TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५३

मत्स्यपुराणम् - अध्यायः १५३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १५३
तारकासुरोपाख्याने देवासुरयुद्धवर्णनम् ।

सूत उवाच ।
तमालेक्य पलायन्त विब्रष्टध्वज कार्मुकम् ।
हरिं देवः सहस्राक्षो मेने भग्नं दुराहवे ॥१॥

दैत्यांश्च मुदितान् दृष्ट्वा कर्तव्यं नाध्यगच्छत ।
अथायान्निकटे विष्णोः सुरेशः पाकशासनः ॥२॥

उवाच चैनं मधुरं प्रोत्साह परिबृंहकम् ।
किमेभिः क्रीडसे देव! दानवैर्दुष्टमानसैः ॥३॥

दुर्जनैर्लब्धरन्ध्रस्य पुरुषस्य कुतः क्रियाः ।
शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ॥४॥

तस्मान्न नीचं मतिमान् दुर्गहीनं हि सन्त्यजेत् ।
अथाग्रे सरसंपत्त्यां रथिनो जयमाप्नुयुः ॥५॥

कस्ते सखाभवत् चाग्रे हिरण्याक्षवधे विभो! ।
हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः ॥६॥

त्वां प्राप्यापश्यदसुरो विषमं स्मृतिविभ्रमम् ।
पूर्वेऽप्यतिबलाये च दैत्येन्द्राः सुरविद्विषः ॥७॥

विनाशमागताः प्राप्य शलभा इव पावकम् ।
युगे युगे च दैत्यानां त्वमेवान्तकरो हरे ॥८॥

तथैवाद्येह मग्नानां भव विष्णो! सुराश्रयः ।
एवमुक्तस्ततो विष्णुर्व्यवर्द्धत महाभुजः ॥९॥

ऋद्ध्या परमया युक्तः सर्वभूताश्रयोऽरिहा ।
अथोवाच सरस्राक्षं कालक्षममधोक्षजः ॥१०॥

दैत्येन्द्रा स्वर्वधोपायैः शक्त्या हन्तुं हि नान्यतः ।
दुर्जयस्तारको दैत्यो मुक्त्वा सप्तदिनं शिशुम् ॥११॥

कश्चित् स्त्रीवध्यतां प्राप्तो वधेऽन्यस्य कुमारिका ।
जम्भस्तु वध्यतां प्राप्तो दानवः क्रूरविक्रमः ॥१२॥

तस्माद्वीर्येण दिव्येन जहि जम्भं जगद्वरम् ।
अवध्यः सर्वभूतानां त्वां विना स तु दानवः ॥१३॥

मया गुप्तो रणे जम्भं जगत्कण्टकमुद्धर ।
तद्वैकुण्ठवचः श्रुत्वा सहस्राक्षोऽमरारिहा ॥१४॥

समादिशत् सुरान् सर्वान् सैन्यस्य रचनां प्रति ।
यत्सारं सर्वलोकेषु वीर्य्यस्य तपसोऽपि च ॥१५॥

तदेकादशरुद्रांस्तु चकाराग्रेसरान् हरिः ।
व्यालभोगाङ्गसन्नद्धा बलिनो नीलकन्धराः ॥१६॥

चन्द्रलेखन- चूडाला मण्डिता नु शिखण्डिनः ।
शूलज्वालीभिषङ्गाढ्या भुजमण्डलभैरवाः ॥१७॥

पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिनः ।
कपालीशादयो रुद्रा विद्रावितमहासुराः ॥१८॥

कपाली पिङ्गलो भीमो विरुपाक्षो विलोहितः ।
अजेशः शासनः शास्ता शम्भुः खण्डो ध्रुवस्तथा ॥१९॥

एते एकादशानन्त बला रुद्राः प्रभाविनः ।
पालयन्तो बलस्याग्रे दारयन्तश्च दानवान् ॥२०॥

आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः ।
हिमाचलाभे महति काञ्चनाम्बुरुहस्रजि ॥२१॥

प्रचलच्चामरे हेम घण्टासङ्घातमण्डिते ।
ऐरावते चतुर्दन्ते मातङ्गेऽचलसंस्थिते ॥२२॥

महामदजलस्रावे कामरूपे शतक्रुतः ।
तस्थौ हिमगिरेः श्रृङ्गे भानुमानिव दीप्तिमान् ॥२३॥

तस्यारक्षत् पदं सव्यं मारुतोऽमितविक्रमः ।
जुगोपापरमग्निस्तु ज्वाला पूरितदिङ्मुखः ॥२४॥

पृष्ठरक्षोऽभवद्विष्णुः ससैन्यस्य शतक्रतोः ।
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि ॥२५॥

गन्धर्वा राक्षसा यक्षाः सकिन्नरमहोरगाः ।
नानाविधायुधाश्चित्रा दधाना हेमभूषणम् ॥२६॥

कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम् ।
विश्रावयन्तः स्वाङ्कीर्तिं बन्दिवृन्दपुरःसरा ।

चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः ॥२७॥

शतक्रतोरमरनिकायपालिता पताकिनी गजशत वाजिनादिता ।
सितातपत्रध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी ॥२८॥

आयान्तीमवलोक्याथ सुरसेनाङ्गजासुरः ।
गजरूपी महाम्भोद सङ्घातो भाति भैरवः ॥२९॥

परश्वधायुधो धैत्यो दंशितोष्ठकसंपुटः ।
ममर्दचरणे देवांश्चिक्षेपान्यान् करेण तु ॥३०॥

परान् परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः ।
तस्य पातयतः सेनां यक्षगन्धर्वकिन्नराः ॥३१॥

मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् ।
पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान् ॥३२॥

कुन्तान्प्राशानसींस्तीक्ष्णान् मुद्गरांश्चापि दुःसहान् ।
तान् सर्वान् सोऽग्रसद्दैत्यः कवलानिव यूथपः ॥३३॥

कोपास्फालितदीर्घाग्र करास्फोटेन पातयन् ।
विचचार रणे देवान् दुष्प्रेक्ष्यो गजदानवः ॥३४॥

यस्मिन् यस्मिन्निपतति सुरवृन्दे गजासुरः ।
तस्मिन् तस्मिन् महाशब्दो हाहाकारकृतोऽभवत् ॥३५॥

अथ विद्रवमाणं तद् बलं प्रेक्ष्य समन्ततः ।
रुद्राः परस्परं प्रोचुरहङ्कारोत्थितार्चिषः ॥३६॥

भो!भो! गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम् ।
कर्षतैनं शितैः शूलैर्भञ्जतैनञ्च मर्म्मसु ॥३७॥

कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम् ।
सम्मार्ज्य वामहस्तेन संरम्भ- विवृते क्षणः ॥३८॥

अधावद् ब्रुकुटीवक्रो दैत्येन्द्राभिमुखो रणे ।
दूढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम् ॥३९॥

जघान कुम्भदेशे तु कपाली गजदानवम् ।
ततो दशापि ते रुद्रा निर्म्मलायोमायै रणे ॥४०॥

जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे ।
स्रुतशोपित रन्ध्रस्तु शितशूलमुखादितः ॥४१॥

बभौ कृष्णच्छविर्दैत्यः शरदीवामलं सरः ।
प्रोत्फुल्लारुण नीलाब्ज सङ्घातः सर्वतो दिशम् ॥४२॥

भस्म शुभ्र तनुच्छायै रुद्रैर्हंसैरिवावृतः ।
उपस्थितार्तिर्दैत्योऽथ प्रचलत्कर्णपल्लवः ॥४३

शम्भुं बिभेद दशनैर्नाभिदेशे गजासुरः ।
दृष्ट्वा सक्तन्तु रुद्राभ्यां नवरुद्रास्ततोऽद्भुतम् ॥४४॥

ततक्षुर्विविधैः शस्त्रै शरीरममरद्विषः ।
निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः ॥
मृतं महिषमासाद्य वने गोमायवो यथा ।
कपालिनौ परित्यज्य गतश्चासुर पुङ्गवः ॥४५॥

वेगेन कुपितो दैत्यो नवरुद्रानुपाद्रवत् ।
ममर्द चरणाघातैर्दन्तैश्चापि करेण च ॥४६॥

स तैस्तुमुलयुद्धेन श्रममासादितो यदा ।
तदा कपाली जग्राह करन्तस्यामरद्विषः ॥४७॥

भ्रामयामास वेगेन ह्यतीव च गजासुरम् ।
दृष्ट्वा श्रमातुरं दैत्यं किञ्चित्स्फुरितजीवितम् ॥४८॥

निरुत्साहं रणे तस्मिन् गतयुद्धोत्सवोद्यमम् ।
ततः पतत एवास्य चर्म चोत्कृत्य भैरवम् ॥४९॥

स्रवत्सर्वाङ्गरक्तौघं चकाराम्बरमात्मनः ।
दृष्ट्वा विनिहतं दैत्यं दानवेन्द्रा महाबलाः ॥५०॥

वित्रेसुर्दुद्रुवुर्जग्मुर्निपेतुश्च सहस्रशः ।
दृष्ट्वा कपालिनो रूपं गजचर्माम्बरावृतम् ॥५१॥

दिक्षु भूमौ तमेवोग्रं रुद्रं दैत्या व्यलोकयन् ।
एवं विलुलिते तस्मिन् दानवेन्द्रे महाबले ॥५२॥

द्विपाधिरूढो दैत्येन्द्रो हतदुन्दुभिना ततः ।
कल्पान्ताम्बुधराभेन दुर्द्धरेणापि दानवः ॥५३॥

निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन् ।
यां यां निमिगजो याति दिशं तां तां सवाहनाः ॥५४॥

सन्त्यज्य दुद्रुवुर्देवा भयार्तास्त्यक्तहेतवः ।
गन्धेन सुरमातङ्गा दुद्रुवुस्तस्य हस्तिनः ॥५५॥

पलायितेषु सैन्येषु सुराणां पाकशासनः ।
तस्थौ दिक्पालकैः सार्द्धमष्टभिः केशवेन च ॥५६॥

