TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५४

मत्स्यपुराणम् - अध्यायः १५४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १५४
तारकपीडितैर्देवैः ब्रह्मस्तुतिकरणम् ।

सूत उवाच ।
प्रादुरासीत् प्रतीहारः शुभ्रनीलांशुकाम्वरः ।
स जानुभ्यां महीं गत्वा पिहितास्यः स्वपाणिना ॥१॥

उवाचानाविलं वाक्यमल्पाक्षरपरिस्फुटम् ।
दैत्येन्द्रमर्कवृन्दानां विभ्रन्तं भास्वरं वपुः ॥२॥

कालनेमिः सुरान् बद्धांश्चादायद्वारि तिष्ठति ।
सविज्ञापयति स्थेयं क्व वन्दिभिरिति प्रभो! ॥३॥

तन्निशम्याब्रवीद् दैत्यः प्रतीहारस्य भाषितम् ।
यथेष्टं स्थीयतामेभिर्गृहं मे भुवनत्रयम् ॥४॥

केवलं पाशबन्धेन विमुक्तैरविलम्बितम् ।
एवं कृते ततो देवा दूयमानेन चेतसा ॥५॥

जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम् ।
निवेदितास्ते शक्राद्याः शिरोभिर्धरणिङ्गताः॥
तुष्टुवुः स्पष्टवर्णार्थैर्वचोभिः कमलासनम् ॥६॥

देवा ऊचुः ।
त्वमोङ्कारोऽस्यङ्कुराय प्रसूतो विश्वस्यात्मानन्तभेदस्य पूर्वम् ।
सम्भूतस्यानन्तरं सत्वमूर्ते! संहारेच्छास्ते नमो रुद्रमूर्त्ते ! ॥७॥

व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना तस्मादण्डात् स्वाभिधानादचिन्त्यः  ।
द्यावापृथिव्योरूर्ध्वखण्डावराभ्याम् ह्यण्डादस्मात्त्वं विभागङ्करोषि ॥८॥

व्यक्तं मेरौ यज्जनायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतश्चकास्ति ।
व्यक्तं देवा जन्मनः शाश्वतस्य द्यौस्ते मूर्द्धा लोचने चन्द्रसूर्यौः ॥९॥

व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते पादौ भूमिर्नाभिरन्ध्रे समुद्राः ।
मायाकरः कारणस्त्वं प्रसिद्धो वेदैः शान्तो ज्योतिषा त्वं विमुक्तः ॥१०॥

वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा हृत्पद्मान्तः सन्निविष्टं पुराणम् ।
त्वामात्मानं लब्धयोगा गृणन्ति साङ्क्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः ॥११॥

तासां हेतुर्याष्टमी चापि गीता तस्यां तस्याङ्गीयसे वै त्वमन्तम् ।
दृष्ट्वा मूर्तिं स्थूलसूक्ष्माञ्चकार देवैर्भावाः कारणैः कैश्चिदुक्ताः ॥१२॥

सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तां तां वासनान्तेऽभ्युपेयुः ।
त्वत्सङ्कल्पेनान्तमायाप्तिगूढ़ः कालो मेघो ध्वस्तसंख्याविकल्पः ॥१३॥

भावाभावव्यक्तिसंहारहेतुस्त्वं सोऽनन्तस्तस्य कर्त्तासि चात्मन् ।
येऽन्ये सूक्ष्माः सन्ति तेभ्योऽभिगीतः स्थूला भावाश्चावृतारश्च तेषाम् ॥१४॥

तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो भूतं भव्यं चैवमुद्भूतिभाजाम् ।
भावे भावे भावितं त्वा युनक्ति युक्तं युक्तं व्यक्तिभावान्निरस्य ।
इत्थं देवो भक्तिभाजां शरण्यस्त्राता गोप्ता नो भवानन्तमूर्तिः ॥१५॥

विरिञ्चिममराः स्तुत्वा ब्रह्माणमविकारिणम् ।
तस्थुर्मनोभिरिष्टार्थ सम्प्राप्तिप्रार्थनास्ततः ॥१६॥

एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं गतः ।
अमरान्वरदेनाह वामहस्तेन निर्दिशन् ॥१७॥

ब्रह्मोवाच ।
नारी याऽभर्तृकाऽकस्मात् तनुस्ते त्यक्तभूषणा ।
न राजते तथा शक्र! म्लानवक्त्रशिरोरुहा ॥१८॥

