TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९१

मत्स्यपुराणम् - अध्यायः १९१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १९१
नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम् ।

मार्कण्डेय उवाच ।
तदा प्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः ।
सेवन्ते नर्म्मदां राजन्! रागक्रोधविवर्जिताः ॥१

युधिष्ठिर उवाच ।
कस्मिन्निपतितं शूलं देवस्य तु महीतले ।
तत्र पुण्यं समाख्याहि यथावत् मुनिसत्तम्! ॥२

मार्कण्डेय उवाच ।
शूलभेदेऽति विख्यातं तीर्थंपुण्यतमं महत् ।
तत्र स्नात्वाऽर्चयेद्देवं गोसहस्रफलं लभेत् ॥३

त्रिरात्रं कारयेद्यस्तु तस्मिंस्तीर्थे नराधिप! ।
अर्चयित्वा महादेवं पुनर्जन्म न विद्यते ॥४

भीमेश्वरं ततो गच्छेन्नारदेश्वरमुत्तमम् ।
आदित्येशं महापुण्यं तथाघृत मधुस्रवम् ॥५

नन्दिकेशं परिष्वज्य पर्याप्तं जन्मनः फलम् ।
वरुणेशं ततः पश्येत् स्वतन्त्रेश्वरमेव च॥
सर्वतीर्थफलं तस्य पञ्चायतन दर्शनात् ॥६

ततो गच्छेत्तु राजेन्द्र! युद्धं यत्र सुसाधितम् ।
कोटितीर्थन्तु विख्यातमसुरा यत्र मोहिताः ॥७

यत्रैव निहता राजन्! दानवा बलदर्पिताः ।
तेषां शिरांस्यगृह्णन्त सर्वे देवाः समागताः ॥८

तैस्तु संस्थापितो देवः शूलपाणिर्वृषध्वजः ।
कोटिर्विनिहता तत्र तेन कोटीश्वरः स्मृतः ॥९

दर्शनात्तस्य तीर्थस्य सदेहः स्वर्गमारुहेत् ।
यदा त्विन्द्रेण क्षुद्रत्वात् वज्रङ्कीलेन यन्त्रितम् ॥१०

तदा प्रभृति लोकानां स्वर्गमार्गो निवारितः ।
सघृतं श्रीफलं जग्ध्वा कृत्वा चैष प्रदक्षिणम् ॥११

पार्वतं सहदीपन्तु शिरसा चैव धारयेत् ।
सर्वकामसुसम्पन्नो राजा भवति पाण्डव? ॥१२

मृतो रुद्रत्वमाप्नोति ततोऽसौ जायते पुनः ।
स्वर्गादेत्य भवेद्राजा राज्यं कृत्वा दिवं व्रजेत् ॥१३

बहुनेत्रं ततः पश्येत् त्रयोदश्यान्तु मानवः ।
स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् ॥१४

ततो गच्छेत्तु राजेन्द्र! तीर्थं परमशोभनम् ।
नराणां पापनाशाय ह्यगस्त्येश्वरमुत्तमम् ॥१५

तत्र स्नात्वा नरो राजन्! ब्रह्मलोके महीयते ।
कार्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥१६

घृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः ।
एकविंशकुलोपेतो न च्यवेदैश्वरात् पुरात् ॥१७

धेनुमुपाहनच्छत्रे दद्याच्च घृतकम्बलम् ।
भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत् ॥१८

ततो गच्छेच्च राजेन्द्र! वलाकेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन्! सिंहासनपतिर्भवेत् ॥१९

नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम् ।
उपोष्य रजनीमेकां स्नानं तत्र समाचरेत् ॥२०

स्नानं कृत्वा यथान्यायमर्चयेच्च जनार्दनम् ।
गोसहस्रफलं तस्य विष्णुलोकं स गच्छति ॥२१

ऋषितीर्थं ततो गच्छेत् सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥२२

देवतीर्थं ततो गच्छेद् ब्रह्मणा निर्मितं पुरा ।
तत्र स्नात्वा नरो राजन्! ब्रह्मलोके महीयते ॥२३