संप्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति ।
तावच्छ्रक्रगजो यातो मुक्त्वा नादं स भैरवम् ॥५७॥

ध्रियमाणोऽपि यत्नेन न स्वकैरवतिष्ठति ।
पलायिते गजे तस्मिन्नारूढः पाकशासनः ॥५८॥

विपरीतमुखो युद्ध्यद्दानवेन्द्रबलं प्रति ।
शतक्रतुस्तु वज्रेण निमिं वक्षस्यताडयत् ॥५९॥

गदया दन्तिनश्चास्य गण्डदेशेऽहनद् दृढम् ।
तत्प्रहारमचिन्त्यैव निमिर्निर्भयपौरुषः ॥६०॥

ऐरावतं कटीदेशे मुद्गरेणाभ्यताडयत् ।
स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे ॥६१॥

जगाम पश्चाच्चरणैर्धरणीं भूधराकृतिः ।
लाघवात् क्षिप्रमुत्थाय ततोऽमरमहागजः ॥६२॥

रणादपससर्पाशु भीषितो निमिहस्तिना ।
ततो वायुर्ववौ रुक्षो बहुशर्करपांसुलः ॥६३॥

सम्मुखो निमिमातङ्गो जवनाचलकम्पनः ।
स्रुतरक्तो बभौ शैलो घनचारुह्रदो यथा ॥६४॥

धनेशोऽपि गदां गुर्वीन्तस्य दानवहस्तिनः ।
चिक्षेप वेगाद्दैत्येन्द्रो निपपातास्य मूर्द्धनि ॥६५॥

गजो गदा निपातेन स तेन परिमूर्च्छितः ।
दन्तैर्भित्वा धरां वेगात् पपाताचलसन्निभः ॥६६॥

पतिते तु गजे तस्मिन् सिंहनादो महानभूत् ।
सर्वतः सुरसैन्यानां गजबृंहितबृंहितैः ॥६७॥

ह्रेषारवेण चाश्वानां गुणास्फोटैश्च धन्विनाम् ।
गजन्तं निहतं दृष्ट्वा निमिश्चापि पराङ्मुखः ॥६८॥

श्रुत्वा च सिंहनादश्च सुराणामतिकोपतः ।
जम्भो जज्वाल कोपेन पीताज्य इव पावकः ॥६९॥

स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम् ।
यथादित्यसहस्रस्याभ्युदितस्योदयाचले ॥७०॥

वेगेन चलतस्तस्य तद्रथस्याभवद् द्युतिः ।
यथादित्यसहस्रस्याभ्युदितस्योदयाचले ॥७१॥

पताकिना रथेनाजौ किङ्किणी जालमालिना ।
शशिशुभ्रातपत्रेण स तेन स्यन्दनेन तु ॥७२॥

घट्टयन् सुरसैन्यानां हृदयं समदृश्यत ।
तमायान्तमभिप्रेक्ष्य धनुष्याहितसायकम् ॥७३॥

शतक्रतुरदीनात्मा दृढ़माधत्त कार्मुकम् ।
बाणञ्च तैलधौताग्रमर्द्धचन्द्रमजिह्मगम् ॥७४॥

तेनास्य सशरञ्चापं रणे चिन्छेद वृत्रहा ।
क्षिप्रं सन्त्यज्यतच्चापं जम्भो दानवनन्दनः ॥७५॥

अन्यत् कार्मुकमादाय वेगवद्भारसाधनम् ।
शरांश्चाशीविषाकारांस्तैलधौतानजिह्मगान् ॥७६॥

शक्रं विव्याधदशभिर्जत्रुदेशे तु पत्रिभिः ।
हृदये च त्रिभिश्चापि द्वाभ्याञ्च स्कन्धयोर्द्वयोः ॥७७॥

शक्रोऽपि दानवेन्द्राय बाणजालमपीदृशाम् ।
अप्राप्तान् दानवेन्द्रस्तु शरान् शक्रभुजेरितान् ॥७८॥

चिच्छेद दशधाकाशे शरैरग्निशिखोपमैः ।
ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम् ॥७९॥

आच्छादयत यत्नेन वर्षास्विव घनैर्नभः ।
दैत्योऽपि बाणजालन्त द्व्यधमत्सायकैः शितैः ॥८०॥

यथा वायुर्घनाटोपं परिवार्य दिशो मुखे ।
शक्रोऽथ क्रोधसंरम्भान्न विशेषयते यदा ॥८१॥

दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम् ।
तदुत्थतेजसा व्याप्तमभूत् गगनगोचरम् ॥८२॥

गन्धर्वनगरैश्चापि नाना प्राकारतोरणैः ।
अञ्चद्भिरद्भुताकारैरस्त्रवृष्टिः समन्ततः ॥८३॥

अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः ।
जम्भं शरणमागच्छदप्रमेयपराक्रमम् ॥८४॥

व्याकुलेऽपि स्वयं दैत्यः सहस्राक्षास्त्रपीडितः ।
स्मरन् साधुसमाचारं भीतत्राणपरोऽभवत् ॥८५॥