हुताशन! विमुक्तोऽपि न धूमेन विराजसे ।
भस्मनेव प्रतिच्छन्नो दग्धदावश्चिरोषितः ॥१९॥

यमामयमयेनैव शरीरे त्वं विराजसे ।
दण्डस्यालम्बनेनेव ह्यकृच्छुस्तु पदे पदे ॥२०॥

रजनीचरनाथोऽपि किं भीत इव भाष्यते ।
राक्षसेन्द्र क्षताराते त्वमरातिक्षतो यथा ॥२१॥

तनुस्ते वरुणीच्छुष्का परीतस्येव वह्निना ।
विमुक्तरुधिरं पाशं फणिभिः प्रविलोकयन् ॥२२॥

वायो! भवान् विचेतस्कस्त्वं स्निग्धैरिव निर्जितः ।
किन्त्वं विभेषि धनद! संन्यस्तैव कुबेरताम् ॥२३॥

रुद्रास्त्रिशूलिनः सन्तो वदध्वं बहुशूलताम् ।
भवन्तः केन तत् क्षिप्तं तेजस्तु भवतामपि ॥२४॥

अकिञ्चित्करतां यातः करस्तेन विभासते ।
अलं नीलोत्पलाभेन चक्रेण मधुसूदन! ॥२५॥

किं त्वयानुदरालीन भुवनं प्रविलोकनम् ।
क्रियते स्तिमिताक्षेण भवता विश्वतोमुख! ॥२६॥

एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्ममूर्तिना ।
वाचां प्रधानभूतत्वान्मरुतं तमचोदयन् ॥२७॥

अथ विष्णुमुखैर्देवैः श्वसनः प्रतिबोधितः ।
चतुर्मुखं तदा प्राह चराचर गुरं विभुम् ॥२८॥

न तु वेत्सि चराचरभूतगतं भवभावमतीव महानुच्छ्रितः प्रभवः ।
पुनरर्थि-ववोविस्तृतश्रवणोपमकौतुकभावकृतः ॥२९॥

त्वमनन्त करोषि जगद्भवताम् स चराचरगर्भविभिन्नगुणाम् ।
अमरासुरमेतदशेषमपि त्वयि तुल्यमहो न कोऽसि यतः ।
पितुरस्ति तथापि मनो विकृतिः सगुणो विगुणो बलवानबलः ॥३०॥

भवतो वरलाभनिवृत्तभयः कुलिसाङ्गसुतो दितिजोऽतिबलः ।
सचराचरनिर्मथने किमिति कितवस्तु कृतो विहितो भवता ॥३१॥

किल देव त्वया स्थितये जगताम् महदद्भुतचित्रविचित्रगुणाः ।
अपि तुष्टिकृतः श्रुतकामफला विहिता द्विजनायक देवगणाः ॥३२॥

अपि नाकमभूत्किलयज्ञभुजाम् भवतो विनियोगवशात्सततम् ।
अपहृत्य विमानगणं स कृतो दितिजेन महामरुभूमिसमः ॥३३॥

कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया ।
सममिङ्गितभावविधिः स च गिरिर्गगनेन सदोच्छ्रयतां हि गतः ॥३४॥

अधिवासविहारविधावुचितो दितिजेन पविक्षतश्रृङ्गतटः ।
परिलुण्ठितरत्नगुहानिवहो बहुदैत्यसमाश्रयताङ्गमितः ॥३५॥

सुरराज! स तस्य भयेन गतं व्यदधादशरीर इतोऽपि वृथा ।
उपयोग्यतया विवृतं सुचिरं विमलद्युतिपूरितदिग्वदनम् ॥३६॥

भवतेव विनिर्मितमादियुगे सुरहेतिसमूहमनुत्थमिदम् ।
दितिजस्य शरीरमवाप्य गतं शतधा मतिबेदमिवाल्पमनाः ॥३७॥

आसारधूलि द्वस्ताङ्गा द्वारस्थाः स्थ कदर्थिनः ।
लब्धप्रवेशाः कृच्छेण वयं तस्यामरद्विषः ॥३८॥

सभायाममरा देव! निकृष्टेप्युपवेशिताः ।
वेत्रहस्तैरजल्पन्तस्ततोऽपहसितास्तु तैः ॥३९॥

महार्याः सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः ।
चाटुयुक्तमथो कर्म्म ह्यमरा बहुभाषत ॥४०॥