अमरकण्टकं गच्छेदमरैः स्थापितं पुरा ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥२४

ततो गच्छेच्च राजेन्द्र! रावणेश्वरमुत्तमम् ।
तत् पञ्चायतनं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥२५

ऋणतीर्थं ततो गच्छेदृणेभ्यो मुच्यते ध्रुवम् ।
वदेश्वरं ततो दृष्ट्वा पर्याप्तं जन्मनः फलम् ॥२६

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरो राजन्! सर्वदुःखैः प्रमुच्यते ॥२७

ततो गच्छेत्तु राजेन्द्रु! तुरा सङ्गममुत्तमम् ।
तत्र स्नात्वा महादेवमर्चयन्सिद्धिमाप्नुयात् ॥२८

सोमतीर्थं ततो गच्छेत् पश्येच्चन्द्रमनुत्तमम् ।
तत्र स्नात्वा नरो राजन्! भक्त्या परमया युतः ॥२९

तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम् ।
षष्टिवर्षसहस्राणि रुद्रलोके महीयते ॥३०

ततो गच्छेत्तु राजेन्द्र! पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥३१

तस्मिंस्तीर्थे तु राजेन्द्र! कपिलां यः प्रयच्छति ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥३२

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
यस्तु प्राणपरित्यागं कुर्यात्तत्र नराधिप! ॥३३

अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।
नर्मदा तटमाश्रित्य तिष्ठेयुर्यत्र मानवाः ॥३४

ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।
सुरेश्वरं ततो गच्छेन्नाम्ना कर्कोटकेश्वरम् ॥३५

गङ्गावतरते तत्र दिने पुण्ये न संशयः ।
नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥३६

तुष्यते तस्य नन्दीशः सोमलोके महीयते ।
ततो दीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ॥३७

निवर्तिता पुरा तत्र व्यासभीता महानदी ।
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥३८

प्रदक्षिणं तु यः कुर्यात् तस्मिन् तीर्थे नराधिप ।
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ॥३९

व्यासस्तस्य भवेत् प्रीतः प्राप्नुयादीप्सितं फलम् ।
सूत्रेण वेष्टयित्वा तु दीपो देयः सवेदिकः ॥४०

क्रीडन्ति ह्यक्षयं कालं यथा रुद्रस्तथैव च ।
ततो गच्छेच्च राजेन्द्र! ऐरण्डी तीर्थमुत्तमम् ॥४१

सङ्गमे तु नरः स्नात्वा मुच्यते सर्वपातकैः ।
ऐरण्डी त्रिषु लोकेषु विख्याता पापनाशिनी ॥४२

अथवाश्वयुजे मासि शुक्लपक्षे तु चाष्टमी ।
शुचिर्भूत्वा नरः । स्नात्वा सोपवासपरायणः ॥४३

ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ।
मृत्तिकां शिरसि स्थाप्य ह्यवगाह्य च वै जलम् ॥४४

नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ।
प्रदक्षिणं तु यः कुर्यात् तस्मिन् तीर्थे नराधिप ॥४५

प्रदक्षणीकृता तेन सप्तद्वीपा वसुन्धरा ।
ततः सुवर्णसलिले स्नात्वा दत्त्वा तु काञ्चनम् ॥४६

काञ्चनेन विमानेन रुद्रलोके महीयते ।
ततः स्वर्गाच्च्युतः कालाद्राजा भवति वीर्यवान् ॥४७

ततो गच्छेच्च राजेन्द्र! हीक्षुनद्यास्तु सङ्गमम् ।
त्रैलोक्यविश्रुतं दिव्यं तत्र सन्निहितः शिवः ॥४८

तत्र स्नात्वा नरो राजन्! गाणपत्यमवाप्नुयात् ।
स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥४९

तत्तीर्थं त्रिविधं पापं स्नानमात्राद्व्यपोहति ।
लिङ्गसारं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥५०