अथास्त्रं मौसलं नाम मुमोच दितिनन्दनः ।
ततो यो मुसलैः सर्वमभवत् पूरितं जगत् ॥८६॥

एकप्रहारकरणैरप्रधृष्यैः समन्ततः ।
गन्धर्वनगरन्तेषु गन्धर्वास्त्रविनिर्मितान् ॥८७॥

गान्धर्वमस्त्रं सन्धाय सुरसैन्येषु चापरम् ।
एकैकेन प्रहारेण गजानश्वान्महारथान् ॥८८॥

रथाश्वान् सोऽहनत् क्षिप्रं शतशोऽथसहस्रशः ।
ततः सुराधिपस्त्वाष्ट्रमस्त्रञ्च समुदीरयन् ॥८९॥

सन्ध्यमाने ततस्त्वाष्ट्रे निश्चेरुः पावकार्चिषः ।
ततो यन्त्रमयान् दिव्यानायुधान् दुष्प्रधर्षिणः ॥९०॥

तैर्यैन्त्रैरभवद्द्वन्द्वमन्तरिक्षे वितानकम् ।
वितानकेन तेनाथ प्रथमं मौसले गते ॥९१॥

शैलास्त्रं मुमुचे जम्भो यन्त्रसङ्घात ताडनम् ।
व्योमप्रमाणैरुपलैस्ततो वर्षमवर्तत ॥९२॥

त्वाष्ट्रस्य निर्मितान्याशु यन्त्राणि तदनन्तरम् ।
तेनोपलनिपातेन गतानि तिलशस्ततः ॥९३॥

यन्त्राणि तिलशः कृत्वा शैलास्त्रं परिमूर्धसु ।
निपपातातिवेगेनादारयत् पृथिवीं ततः ॥९४॥

ततो वज्रास्त्रमकरोत् सहस्राक्षः पुरन्दरः ।
तदोपलमहाहर्षं व्यशीर्यत समन्ततः ॥९५॥

ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसन्निभः ।
ऐषीकमस्त्रमकरोदभीतोऽतिपराक्रमः ॥९६॥

एषीकेनागमन्नाशं वज्रास्त्रं शक्रवल्लभम् ।
विजृम्भत्यथ चैषीके परमास्त्रेति दुर्धरे ॥९७॥

जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु ।
दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः ॥९८॥

आग्नेयमस्त्रमकरोद् बलवान् पाकशासनः ।
तेनास्त्रेण ततस्त्वैन्द्रमग्रसत्तदनन्तरम् ॥९९॥

तस्मिन् प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत ।
जज्वालकायं जम्भस्य सरथञ्च ससारथिम् ॥१००॥

ततः प्रतिहतः सोऽथ दैत्येन्द्रः प्रतिभानवान् ।
वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम् ॥१०१॥

ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः ।
गम्भीरमुरजध्वानैरापूरितमिवाम्बरम् ॥१०२॥

करीन्द्रकरतुल्याभिर्जलधाराभिरम्बरम् ।
पतन्तीभिर्जगत् सर्वं क्षणेनापूरितं बभौ ॥१०३॥

शान्तमाग्नेयमस्त्रं तत् प्रविलोक्यसुराधिपः ।
वायव्यमस्त्रमकरोत् मेघसङ्घातनाशनम् ॥१०४॥

वायव्यास्त्रबलेनाथ निर्धूते मेघमण्डले ।
बभूव विमलं व्योम नीलोत्पलदलप्रभम् ॥१०५॥

वायुना चातिघोरेण कम्पितास्ते तु दानवाः ।
न शेकुस्तत्र ते स्थातुं रणेऽतिबलिनोऽपि ये ॥१०६॥

तदा जम्भोऽभवच्छैलो दशयोजनविस्तृतः ।
मारुतप्रतिघातार्थं दानवानां भयापहः ॥१०७॥

मुक्तनानायुधोदग्र तेजोऽभिज्वलित द्रुमः ।
ततः प्रशमिते वायौ दैत्येन्द्रे पर्वताकृतौ ॥१०८॥

महाशनीं वज्रमयीं मुमोचाशु शतक्रतुः ।
तयाशन्या पतितया दैत्यस्याचलरूपिणः ॥१०९॥

कन्दराणि व्यशीर्यन्त समन्तान्निर्झराणि तु ।
ततः सा दानवेन्द्रस्य शैलमाया न्यवर्तत ॥११०॥

निवृत्तशैलमायोऽथ दानवेन्द्रो महोत्कटः ।
बभूव कुञ्जरो भीमो महाशैलसमाकृतिः ॥१११॥

स ममर्द सुरानीकं दन्तैश्चाप्यहनत् सुरान् ।
बभञ्ज पृष्ठतः कांश्चित् करेणावेष्ट्य दानवः ॥११२॥

ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा ।
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह ॥११३॥

ततः सिंहसहस्राणि निश्चेरुर्मन्त्रतेजसः ।
कृष्णदंष्ट्राट्टहासानि क्रकचाभ नखानि च ॥११४॥