सभयं दैत्यसिंहस्य सशक्रस्य तु संश्थिताः ।
वदतेति च दैत्यस्य प्रेष्यैर्विहसिता बहु ॥४१

ऋतवो मूर्तिमन्तस्तमुपासन्ते ह्यहर्निशम् ।
कृतापराधसन्त्रासं न त्यजन्ति कदाचन ॥४२॥

तन्त्रीत्रयलयोपेतं सिद्धगन्धर्वकिन्नरैः ।
सुरागमुपधा नित्यं गीयते तस्य वेश्मसु ॥४३॥

हन्ताकृतोपकरणैर्मित्राणि गुरुलाघवैः ।
शरणागतसन्त्यागी त्यक्तसत्यपरिश्रयः ॥४४॥

इति निःशेषमथवा निःशेषं वै न शक्यते ।
तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम् ॥४५॥

इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टिते ।
सुरानुवाच भगवांस्ततः स्मितमुखाम्बुजः ॥४६॥

ब्रह्मोवाच ।
अबध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः ।
यस्य वध्यः स नाद्यापि जातस्त्रिभुवने पुमान् ॥४७॥

मया स वरदानेन छन्दयित्वा निवारितः ।
तपसः साम्प्रतं राजा त्रैलोक्यदहनात्मकात् ॥४८॥

स च वव्रे वधं दैत्यः शिशुतः सप्तवासरात् ।
स सप्तदिवसो बालः शङ्कराद्यो भविष्यति ॥४९॥

तारकस्य निहन्ता स भास्करा भो भविष्यति ।
साम्प्रतं चाप्यपत्नीकः शङ्करो भगवान् प्रभुः ॥५०॥

यच्चाह मुक्तवान् यस्या ह्युतानकरता सदा ।
उत्तानो वरदः पाणिरेष देव्याः सदैव तु ॥५१॥

हिमाचलस्य दुहिता सा तु देवी भविष्यति ।
तस्याः सकाशाद्यः शर्वस्त्वरण्यां पावको यथा ॥५२॥

जनयिष्यति तं प्राप्य तारकोऽभिभविष्यति ।
मयाप्युपायः सकृतो यथैवं हि भविष्यति ॥५३॥

शेषश्चाप्यस्य विभवो विनश्येत्तदनन्तरम् ।
स्तोककालं प्रतीक्षध्वन्निर्विशङ्केन चेतसा ॥५४॥

इत्युक्तास्त्रिदशास्तेन साक्षात् कमलजन्मना ।
जग्मुस्तं प्रणिपत्येशं यथायोगं दिवौकसः ॥५५॥

ततो गतेषु देवेषु ब्रह्मा लोकपितामहः ।
निशां सस्मार भगवान् स्वतनोः पूर्वसम्भवाम् ॥५६॥

ततो भगवती रात्रिरुपतस्थे पितामहम् ।
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम् ॥५७॥

ब्रह्मोवाच ।
विभावरि! महत्कार्यं विबुधानामुपस्थितम् ।
तत्कर्तव्यं त्वया देवि! श्रृणु कार्यस्य निश्चयम् ॥५८॥

तारको नाम दैत्येन्द्रः सुरकेतुरनिर्जितः ।
तस्याभावाय भगवान् जनयिष्यति चेश्वरः ॥५९॥

सुतं स भविता तस्य तारकस्यान्तकारकः ।
शङ्करस्याभवत् पत्नी सती दक्षसुता तु या ॥६०॥

सा मृता कुपिता देवी कस्मिंश्चित्कारणान्तरे ।
भविता हिमशैलस्य दुहिता लोकभावनी ॥६१॥

विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयम् ।
तपस्यन् हिमशैलस्य कन्दरे सिद्धसेविते ॥६२॥

प्रतीक्षमाणस्तज्जन्म कञ्चित्कालं निवत्स्यति ।
तयोः सुतप्त तपसोर्भविता यो महाबलः ॥६३॥

स भविष्यति दैत्यस्य तारकस्य विनाशकः ।
जातमात्रातु सा देवी स्वल्प संज्ञा च भामिनी ॥६४॥

विरहोत्कण्ठिता गाढं हरसङ्गमलालसा ।
तयोः सुतप्ततपसोः संयोगः स्याच्छुभानने ॥६५॥

ततस्ताभ्यान्तु जनितः स्वल्पो वाक्कलहोऽभवत् ।
ततोऽपि संशयो भूयस्तारकं प्रतिदृश्यते ॥६६॥