गोसहस्रफलं तस्य रुद्रलोके महीयते ।
भङ्गतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥५१

तत्र गत्वा तु राजेन्द्र! स्नानं तत्र समाचरेत् ।
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥५२

वटेश्वरं ततो गच्छेत् सर्वतीर्थमनुत्तमम् ।
तत्र स्नात्वा नरो राजन्! गोसहस्रफलं लभेत् ॥५३

सङ्गमेशन्ततो गच्छेत् सर्वदेवनमस्कृतम् ।
स्नानमात्रान्नरस्तत्र चेन्द्रत्वं लभेत् ध्रुवम्॥५४

कोटितीर्थं ततो गच्छेत् सर्वपापहरं परम् ।
तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः ॥५५

तत्र तीर्थं समासाद्य दत्त्वा दानं तु यो नरः ।
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ॥५६

अथ नरी भवेत् काचित् तत्र स्नानं समाचरेत् ।
गौरीतुल्या भवेत् सापि त्विन्द्रपत्नी न संशयः ॥५७

अङ्गारेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥५८

अङ्गारक चतुर्थ्यान्तु स्नानं तत्र समाचरेत् ।
अक्षयं मोदते कालं शुचिः प्रयतमानसः ॥५९

अयोनिसम्भवे स्नात्वा न पश्येद्योनिसङ्कटम् ।
पाण्डवेशन्तु तत्रैव स्नानं तत्र समाचरेत् ॥६०

अक्षयं मोदते कालमबध्यैस्त्रिदशैरपि ।
विष्णुलोकं ततो गत्वा क्रीडते भोगसंयुतः ॥६१

तत्र भुक्त्वा महाभोगान् मर्त्यराजोऽभिजायते ।
कठेश्वरं ततो गच्छेत्तत्र स्नानं समाचरेत् ॥६२

उत्तरायण-संप्राप्तो यदिच्छेत् तस्य तद् भवेत् ।
चन्द्रभागां ततो गच्छेत्तत्र स्नानं समाचरेत् ॥६३

स्नातमात्रो नरो राजन्! सोमलोके महीयते ।
ततो गच्छेत्तु राजेन्द्र! तीर्थं शक्रस्य विश्रुतम् ॥६४

पूजितं देवराजेन देवैरपि नमस्कृम् ।
तत्र स्नात्वा नरो राजन्! दानं दत्त्वा तु काञ्चनम् ॥६५

अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ।
वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च ॥६६

तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥६७

अश्वानां श्वेतवर्णानां सहस्राणां नराधिप! ।
स्वामी भवति मर्त्येषु तस्य तीर्थप्रभावतः ॥६८

ततो गच्छेत्तु राजेन्द्र! ब्रह्मावर्तमनुत्तमम् ।
तत्र स्नात्वा नरो राजन्! तर्पयेत् पितृदेवताः ॥६९

उपोष्य रजनीमेकां पिण्डं दत्त्वा यथाविधि ।
कन्यागते तथादित्ये अक्षयं स्यान्नराधिप! ॥७०

ततो गच्छेच्च राजेन्द्र! कपिला तीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्! कपिलां यः प्रयच्छति ॥७१

सम्पूर्णपृथिवीं दत्त्वा यत् फलं तदवाप्नुयात् ।
नर्मदेशं परं तीर्थं न भूतं न भविष्यति ॥७२

तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ।
नर्मदा दक्षिणे कूले सङ्गमेश्वरमुत्तमम् ॥७३

तत्र स्नात्वा नरो राजन्! सर्वयज्ञफलं लभेत् ।
तत्र सर्वाद्यतो राजा पृथिव्यामेव जायते ॥७४

सर्वलक्षणसम्पूर्णः सर्वव्याधिविवर्जितः ।
नर्मदे चोत्तरे कूले तीर्थं परमशोभनम् ॥७५

आदित्यायतनं दिव्यमीश्वरेण तु भाषितम् ।
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ॥७६