तैर्विपादितगात्रोऽसौ गजमायां व्यपोथयत् ।
ततश्चासौ विषो घोरोऽभवत्फणशताकुलः ॥११५॥

विषनिश्वासनिर्दग्धं सुरसैन्यं महारथः ।
ततोऽस्त्रं गारुडं चक्रे शक्रश्चारुभुजस्तदा ॥११६॥

ततो गरुत्मतस्तस्मात् सहस्राणि विनिर्ययुः ।
तैर्गरुत्मभिरासाद्य जम्भं भुजगरूपिणम् ॥११७॥

कृतन्तु खण्डशो दैत्यं सास्यमाया व्यनश्यत ।
प्रनष्टायान्तु मायायां ततो जम्भो महासुरः ॥११८॥

चकार रूपमतुलं चन्द्रादित्यपथानुगम् ।
विवृत्तवदनो ग्रस्तुमियेष सुरपुङ्गवान् ॥११९॥

ततोऽस्य विविशुर्वक्त्रं समहारथकुञ्जराः ।
सुरसेनाविशत् भीमं पातालोत्तानतालुकम् ॥१२०॥

सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा ।
शक्रो दैन्यं समापन्नः श्रान्तबाहुः सवाहनः ॥१२१॥

कर्तव्यतां नाध्यगच्छत् प्रोवाचेदं जनार्दनम् ।
किमनन्तरमत्रास्ति कर्तव्यस्यावशेषितम् ॥१२२॥

यदाश्रित्य घटामोऽस्य दानवस्य युयुत्सवः ।
ततो हरिरुवाचेदं वज्रायुधमुदारधीः ॥१२३॥

न साम्प्रतं रणस्त्याज्य स्त्वया कातरभैरवः ।
वर्द्धस्वाशु महामायां पुरन्दर! रिपुम्प्रति ॥१२४॥

मयैष लक्षितो दैत्योऽधिष्ठितः प्राप्तपौरुषः ।
मा शक्र! मोहमागच्छ क्षिप्रमस्त्रं स्मर प्रभो ॥१२५॥

ततः शक्र प्रकुपितो दानवं प्रति देवराट् ।
नारायणास्त्रं प्रयतो मुमोचासुर वक्षसि ॥१२६॥

एतस्मिन्नन्तरे दैत्य विवृतास्योऽग्रसत् क्षणात् ।
त्रीणि लक्षाणि गन्धर्व किन्नरोरगराक्षसान् ॥१२७॥

ततो नारायणास्त्रं तत् पपातासुरवक्षसि ।
महास्त्रभिन्नहृदयः सुस्राव रुधिरञ्च सः ॥१२८॥

रणागारमिवोद्गारं तत्याजासुरनन्दनः ।
तदस्त्रतेजसा तस्य रूपं दैत्यस्य नाशितम् ॥१२९॥

तत एवान्तर्दधे दैत्यो वियत्यनुपलक्षितः ।
गगनस्थः स दैत्येन्द्रः शस्त्रासनमतीन्द्रियम् ॥१३०॥

मुमोच सुरसैन्यानां संहारे कारणम्परम् ।
प्रासान् परश्वधांश्चक्रान् बाणान् वज्रान् समुद्गरान् ॥१३१॥

कुठारान् सह खड्गैश्च भिन्दिपालानयोगुडान् ।
ववर्ष दानवो रौद्रो ह्यबन्ध्यानक्षयानपि ॥१३२॥

तैरस्त्रैर्दानवैर्मुक्तै र्देवानीकेषु भीषणैः ।
बाहुभिर्द्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः ॥१३३॥

ऊरुभिर्गजहस्ताभैः करीन्द्रैर्वाचलोपमैः ।
भग्नेषा दण्डचक्राक्षै रथैः सारथिभिः सह ॥१३४॥

दुःसञ्चाराभवत् पृथ्वी मांसशोणितकर्दमा ।
रुधिरौगह्रदावर्ता शवराशिशिलोच्चयैः ॥१३५॥

कबन्ध नृत्यसङ्कुले स्रवद्वसास्रकर्दमे ।
जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् ॥१३६॥

श्रृगालगृध्रवायसाः परं प्रमोदमादधुः ।
क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः ॥१३७॥

विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित् ।
क्वचित् स्थितोऽतिभीषणः स्वतुण्डनिहितौरसः ॥१३८॥

मृतस्य मांसमादाय श्वजातयश्च संस्थिताः ।
क्वचिद् वृको गजासृजम्पपौ निलीयतान्त्रतः ॥१३९॥

क्वचित्तुरङ्गमण्डली विकृष्यते श्वजातिभिः ।
क्वचित् पिशाचजातकैः प्रपीतशोणितासवैः ॥१४०॥

स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसम्भ्रमैः ।
ममैतदानयाननं खुरो यमस्तु मे प्रियः ॥१४१॥

करोऽयमज्वमन्निभो(?)ममास्तु कर्णपूरकः ।
सरोषमीक्षते परा वपां विना प्रियं तदा ॥१४२॥