तयोः संयुक्तयोस्तस्मात् सुरतासक्तिकारणे ।
विघ्नस्त्वया विधातव्यो यथा ताभ्यां तथा श्रृणु ॥६७॥

गर्भस्थाने च तन्मातुः स्वेन रूपेण रञ्जय ।
ततो विहाय शर्वस्तां विश्रान्तो नर्म पूर्वकम् ॥६८॥

भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती ।
प्रयास्यति तपश्चर्तुं तत्तस्मात्तपसा पुनः ॥६९॥

जनयिष्यति यं शर्वादमितद्युतिमण्डितम् ।
स भविष्यति हन्ता वै सुरारीणामसंशयम् ॥७०॥

त्वयापि दानवा देवि! हन्तव्या लोकदुर्जयाः ।
यावच्च न सती देह संक्रान्तगुणसञ्चया ॥७१॥

तत् सङ्गमेन तावत्त्वं दैत्यान् हन्तुं न शक्ष्यसे ।
एवं कृते तपस्तप्त्वा सृष्टिसंहार कारिणी ॥७२॥

समाप्तनियमा देवी यदा चोमा भविष्यति ।
तदा स्वमेव तद्रूपं शैलजा प्रतिपत्स्यते ॥७३॥

तनुस्तवापि सहजा सैकानंशा भविष्यति ।
रूपांशेन तु संयुक्ता त्वमुमायां भविष्यसि ॥७४॥

एकानंशेति लोकस्त्वां वरदे! पूजयिष्यति ।
भेदैर्बहुविधाकारैः सर्वगा कामसाधिनी ॥७५॥

ओङ्कारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः ।
आक्रान्तिरूर्जिताकारा राजभिश्च महाभुजैः ॥७६॥

त्वं भूरिति विशां माता शूद्रैः शैवीति पूजिता ।
क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामिति ॥७७॥

त्वं महोपायसन्दोहा नीतिर्नयविसर्पिणाम् ।
परिच्छित्तिस्त्वमर्थानां त्वं मही प्राणिहृच्छया ॥७८॥

त्वं मुक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् ।
त्वञ्चकीर्तिमतां कीर्तिस्त्वं मूर्तिः सर्वदेहिनाम् ॥७९॥

रतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृष्टदर्शिनाम् ।
त्वं कान्तिः कृतभूषाणां त्वं शान्तिर्दुःखकर्म्मणाम् ॥८०॥

त्वं भ्रान्तिः सर्वबोधानां त्वं गतिः क्रतुयाजिनाम् ।
जलधीनां महावेला त्वञ्च लीला विलासिनाम् ॥८१॥

सम्भूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी ।
त्वं कालरात्रिर्निः शेष भुवनावलिनाशिनी ॥८२॥

प्रियकण्ठग्रहानन्द दायिनी त्वं विभावरी ।
इत्यनेकविधैर्देवि! रूपैर्लोके त्वमर्चिता ॥८३॥

ये त्त्वां स्तोष्यन्ति वरदे! पूजयिष्यन्ति वापि ये ।
ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः ॥८४॥

इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलिः ।
जगाम त्वरिता तूर्णं गृहं हिमगिरेः परम् ॥८५॥

तत्रासीनां महाहर्म्ये रत्नभित्ति समाश्रयाम् ।
ददर्श मेनामापाण्डुच्छ्रविवक्त्र सरोरुहाम् ॥८६॥

किञ्चिच्छ्याममुखोदग्र स्तनभारावनामिताम् ।
महौषधि गणाबद्ध मन्त्रराज निषेविताम् ॥८७॥

उद्वहत्कनकोन्नद्ध जीवरक्षामहोरगाम् ।
मणिदीपगणज्योतिर्महालोक प्रकाशिते ॥८८॥

प्रकीर्ण बहुसिद्धार्थे मनोजपरिवारके ।
शुचिन्यं शुकसच्छन्न भूशय्यास्तरणोज्वले ॥८९॥

धूपामोदमनोरम्ये सज्जसर्वोपयोगिके ।
ततः क्रमेण दिवसे गते दूरं विभावरी ॥९०॥

व्यजृम्भत सुखोदर्के ततो मेनामहागृहे ।
प्रसुप्तप्रायपुरुषे निद्रा भूतोपचारिके ॥९१॥