हरिद्रा व्याधिनो ये तु ये च दुष्कृतकर्मिणः ।
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं तु यान्ति ते ॥७७

माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमी ।
वसेदायतने तत्र निराहारो जितेन्द्रियः ॥७८

न जरा व्याधितो मूको न चान्धो बधिरोऽथवा ।
सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ॥७९

एवं तीर्थं महापुण्यं मार्कण्डेयेन भाषितम् ।
ये न जानन्ति राजेन्द्र! वञ्चितास्ते न संशयः ॥८०

गर्गेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥८१

मोदते स्वर्गलोकस्थो यावदिन्द्राश्चतुर्दश ।
समीपतः स्थितं तस्य नागेश्वर तपोवनम् ॥८२

तत्र स्नात्वा तु राजेन्द्र! नागलोकमवाप्नुयात् ।
वह्निभिर्नागकन्याभिः क्रीडते कालमक्षयम् ॥८३

कुबेरभवनं गच्छेत् कुबेरो यत्र संश्थितः ।
कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ॥८४

तत्र स्नात्वा तु राजेन्द्र! सर्वसम्पदमाप्नुयात् ।
ततः पश्चिमतो गच्छेत् मारुतालयमुत्तमम् ॥८५

तत्र स्नात्वा तु राजेन्द्र! शुचिर्भूत्वा समाहितः ।
काञ्चनं तु ततो दद्याद्यथाशक्ति सुबुद्धिमान् ॥८६

पुष्पकेण विमानेन वायुलोकं स गच्छति ।
यमतीर्थं ततो गच्छेत् माघमासे युधिष्ठिर! ॥८७

कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत् ।
नक्तम्भोज्यं ततः कुर्य्यान्नपश्येद्योनिसङ्कटम् ॥८९

अहल्या तीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र ह्यप्सरोभिः प्रमोदते ॥८९

अहल्या च तपस्तप्त्वा तत्र मुक्तिमुपागता ।
चैत्रमासे तु संप्राप्ते शुक्लपक्षे चतुर्दशी ॥९०

कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ।
यत्र यत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् ॥९१

स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ।
अयोध्यान्तु समासाद्य तीर्थं रामस्य विश्रुतम् ॥९२

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ।
सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥९३

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ।
सोमग्रहे तु राजेन्द्र! पापक्षयकरं नृणाम् ॥९४

त्रैलोक्यविश्रुतं राजन्! सोमतीर्थं महाफलम् ।
यस्तु चान्द्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप! ॥९५

सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।
अग्निप्रवेशेऽथ जले अथवापि ह्यनाशके ॥९६

सोमतीर्थे मृतो यस्तु नाऽसौ मर्त्येऽभिजायते ।
शुभतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥९७

स्नातमात्रो नरस्तत्र गोलोकेषु महीयते ।
ततो गच्छेच्च राजेन्द्र! विष्णुतीर्थमनुत्तमम् ॥९८

योधनी पुरमाख्यातं विष्णुस्थानमनुत्तमम् ।
असुरा योधितास्तत्र वासुदेवेन कोटिशः ॥९९

तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह ।
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ॥१००

ततो गच्छेत् तु राजेन्द्र! तापसेश्वसमुत्तमम् ।
हरिणीव्याधसन्त्रस्ता पतिता यत्र सा मृगी ॥१०१

जले प्रक्षिप्त यात्रा तु अन्तरिक्षं गता च सा
व्याधो विस्मित चित्तस्तु परं विस्मयमागतः ॥१०२

तेन तापेश्वरं तीर्थं न भूतं न भविष्यति ।
ततो गच्छेत्तु राजेन्द्र! ब्रह्मतीर्थमनुत्तमम् ॥१०३

अमोहकमिति ख्यातं पितृंश्वैवात्र तर्पयेत् ।
पौर्णमास्याममायान्तु श्राद्धं कुर्याद्यथाविधि ॥१०४

