TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८५

मत्स्यपुराणम् - अध्यायः १८५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १८५
वाराणसीमाहात्म्यम् ।
सूत उवाच ।
अविमुक्ते महापुण्ये आस्तिकाः शुभदर्शनाः ।
विश्मयं परमं जग्मुर्हर्ष गद्गद निस्वनाः ॥१॥

उचुस्ते हृष्टमनसः स्कन्दं धर्म्म विदां वरम् ।
ब्रह्मणो देव! पौत्रस्त्वं ब्रह्मण्यो ब्रह्मणः प्रियः ॥२॥

ब्राह्मणो ब्रह्म विद् ब्रह्मा ब्रह्मेन्द्रो ब्रह्मलोककृत् ।
ब्रह्मकृद्ब्रह्मचारी त्वं ब्रह्मादिर्ब्रह्मवत्सलः ॥३॥

ब्रह्मतुल्योद्भवकरो ब्रह्मतुल्य नमोऽस्तु ते ।
ऋषयो भावितात्मानः श्रुत्वेदं पावनं महत् ॥४॥

तत्वन्तु परमं ज्ञातं यज्ज्ञात्वाऽमृतमश्नुते ।
स्वस्तितेऽस्तु गमिष्यामो भूर्लोकं शङ्करालयम् ॥५॥

यत्रासौ सर्वभूतात्मा स्थाणुभूतः स्थितः प्रभुः ।
सर्वलोक हितार्थाय तपस्युग्रे व्यवस्थितः ॥६॥

संयोज्य योगेनात्मानं रौद्रीं तनुमुपाश्रितः ।
गुह्यकैरात्मभूतस्तु आत्मतुल्य गुणैर्वृतः ॥७॥

ततो ब्रह्मादिभिर्देवैः सिद्धैश्च परमर्षिभिः ।
विज्ञप्तः परया भक्त्या त्वत्प्रसादाद् गणेश्वर! ॥८॥

वक्तुमिच्छाम नियतमविमुक्ते सुनिश्चिताः ।
एवं गुणे तथा मर्त्या ह्यविमुक्ते वसन्ति ये ॥९॥

धर्मशीला जितक्रोधा निर्ममा नियतेन्द्रियाः ।
ध्यान योगपराः सिद्धिं गच्छन्ति परमाव्ययाम् ॥१०॥

योगिनो योगसिद्धाश्च योगमोक्षप्रदं विभुम् ।
उपासन्ते भक्तियुक्ताः शान्ता योगगतिङ्गताः ॥११॥

स्थानं गुह्यं श्मशानानां सर्वेषामेतदुच्यते ।
न हि योगादृते मोक्षः प्राप्यते भुवि मानवैः ॥१२॥

अविमुक्ते तु वसतां योगो मोक्षश्च सिध्यति ।
अनेन जन्मनैवेह प्राप्यते गतिरुत्तमा ॥१३॥

एक एव प्रभावोऽस्ति क्षेत्रस्य परमेश्वरि! ।
एकेन जन्मना देवि! मोक्षं पश्यन्त्यनुत्तमम् ॥१४॥

अविमुक्ते निवसता व्यासेनामिततेजसा ।
नैव लब्धा क्वचिद्भिक्षा भ्रममाणेन यत्नतः ॥१५॥

क्षुधाविष्टस्ततः क्रुद्धोऽचिन्तयत् छापमुत्तमम् ।
दिनं दिनं प्रति व्यासः षण्मासं योऽवतिष्ठति ॥१६॥

कथं ममेदं नगरं भिक्षादोषाद्धतन्त्विदम् ।
विप्रो वा क्षत्रियो वापि विधवा ब्राह्मणी पिवा ॥१७॥

संस्कृतासंस्कृता वापि परिपक्वाः कथन्नु मे ।
न प्रयच्छन्ति वै लोका ब्राह्मणाश्चर्य कारकम् ॥१८॥

एषां शापं प्रदास्यामि तीर्थस्य नगरस्य तु ।
तीर्थञ्चातीर्थतां यातु नगरं शापयाम्यहम् ॥१९॥

मा भूत्त्रिपुरुषी विद्या मा भूत्त्रिपुरुषं धनम् ।
मा भूत् त्रिपुरुषं सव्यं व्यासो वाराणसीं शपन् ॥२०॥

अविमुक्ते निवसतां जनानां पुण्यकर्मणाम् ।
विघ्नं सृजामि सर्वेषां येन सिद्धिर्न विद्यते ॥२१॥