परा प्रिया ह्यवापयत् धृतोष्णशोणितासवम् ।
विकृष्य शावचर्म तत्प्रवद्ध सान्द्रपल्लवम् ॥१४३॥

चकार यक्षकामिनी तरुं कुठारपाटितम् ।
गजस्य दन्तमासृजं प्रगृह्य कुम्भसम्पुटम् ॥१४४॥

विपाट्य मौक्तिकं परं प्रिया प्रसादमिच्छते ।
समांसशोणितासवं पपुश्च यक्षराक्षसाः ॥१४५॥

मृताश्च केशवासितं रसं प्रगृह्य पाणिना ।
प्रिया विमुक्तजीवितं समानया मृगासवम् ॥१४६॥

न पथ्यतां प्रयाति मे गतं श्मशानगोचरम् ।
नरस्य तज्जहात्यसौ प्रशस्य किन्नराननम् ॥१४७॥

सनाग एव नोभयं दधाति मुक्तजीवितः ।
तदानतस्य शक्यवे मया तदेकयाननम् ॥१४८॥

इति प्रियाय वल्लभा वदन्ति यक्षयोषितः ।
परे कपालपामयः पिशाचयक्षराक्षसाः ॥१४९॥

वदन्ति देहि मे मम ममातिभक्ष्यचारिणः ।
परेऽवतीर्य शोणितापगासु धौतमूर्तयः ॥१५०॥

पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैः ।
गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् ॥१५१॥

इति प्रगाढसङ्कटे सुरासुरे सुसङ्गरे ।
भयं समुज्भयदुर्जया भटाः स्फुटन्ति मानिनः ॥१५२॥

ततः शक्रो धनेशश्च वरुणः पवानोऽनलः ।
यमोऽपि निर्ऋतिश्चापि दिव्यास्त्राणि महाबलाः ॥१५३॥

आकाशे ममुचुः सर्वे दानवानभिसन्ध्य ते ।
अस्त्राणि व्यर्थतां जग्मुर्देवानां दानवान् प्रति ॥१५४॥

संरम्भेणाप्ययुद्ध्यन्त संहतास्तुमुलेन च ।
गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः ॥१५५॥

दैत्यास्त्रभिन्नसर्वाङ्गा ह्यकिञ्चित्करताङ्गताः ।
परस्परं व्यलीयन्त गावः शीतार्दिता इव ॥१५६॥

तदवस्थान् हरिर्दृष्ट्वा देवान् शक्रमुवाच ह ।
ब्रह्मास्त्रं स्मर देवेन्द्र! यस्याबद्ध्यो न विद्यते
विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम् ॥१५७॥

संपूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने ।
धनुष्यजय्ये विनियोज्य बुद्धिमानभूत्ततो मन्त्रसमाधिमानसः ॥१५८॥

स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसन्ध्य तु ।
विकृष्य कर्णान्तमकुण्ठदीधितिम् मुमोच वीक्ष्याम्बरमार्गमुन्मुखः ॥१५९॥

अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्टत ।
प्रवेशमानेन मुखेन शुष्यता बलेन गात्रेण च सम्भ्रमाकुलः ॥१६०॥

ततस्तु तस्यास्त्रवराभिमन्त्रितः शरोऽर्द्धचन्द्रप्रतिमो महारणे ।
पुरन्दरस्यासनबन्धुताङ्गतो नवार्कबिम्बं वपुषा विडम्बयन् ॥१६१॥

किरीटकोटिस्फुटकान्तिसङ्कटं सुगन्धिनानाकुसुमाधिवासितम् ।
प्रकीर्णधूमज्वलनाभमूर्द्धजम् पपात जम्भस्य शिरः सकुण्डलम् ॥१६२॥

तस्मिन् विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः ।
ततस्ते भग्नसंकल्पाः प्रययुर्यत्र तारकः ॥१६३॥

तांस्तु त्रस्तान् समालोक्य श्रुत्वा रोषमगात्परम् ।
सजम्भदानवेन्द्रन्तु सुरैः रणमुखे हतम् ॥१६४॥

सावलेपं ससंरम्भं सगर्वं सपराक्रमम् ।
साविष्कारमनाकारं तारको भावमाविशत् ॥१६५॥

सावलेपं ससंरम्भं सगर्वं सपराक्रमम् ।
स कोपाद्दानवेन्द्राणां सुरै रणमुखे गतः ॥१६६॥

सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः ।
त्रैलोक्य ऋद्धिसंपन्नः सुविस्तृतमहाननः ॥१६७॥

रणायाभ्यपतत्तर्णं सैन्येन महता वृतः ।
जम्भास्त्रक्षतसर्वाङ्गं त्यक्तैरावतदन्तिनम् ॥१६८॥

सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा ।
तप्तहेमपरिष्कारं महारत्न समन्वितम् ॥१६९॥

चतुर्योजनविस्तीर्ण सिद्धसङ्घपरिष्कृतम् ।
गन्धर्वकिन्नरोद्गीतमप्सरो नृत्यसङ्कुलम् ॥१७०॥

