TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०९

मत्स्यपुराणम् - अध्यायः १०९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १०९
मार्कण्डेय उवाच ।
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे ब्रह्मसम्भवे ।
तीर्थानान्तु सहस्राणि शतानि नियुतानि च ॥
सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता ॥१॥

सोमतीर्थं महापुण्यं महापातकनाशनम् ।
स्नानमात्रेण राजेन्द्र! पुरुषांस्तारयेच्छतान् ॥
तस्मात् सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥२॥

युधिष्ठिर उवाच ।
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् ।
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥३॥

सर्वाणि तानि सन्त्यज्य कथमेकं प्रशंससि ।
अप्रमाणन्तु तत्रोक्तमश्रद्धेयमनुत्तमम् ॥४॥

गतिञ्च परमां दिव्यां भोगांश्चैव यथेप्सितान् ।
किमर्थमल्पयोगेन बहु धर्मं प्रशंससि ॥
एतन्मे संशयं ब्रूहि यथाद्रृष्टं यथाश्रुतम् ॥५॥

मार्कण्डेय उवाच ।
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद् भवेत् ।
नरस्याश्रद्दधानस्य पापोपहतचेतसः ॥६॥

अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमङ्गलः ।
एते पातकिनः सर्वे तेनेदं भाषितं त्वया ॥७॥

श्रृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् ।
प्रत्यक्षञ्च परोक्षञ्च यथान्यस्तं भविष्यति ॥८॥

यथैवान्यदद्रृष्टञ्च यथाद्रृष्टं यथाश्रुतम् ।
शास्त्रं प्रमाणं कृत्वा च युज्यते योगमात्मनः ॥९॥

क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् ।
जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः ॥१०॥

यथा योगसहस्रेण योगो लभ्येत मानवैः ।
यस्तुसर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ॥११॥

तेन दानेन दत्तेन योगं नाभ्येति मानवः ।
प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ॥१२॥

प्रधानहेतुं वक्ष्यामि श्रद्दधत्स्व च भारत!
यथा सर्वेषु भूतेषु ब्राह्म सर्वत्र दृश्यते ॥१३॥

ब्रह्मणे वास्ति यत् किञ्चिदब्राह्ममिति वोच्यते ।
एवं सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते ॥१४॥

यथा सर्वेषु लोकेषु प्रयागं पूजयेद्बुधः ।
पूज्यते तीर्थराजस्तु सत्यमेव युधिष्ठिर! ॥१५॥

ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् ।
तीर्थराजमनुप्राप्य न चान्यत् किञ्चिदर्हति ॥१६॥

कोहि देवत्वमासाद्य मनुष्यत्वं चिकीर्षति ।
अनेनैवोपमानेन त्वं ज्ञास्यसि युधिष्ठिर ।
यथा पुण्यतमं चास्ति तथैव कथितं मया ॥१७॥

युधिष्ठिर उवाच ।
श्रुतं चेदं त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः ।
कथं योगेन तत् प्राप्तिः स्वर्गवासस्तु कर्मणा ॥१८॥

दाता वै लभते भोगान् गां च यत्कर्मणः फलम् ।
तानि कर्माणि पृच्छामि पुनस्तैः प्राप्यते मही ॥१९॥

मार्कण्डेय उवाच ।
श्रृणु राजन्महाबाहो! यथोक्तकरणं महीम् ।
गामग्निं ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः ॥२०॥

मातरं पितरञ्चैव ये निन्दन्ति नराधमाः ।
न तेषामूद्र्ध्वगमनमिदमाह प्रजापतिः ॥२१॥

एवं योगस्य सम्प्राप्तिस्थानं परमदुर्लभम् ।
गच्छन्ति नरकं घोरं ये नराः पापकर्मिण ॥२२॥

हस्त्यश्वङ्गामनड्वाहं मणिमुक्तादि काञ्चनम् ।
परोक्षं हरते यस्तु यश्च दानं प्रयच्छति ॥२३॥

न ते गच्छन्ति वै स्वर्गं दातारो यत्र भोगिनः ।
अनेककर्मणा युक्ताः पच्यन्ते नरके पुनः ॥२४॥

एवं योगञ्चधर्मञ्च दातारञ्च युधिष्ठिर! ।
यथा सत्यमसत्यं वा अस्ति नास्तीति यत् फलम् ।
निरुक्तन्तु प्रवक्ष्यामि यथाह स्वयमंशुमान् ॥२५॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:50.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

resolution of mixtures

  • मिश्रणाचे विलगीकर 
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site