स्फुटालोके शशभृति भ्रान्ति रात्रि विहङ्गमे ।
रजनीचरभूतानां सङ्घैरावृतचत्वरे ॥९२॥

गाढकण्ठग्रहालग्न सुभगेष्टजने ततः ।
किञ्चिदाकुलतां प्राप्तो मेना नेत्राम्बुजद्वये ॥९३॥

आविवेश मुखो रात्रिः सुचिरस्फुटसङ्गमा ।
जन्मदाया जगन्मातुः क्रमेण जठरान्तरे ॥९४॥

आविवेशान्तरं जन्म मन्यमाना क्षपा तु वै ।
अरञ्जयच्छविन्देव्या गुहारण्ये विभावरी ॥९५॥

ततो जगत्पतिप्राण हेतुर्हिमगिरि प्रिया ।
ब्राह्मो मुहूर्ते सुभगे व्यसूयत गुहारणिम् ॥९६॥

तस्यान्तु जायमानायां जन्तवः स्थाणुजङ्गमाः ।
अभवन् सुखिनः सर्वे सर्वे लोकनिवासिनः ॥९७॥

नारकाणामपि तदा सुखं स्वर्गसमं महत् ।
अभवत् क्रूरसत्वानां चेतः शान्तं च देहिनाम् ॥९८॥

ज्योतिषामपि तेजस्त्वमभवत् सुरतोन्नता ।
वनाश्रिताश्चौषधयः स्वादुवन्ति फलानि च ॥९९॥

गन्धवन्ति च माल्यानि विमलञ्च नभोऽभवत् ।
मारुतश्चसुखस्पर्शो दिशाश्च सुमनोहराः ॥१००॥

तेन चोद्भूतफलित परिपाक गुणोज्वलाः ।
अभवत् पृथिवी देवी शालिमाला कुलापि च ॥१०१॥

तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम् ।
तस्मिन् गतानि साफल्यं काले निर्मलचेतसाम् ॥१०२॥

विस्मृतानि च शस्त्राणि प्रादुर्भावं प्रपेदिरे ।
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत् ॥१०३॥

अन्तरिक्षे सुराश्चासन् विमानेषु सहस्रशः ।
समहेन्द्रहरिब्रह्मवायुवह्निपुरोगमाः ॥१०४॥

पुष्पवृष्टिं प्रमुमुचुस्तस्मिंस्तु हिमभूधरे ।
जगुर्गन्धर्वमुख्याश्च ननृतु श्चाप्सरो गणाः ॥१०५॥

मेरु प्रभृतयश्चापि मूर्तिमन्तो महाबलाः ।
तस्मिन् महोत्सवे प्राप्तो दिव्य प्रभृत पाणयः ॥१०६॥

सरितः सागराश्चैव समाजग्मुश्च सर्वशः ।
हिमशैलोऽभवल्लोके तथा सर्वैश्चराचरैः ॥१०७॥

सेव्यश्चाप्यभिगम्यश्च सश्रेयां श्चाचलोत्तमः ।
अनुभूयोत्सवं देवा जग्मुः स्वानालयान् मुदा ॥१०८॥

देवगन्धर्वनागेन्द्र सैलशीलावनी गुणैः ।
हिमशैलसुता देवी स्वयं पूर्विकया ततः ॥१०९॥

क्रमेण वृद्धिमानीता लक्ष्मीं वानलसैर्बुधैः ।
क्रमेण रूपसौभाग्य प्रबोधैर्भुवनत्रयम् ॥११०॥

अजयद् भूषयच्चाति निःसाधारैर्नगात्मजा ।
एतस्मिन्नन्तरे शक्रो नारदं देवसम्मतम् ॥१११॥

देवर्षिमथ सस्मार कार्य्यसाधनसत्वरम् ।
स्मृति शक्रस्य विज्ञाय जातान्तु भगवांस्तदा ॥११२॥

आजगाम मुदा युक्तो महेन्द्रस्य निवेशनम् ।
तं सुदृष्ट्वा सहस्राक्षः समुत्थाय महासनात् ॥११३॥

यतार्हेण तु पाद्येन पूजयामास वासवः ।
शक्रप्रणीतात्तां पूजां प्रतिगृह्य यथाविधि ॥११४॥

नारदः कुशलं देवमपृच्छत् पाकशासनम् ।
पृष्टे च कुशले सक्तः प्रोवाच वचनं प्रभुः ॥११५॥

इन्द्र उवाच ।
कुशलस्याङ्कुरे तावत् सम्भूते भुवनत्रये ।
तत्फलोद्भवसम्पत्तौ त्वं भवा तन्द्रितो मुने! ॥११६॥