सर्वायुधमसम्बाधं विचित्ररचनोज्वलम् ।
तं रथं देवराजस्य परिवार्य समन्ततः ॥१७१॥

दंशिता लोकपालास्तु तस्थुः सागरुडध्वजाः ।
ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ ॥१७२॥

ततोऽम्बुधय उद्भूतास्ततो नष्टा रविप्रभा ।
ततस्तमः समुद्भूतं नातोऽदृश्यन्त तारकाः ॥१७३॥

ततो जज्वलुरस्त्राणि ततोऽकम्पत वाहिनी ।
एकतस्तारको दैत्यः सुरसङ्घास्तु चैकतः ॥१७४॥

लोकावसादमेकत्र जगत्पालनमेकतः ।
चराचराणि भूतानि सुरासुरविभेदतः ॥१७५॥

तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव ।
यद्वस्तु किञ्चिल्लोकेषु त्रिषु सत्ता स्वरूपकम्
तत्त्वत्रादृश्यदखिलं खिलीभूतविभूतिकम् ॥१७६॥

अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्य्यपराक्रमौ च ।
सत्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन ॥१७७॥

अथाभिमुकमायान्तं नवभिर्नतपर्वभिः ।
बाणैरनलकल्पाग्रै र्विभिदुस्तारकं हृदि ॥१७८॥

स तानचिन्त्य दैत्येन्द्रः सुरबाणान् गतान् हृदि ।
नवभिर्नवभिर्बाणैः सुरान् विव्याध दानवः ॥१७९॥

जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः ।
ततश्छिन्नं शरव्रातं संग्रामे मुमुचुः सुराः ॥१८०॥

अनन्तरं च कान्तानामश्रुपातमिवानिशम् ।
तदप्राप्तं वियत्येव नाशयामास दानवः ॥१८१॥

शरैर्यथा कुचरितैः प्रख्यातं परमागतम् ।
सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम् ॥१८२॥

ततो निवार्य तद्बाणजालं सुरभुजेरितम् ।
बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः ॥१८३॥

चिच्छेद पुङ्खदेशेषु स्वकैः स्थाने च लाघवात् ।
बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः ॥१८४॥

कर्णान्तकृष्टैर्विमलैः सुवर्णरजतोज्जवलैः शास्त्रार्थैः छ
संशयप्राप्तानयथार्थान् वै विकल्पितैः ॥१८५॥

ततः शतेन बाणानां शक्रं विव्याध दानवः ।
नारायणं च सप्तत्या नवत्या च हुताशनम् ॥१८६॥

दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च ।
धनदञ्चैव सप्तत्या वरुणञ्च तथाष्टभिः ॥१८७॥

विंशत्या निर्ऋतिं दैत्यः पुनश्चाष्टाभिरैव च ।
विव्याध पुनरेकैकं दशभिर्दशभिः शरैः ॥१८८॥

तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः ।
गरुडं दशभिश्चैव स विव्याध पतत्रिभिः ॥१८९॥

पुनश्च दैत्यो देवानां तिलशो नतपर्वभिः ।
चकार वर्मजातानि चिच्छेद च धनूंषि तु ।
ततो विकवचा देवा विधानुष्काः शरैः कृताः ॥१९०॥

अथान्यानि चापानि तस्मिन् सरोषा रणे लोकपाला गृहीत्वा समन्तात् ।
शरैरक्षयैर्दानवेन्द्रं ततस्तु तदा दानवोऽमर्षसंरक्तनेत्रः ॥१९१॥

शरानग्निकल्पान् ववर्षामराणाम् ततो बाणमादाय कल्पानलाभम् ।
जघानोरसि क्षिप्रमिन्द्रं सुबाहुम् महेन्द्रोऽप्यकम्पद्रथोपस्थ एव ॥१९२॥

विलोक्यान्तरिक्षे सहस्रार्कबिम्बम् पुनर्दानवो विष्णुमुद्भूतवीर्य्यम् ।
शराभ्यां जघानांसमूले सलीलम् ततः केशवस्यापतच्छार्ङ्गमग्रे ॥१९३॥

ततस्तारकः प्रेतनाथं पृषत्कैर्वसुं तस्य सव्ये स्मरन् क्षुद्रभावम् ।
शरैरग्निकल्पैर्जलेशस्य कायम् रणे शोषयद् दुर्जयो दैत्यराजः ॥१९४॥

शरैरग्निकल्पैश्चकाराशु दैत्यस्तथा राक्षसान् भीतभीतान् दिशासु ।
पृषत्कैश्च रुक्षैविकारप्रयुक्तं चकारानिलं लीलयैवासुरेशः ॥१९५॥

क्षणाल्लुब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत्कैः ।
प्रचक्रुः प्रचण्डेन दैत्येन सार्द्धम् महासङ्गरं सङ्गरग्रासकल्पम् ॥१९६॥

