कृत्वा चातुर्वर्ण्याश्रमाकुलाम् ॥६८॥

स्फीतां जनसमाकीर्णां भक्त्याच सुचिरं नृपः ।
मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते ॥६९॥

ततः प्रभृति चार्वङ्गि! येऽपि क्षेत्रनिवासिनः ।
गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः ॥७०॥

मत्प्रसादाद् भजिष्यन्ति मोक्षं परम दुर्लभम् ।
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ॥७१॥

इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत् ।
ये पुनर्निर्ममा धीराः सत्वस्था विजितेन्द्रियाः ॥७२॥

व्रतिनश्च निरारम्भाः सर्वे ते मयि भाविताः ।
देहभङ्गं समासाद्य धीमन्तः सङ्गवर्जिताः  ।
गता एव परं मोक्षं प्रसादान्मम सुव्रते! ॥७३॥

जन्मान्तरसहस्रेषु युञ्जन् योगमवाप्नुयात् ।
तमिहैव परं मोक्षं मरणादधिगच्छति ॥७४॥

एतत्सङ्क्षेपतो देवि! क्षेत्रस्यास्य महत्फलम् ।
अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् ॥७५॥

अतः परतरं नास्ति सिद्धिगुह्यं महेश्वरि! ।
एतद् बुध्यन्ति योगज्ञा ये च योगेश्वरा भुवि ॥७६॥

एतदेव परं स्थानमेतदेव परं शिवम् ।
एतदेव परम्ब्रह्म एतदेव परम्पदम् ॥७७॥

वाराणसी तु भुवनत्रयसारभूता रम्या सदा मम पुरी गिरिराजपुत्रि! ॥
अत्रागता विविध दुष्कृतकारिणोऽपि पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः ॥७८॥

एतत्स्मृतं प्रियतमं मम देवि! नित्यं क्षेत्रं विचित्रतरुगुल्मलतासु पुष्पम् ।
अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति मूर्खागमेन रहितापि न संशयोऽत्र ॥७९॥

सूत उवाच ।
एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम् ।
दातुं प्रसादाद्यक्षाय वरं भक्ताय भामिनि ॥८०॥

भक्तो मम वरारोहे! तपसा हतकिल्बिषः ।
अहो वरमसौ लब्धमस्मत्तो भुवनेश्वरि! ॥८१॥

एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः ।
जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः ॥८२॥

ततस्तं गुह्यकं देवी दृष्टिपातैर्निरीक्षती ।
श्वेतवर्णं विचर्माणं स्नायुबद्धास्थिपञ्जरम् ॥८३॥

देवी प्राह तदा देवं दर्शयन्ती च गुह्यकम् ।
सत्यं नाम भवानुग्रो देवैरुक्तस्तु शङ्कर!॥८४॥

ईदृशे चास्य तपसि न प्रयच्छसि यद्वरम् ।
अत्र क्षेत्रे महादेव! पुण्ये सम्यगुपासिते ॥८५॥

कथमेवं परिक्लेशं प्राप्तो यक्षकुमारकः ।
शीघ्रमस्य वरं यच्छ प्रसादात् परमेश्वर! ॥८६॥

एवं मन्वादयो देव! वदन्ति परमर्षयः ।
रुष्टाद्वा चाथ तुष्टाद्वा सिद्धिस्तूभयतो भवेत् ॥८७॥

भोगप्राप्रिस्तथा राज्यमन्ते मोक्षः सदाशिवात् ।
एवमुक्तस्ततो देवःसह देव्या जगत्पतिः ॥८८॥

जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः ।
तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः ॥८९॥

दिव्यञ्चक्षुरदात्तस्मै येनापश्यत् स शङ्करम् ।
अथ यक्षस्तदा देशाच्छनैरुन्मील्य चक्षुषी ॥९०॥

अपश्यत् सगणं देवं वृषध्वजमुपस्थितम् ।
देवदेव उवाच ।
वरं ददामि ते पूर्वं त्रैलोक्ये दर्शनं तथा ॥९१॥

सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः ।
सूत उवाच ।
ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च ॥९२॥

पादयोः प्रणतस्तस्थौ कृत्वा शिरसि साञ्जलिम् ।
उवाचाथ तदा तेन वरदोऽस्मीति चोदितः ॥९३॥

भगवन्! भक्तिमव्यग्रां त्वय्यनन्यां विधत्स्व मे ।
अन्नदत्वं च ते लोकानां गाणपत्यं तथाऽक्षयम् ॥९४॥

अविमुक्तं च ते स्थानं पश्येयं सर्वदा यथा ।
एतदिच्छामि देवेश त्वत्तो वरमनुत्तमम् ॥९५॥

देवदेव उवाच ।
जरा मरणसन्त्यक्तः सर्वरोगविवर्जितः ।
भविष्यसि गणाध्यक्षो धनदः सर्वपूजितः ॥९६॥

अजेयश्चापि सर्वेषां योगैश्वर्यं समाश्रितः ।
अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि ॥९७॥

महाबलो महासत्वो ब्रह्मण्यो मम च प्रियः ।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ॥९८॥

उद्भ्रमः सम्भ्रमश्चैव गणौतु परिचारकौ ।
तवाज्ञाञ्च करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥९९व्

सूत उवाच ।
एवं स भगवांस्तत्र यक्षं कृत्वा गणेश्वरम् ।
जगाम वामदेवेशः सह तेनामरेश्वरः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

type B series

  • श्रेणी प्रकार-B 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.