व्यासचित्तं तदा ज्ञात्वा देवदेव उमापतिः ।
भीतभीतस्तदा गौरीं तां प्रियां पर्य्यभाषत ॥२२॥

श्रृणु देवि! वचो मह्यं यादृशं प्रत्युपस्थितम् ।
कृष्णद्वैपायनः कोपाच्छापं दातुं समुद्यतः ॥२३॥

देव्युवाच ।
क्रिमर्थं शपते क्रुद्धो व्यासः केन प्रकोपितः ।
किं कृतं भगवंस्तस्य येन शापं प्रयच्छति ॥२४॥

देवदेव उवाच ।
अनेन सुतपस्तप्तं बहून् वर्षगणान् प्रिये! ।
मौनिना ध्यानयुक्तेन द्वादशाब्दान् वरानने ॥२५॥

ततः क्षुधा सुसञ्जाता भिक्षामटितुमागतः ।
नैवास्य केनचिद्भिक्षा ग्रासार्द्धमपि भामिनि ॥२६॥

एवं भगवतः काल आसीत् षाण्मासिको मुनेः ।
ततः क्रोधपरीतात्मा शापं दास्यति सोऽधुना ॥२७॥

यावन्नेष शपेत्तावदुपायस्तत्र चिन्त्यताम् ।
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रिये ॥२८॥

कोऽस्य शापान्न बिभेति ह्यपि साक्षात् पितामहः ।
अदैवं दैवतं कुर्य्याद् दैवं चाप्यपदैवतम् ॥२९॥

आवान्तु मानुषौ भूत्वा गृहस्थाविहवासिनौ ।
तस्य तृप्तिकरीं भिक्षां प्रयच्छावो वरानने ॥३०॥

एवमुक्त्वा ततो देवी देवेन शम्भुना तदा ।
व्यासस्य दर्शनं दत्त्वा कृत्वा वेषन्तु मानुषम् ॥३१॥

एह्येहि भगवन्! सद्यो भिक्षां ग्राहय सत्तम! ।
अस्मद् गृहे कदाचित्त्वं नागतोऽसि महामुने! ॥३२॥

एतच्छ्रुत्वा प्रीतमना भिक्षां ग्रहीतुमागतः ।
भिक्षां दत्त्वा तु व्यासाय षड्रसाममृतोपमाम् ॥३३॥

अनास्वादितपूर्वा सा भक्षिता मुनिना तदा ।
भिक्षां व्यासस्ततो भुक्त्वा चिन्तयन्हृष्टमानसः ॥३४॥

ववन्दे वरदं देवं देवीञ्च गिरिजां तदा ।
व्यासः कमलपत्राक्ष इदं वचनमब्रवीत् ॥३५॥

देवो देवी नदी गङ्गामिष्टमन्नं शुभा गतिः ।
वाराणस्यां विशालाक्षि! वासः कस्य न रोचते ॥३६॥

एवमुक्त्वा ततो व्यासो नगरीमवलोकयन् ।
चिन्तयानस्ततो भिक्षां हृदयानन्दकारिणीम् ॥३७॥

अपश्यत् पुरतो देवं देवीञ्च गिरिजां तदा ।
गृहाङ्गणस्थितं व्यासं देवदेवोऽब्रवीदिदम् ॥३८॥

इह क्षेत्रे न वस्तव्यं क्रोधनस्त्वं महामुने! ।
एवं विस्मयमापन्नो देवं व्यासोऽब्रवीद्वचः ॥३९॥

व्यास उवाच ।
चतुर्दश्यामथाष्टम्यां प्रवेशं दातुमर्हसि ।
एवमस्त्वित्यनुज्ञाय तत्रैवान्तरधीयत ॥४०॥

न तद् गृहं न सा देवी न देवो ज्ञायते क्वचित् ।
एवं त्रैलोक्यविख्यातः पुरा व्यासो महातपाः ॥४१॥

ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्यैव पार्श्वतः ।
एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं शंसन्ति पण्डिताः ॥४२॥

अविमुक्तगुणानान्तु कः समर्थो वदिष्यति ।
देवब्राह्मण-विद्विष्टा देवभक्तिविडम्बकाः ॥४३॥

ब्रह्मघ्नाश्च कृतघ्नाश्च तथा नैष्कृतिकाश्च ये ।
लोकद्विषो गुरुद्विषस्तीर्थायतन दूषकाः ॥४४॥

सदा पापरताश्चैव ये चान्ये कुत्सिता भुवि ।
तेषां नास्तीति वासो वै स्थितोऽसौ दण्डनायकः ॥४५॥