तत्र स्नात्वा नरो राजन्! पितृपिण्डन्तु दापयेत् ।
गजरूपा शिला तत्र तोयमध्ये प्रतिष्ठिता ॥१०५

तस्यान्तु दापयेत् पिण्डं वैशाख्यान्तु विशेषतः ।
तृप्यन्ति पितरस्तत्र यावत्तिष्ठति मेदिनी ॥१०६

ततो गच्छेच्च राजेन्द्र! सिद्धेश्वरमनुत्तमम् ।
तत्र स्नात्वा नरो राजन्! गणपत्यन्तिकं व्रजेत् ॥१०७

ततो गच्छेत्तु राजेन्द्र! लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र! विष्णुलोके महीयते ॥१०८

नर्मदा दक्षिणे कूले तीर्थं परमशोभनम् ।
वामदेवः स्वयं तत्र तपोऽतप्यत वै महत् ॥१०९

दिव्यं वर्ष सहस्रन्तु हुताशः शुक्रपर्वणि ।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संस्थिताः ॥११०

श्वेतपर्वा यमश्चैव हुताशः शुक्रपर्वणि ।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संस्थिताः ॥१११

श्वेतपर्वा यमश्चैव हुताशः शुक्रपर्वणि ।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संश्थिताः ॥११२

मोक्षयित्वा तु तान् सर्वान् नर्मदा तटमास्थितः ।
ततस्तीर्थप्रभावेण पुनर्देवत्वमागताः ॥११३

त्वत्प्रसादान्महादेव! तीर्थं भवतु चोत्तमम् ।
अर्द्धयोजनविस्तीर्णं क्षेत्रं दिक्षु समन्ततः ॥११४

तस्मिंतीर्थे नरः स्नात्वा चोपवासपरायणः ।
कुसुमायुधरूपेण रुद्रलोके महीयते ॥११५

वैश्वानरो यमाश्चैव कामदेवस्तथा मरुत् ।
तपस्तप्त्वा तु राजेन्द्र! परां सिद्धिमवाप्नुयुः ॥११६

अङ्कोलस्य समीपे तु नास्तिदूरे तु तस्य वै ।
स्नानं दानञ्च तत्रैव भोजनं पिण्डमेव च ॥११७

अग्निप्रवेशेऽथ जले अथवा तुह्यनाशके ।
अनिवर्तिका गतिस्तस्य मृतस्यामुत्र जायते ॥११८

त्र्यम्बकेन तु तोयेन यश्चरुं श्रपयेन्नरः ।
अङ्कोलमूले दत्त्वा तु पिण्डं चैव यथाविधि ॥११९

तृप्यन्ति पितरस्तस्य यावच्चन्द्रदिवाकरौ ।
उत्तरे त्वयने प्राप्ते घृतस्नानङ्करोति यः ॥१२०

पुरुषो वाथ स्त्री वापि वसेदायतने शुचिः ।
सिद्धेश्वरस्य देवस्य प्रातः पूजां प्रकल्पयेत् ॥१२१

स यां गतिमवाप्नोति न तां सर्वैर्महामखैः ।
यदावतीर्णः कालेन रूपवान् शुभगो भवेत् ॥१२२

मर्त्ये भवति राजा च त्वासमुद्रान्त-गोचरे ।
क्षेत्रपालं न पश्येत्तु दण्डपाणिं महाबलम् ॥१२३

वृथा तस्य भवेद्यात्रा ह्यदृष्ट्वा कर्णकुण्डलम् ।
एवं तीर्थफलं ज्ञात्वा सर्वे देवाः समागताः
मुञ्चन्ति कुसुमैर्वृष्टिं तेन तत् कुसुमेश्वरम् ॥१२४

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

formula

  • न. सूत्र 
  • न. सूत्र 
  • न. सूत्र 
  • चिन्हबंध (पु.) (तर्कशास्त्रात) 
More meanings
RANDOM WORD

Did you know?

What is the Hindu Caste System?
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site