अथानम्य चापं हरिस्तीक्ष्णबाणैर्हनत् सारथिं दैत्यराजस्य हृद्यम्॥
ध्वजं धूमकेतुः किरीटं महेन्द्रो धनेशो धनुः काञ्चनानद्धपृष्ठम् ।
यमो बाहुदण्डं रथाङ्गानि वायुर्निशाचारिणामीश्वरस्यापि वर्म्म ॥१९७॥

दृष्ट्वा तद्युद्धममरैरकृत्रिमपराक्रमम् ।
दैत्यनाथः कृतं संख्ये स्वबाहुयुगबान्धवः ॥१९८॥

मुमोच मुद्गरं भीमं सहस्राक्षाय सङ्गरे ।
दृष्ट्वा मुद्गरमायान्तमनिवार्यमथाम्बरे ॥१९९॥

रथादाप्लुत्य धरणीमगमत् पाकशासनः ।
मुद्गरोऽपि रथोपस्थे पपात परुषस्वनः ॥२००॥

स रथं चूर्णयामास न ममार च मातलिः ।
गृहीत्वा पट्टिशं दैत्यो जघानोरसि केशवम् ॥२०१॥

स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः ।
खड्गेन राक्षसेन्द्रश्च चकर्त्त नरवाहनम् ॥२०२॥

यमञ्च पातयामास भूमौ दैत्यो भुशुण्डिना ।
वह्निञ्च भिन्दिपालेन ताडयामास मूर्द्धनि ॥२०३॥

वायुञ्च दोर्भ्यामुत्क्षिप्य पातयामास भूतले ।
जलेशञ्च धनुष्कोट्या कुट्टयामासकोपतः ॥२०४॥

ततो देवनिकायानामेकैकं समरे ततः ।
जघानास्त्रैरसंख्येयैर्दैत्येन्द्रोऽमितविक्रमः ॥२०५॥

लब्धसंज्ञः क्षणाद्विष्णुश्चक्रं जग्राह दुर्द्धरम् ।
दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम् ॥२०६॥

मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः ।
पपात चक्रं दैत्यस्य हृदये भास्करद्युति ॥२०७॥

व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि ।
ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितञ्चिरम् ॥२०८॥

यस्मिन् जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत् ।
तारकस्य सुसंप्राप्य शरीरं शौर्यशालिनः ॥२०९॥

व्यशीर्यत विकीर्णार्चिः शतधा खण्डताङ्गतम् ।
विनाशमगमन्मुक्तं वायुना सुरवक्षसि ॥२१०॥

ज्वलितं ज्वलनाभासमङ्कुशं कुलिशं यथा ।
विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे ॥२११॥

रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम् ।
चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम् ॥२१२॥

महीधरं तमायान्तं दैत्यः स्मितमुखस्तदा ।
जग्राह वामहस्तेन शैलं कन्दुकलीलया ॥२१३॥

ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्च्छितः ।
दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः ॥२१४॥

सोऽसुरस्यापतन्मूर्ध्नि दैत्यस्तञ्च न बुद्धवान् ।
कल्पान्तदहनालोक्यामजय्यां ज्वलनस्ततः ॥२१५॥

शक्तिं चिक्षेप दुर्द्धर्षां दानवेन्द्राय संयुगे ।
न वा शिरीषमालेव सास्य वक्षस्यराजत ॥२१६॥

ततः खड्गं समाकृष्य कोशादाकाशनिर्मलम् ।
भासितासितदिग्भागं लोकपालोपि निर्ऋतिः ॥२१७॥

चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च ।
पतितश्चागमत् खड्गं स शीघ्रं शतखण्डताम् ॥२१८॥

जलेशस्तूग्रदुर्द्धर्षं विषपावक भैरवम् ।
मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषकः ॥२१९॥

सदैत्यभुजमायाद्य सर्पः सद्यो व्यपद्यत ।
स्फुटितक्रूरविक्रूर दशनाहिमहाहनुः ॥२२०॥

ततोऽश्विनौ समरुतः ससाध्याः समहोरगाः ।
यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः ॥२२१॥

जघ्नुर्दैत्येश्वरं सर्वे संभूय सुमहाबलाः ।
न चास्त्राण्यस्य सज्जन्त गात्रे वज्राचलोपमे ॥२२२॥

ततो रथादवप्लुत्य तारको दानवाधिपः ।
जघान कोटिशो देवान् करपार्ष्णिभिरेव च ॥२२३॥

हतशेषानि सैन्यानि देवानां विप्रदुद्रुवुः ।
दिशो भीतानि सन्त्यज्य रणोपकरणानि तु ॥२२४॥

लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान् रणे ।
सकेशवान् दृढैः पाशैः पशुमारः पशूनिव ॥२२५॥

स भूयो रथमास्थाय जगाम स्वकमालयम् ।
सिद्धगन्धर्वसंघुष्ट विपुलाचलमस्तकम् ॥२२६॥

स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः ।
त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत् स्वपुरं यथा ॥२२७॥

निषसादासने पद्मरागरत्नविनिर्मिते ।
ततः किन्नरगन्धर्व नागनारीविनोदितैः॥
क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः ॥२२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.8170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आईबाप

  • m pl -पें 
  • n pl  Parents. 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.