रक्षणार्थं नियुक्तं वै दण्डनायकमुत्तमम् ।
पूजयित्वा यथा शक्त्या गन्धपुष्पादि धूपकैः ॥४६॥

नमस्कारं ततः कृत्वा नायकस्य तु मन्त्रवित् ।
सर्ववर्णावृते क्षेत्रे नानाविध-सरीसृपे ॥४७॥

ईश्वरानुगृहीता हि गतिं गाणेश्वरीं गताः ।
नानारूपधरा दिव्या नानावेषधरास्तथा ॥४८॥

सुरा वै ये तु सर्वे च तन्निष्ठास्तत्परायणाः ।
यदिच्छन्ति परं स्थानमक्षयन्तदवाप्नुयुः ॥४९॥

परं पुरं दैवपुराद्विशिष्यते तदुत्तरं ब्रह्मपुरात् पुरस्थितम् ।
तपोबलादीश्वरयोगनिर्मितं न तत् समं ब्रह्मदिवौकसालयम् ।
मनोरमं कामगमं ह्यनामयमतीत्य तेजांसि तपांसि योगवत् ॥५०॥

अधिष्ठितस्तु तत्स्थाने देवदेवो विराजते ।
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये ॥५१॥

सर्वतीर्थाभिषेकं तु सर्वदानफलानि च ।
सर्वयज्ञेषु यत् पुण्यमविमुक्ते तदाप्नुयात्॥५२॥

अतीतं वर्तमानञ्च ज्ञानादज्ञानतोऽपि वा ।
सर्वं तस्य च यत् पापं क्षेत्रं दृष्ट्वा विनश्यति ॥५३॥

शान्तैर्दान्तैस्तपस्तप्तं यत् किञ्चित् धर्मसंज्ञितम् ।
सर्वं च तदवाप्नोति अविमुक्ते जितेन्द्रियः ॥५४॥

अविमुक्तं समासाद्य लिङ्गमर्चयते नरः ।
कल्पकोटिशतैश्चापि नास्ति तस्य पुनर्भवः ॥५५॥

अमरा ह्यक्षयाश्चैव क्रीडन्ति भवसन्निधौ ।
क्षेत्रतीर्थोपनिषदमविमुक्तं न संशयः ॥५६॥

अविमुक्ते महादेवमर्चयन्ति स्तुवन्ति वै ।
सर्वपापविनिर्मुक्तास्ते तिष्ठन्त्यजरामराः ॥५७॥

सर्वकामाश्च ये यज्ञाः पुनरावृत्तिकाः स्मृताः ।
अविमुक्ते मृता ये च सर्वे ते ह्यनिवर्तकाः ॥५८॥

ग्रहनक्षत्रताराणां कालेन पतनाद्भयम् ।
अविमुक्ते मृतानान्तु पतनं नैव विद्यते ॥५९॥

कल्पकोटिसहस्रैस्तु कल्पकोटिशतैरपि ।
न तेषां पुनरावृत्तिर्मृता ये क्षेत्र उत्तमे ॥६०॥

संसारसागरे घोरे भ्रमन्तः कालपर्ययात् ।
अविमुक्तं समासाद्य गच्छन्ति मणिकर्णिकाम् ॥६१॥

ज्ञात्वा कलियुगं घोरं हाहा भूतमचेतनम् ।
अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि॥६२॥

अविमुक्तं प्रविष्टस्तु यदि गच्छेत्ततः पुनः ।
तदा हसन्ति भूतानि अन्योन्यं करताडनम् ॥६३॥

कामक्रोधेन लोभेन ग्रस्ता ये भुवि मानवाः ।
निष्क्रमन्ते नरा देवि! दण्डनायकमोहिताः ॥६४॥

जपध्यानविहीनानां ज्ञानवर्जित चेतसाम् ।
ततो दुःखहतानाञ्च गतिर्वाराणसी नृणाम्॥६५॥

तीर्थानां पञ्चकं सारं विश्वेशानन्दकानने ।
दशाश्वमेधं लोलार्कः केशवो बिन्दुमाधवः ॥६६॥

पञ्चमी न महाश्रेष्ठा प्रोच्यते मणिकर्णिका ।
एभिस्तु तीर्थवर्यैश्च वर्ण्यते ह्यविमुक्तकम् ॥६७॥

एतद्वै कथितं सर्वं देव्यै देवेन भाषितम् ।
अविमुक्तस्य क्षेत्रस्य तत् सर्वं कथितं द्विजाः ॥६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.5670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

germ disc

  • न. Bot., Zool. जननबिंब 
  • (also germinal disc) 
  • बीज बिंब 
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.