वेत्सि चैतत् समस्तं त्वं तथापि परिचोदकः ।
निर्वृत्तिं परमां याति निवेद्यार्थं सुहृज्जने ॥११७॥

तद्यथा शैलजा देवी योगं यायात् पिनाकिना ।
शीघ्रं तदुद्यमः सर्वैरस्मत्पक्षैर्विधीयताम् ॥११८॥

अवगम्यार्थमखिलन्तत आमन्त्र्य नारदः ।
शक्रं जगाम भगवान् हिमशैल निवेशनम् ॥११९॥

तत्र द्वारे स विप्रेन्द्रश्चित्रवेत्रलताकुले ।
वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः ॥१२०॥

सह प्रविश्य भवनं भुवो भूषणताङ्गतम् ।
निवेदिते स्वयं हैमे हिमशैलेन विस्तृते ॥१२१॥

महासने मुनिवरो निषसादानुलद्युतिः ।
यथार्हं चार्घ्यपाद्यञ्च शैलस्तस्मै न्यवेदयत् ॥१२२॥

मुनिस्तु प्रतिजग्राह तमर्घ्यं विधिवत्तदा ।
गृहीतार्घ्यं मुनिवरमपृच्छच्छ्लक्ष्णया गिरा ॥१२३॥

कुशलं तपसः शैलः शनैः स्फुल्लाननाम्बुजः ।
मुनिरप्यद्रिराजानमपृच्छत् कुशलं तदा ॥१२४॥

नारद उवाच ।
अहोऽवतारिताः सर्वे सन्निवेशे महागिरे! ।
पृथुत्वं मनसा तुल्यं कन्दराणां तथाचल! ॥१२५॥

गुरुत्वन्ते गुणौघानां स्थावरादतिरिच्यते ।
प्रसन्नता च तोयस्य मनसोऽप्यधिकाचले ॥१२६॥

न लक्षयामः शैलेन्द्र! शिष्यते कन्दरोदरात् ।
न च लक्ष्मीस्तथा स्वर्गे कुत्राधिक तयास्थिता ॥१२७॥

नानातपोभिर्मुनिभिः ज्वलनार्कसमप्रभैः ।
पावनैः पावितो नित्यं त्वत्कन्दरसमाश्रितैः ॥१२८॥

अवमत्य विमानानि स्वर्गवासविरागिणः ।
पितुर्गृह इवासन्ना देवगन्धर्वकिन्नराः ॥१२९॥

अहो! धन्योऽसि शैलेन्द्र! यस्य ते कन्दरं हरः ।
अध्यास्ते लोकनाथोऽपि समाधानपरायणः ॥१३०॥

इत्युक्तवति देवर्षे नारदे सादरङ्गिरा ।
हिमशैलस्य महिषी मेना मुनिदिदृक्षया ॥१३१॥

अनुयाता दुहित्रा तु स्वल्पालि परिचारिका ।
लज्जा प्रणयनम्राङ्गी प्रविवेश निवेशनम् ॥१३२॥

तत्र स्थितो मुनिवरः शैलेन सहितो वशी ।
दृष्टा तु तेजसो राशिं मुनिं सैलप्रिया तदा ॥१३३॥

ववन्दे गूढवदना पाणिपद्म कृताञ्जलिः ।
तां विलोक्य महाभागो महर्षिरमितद्युतिः ॥१३४॥

आशीर्भिरमृतोद्गार रूपाभिस्तां व्यवर्धय ।
ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका ॥१३५॥

उदैक्षन्नारदं देवी मुनिमद्भुत रूपिणम् ।
एहि वत्सेति चाप्युक्ता ऋषिणा स्निग्धया गिरा ॥१३६॥

कण्ठे गृहीत्वा पितरमुत्सङ्गे समुपाविशत् ।
उवाच माता तां देवीमभिवन्दय पुत्रिके! ॥१३७॥

भगवन्तं ततो धन्यं पतिमाप्स्यसि सम्मतम् ।
इत्युक्त्वातु ततो मात्रा वस्त्रान्तपिहितानना ॥१३८॥

किञ्चित् कम्पितमूर्द्धा तु वाक्यं नोवाच किञ्चन ।
ततः पुनरुवाचेदं वाक्यं माता सुतान्तदा ॥१३९॥

वत्से! वन्दय देवर्षिं ततो दास्यामि ते शुभम् ।
रत्नक्रीड़नकं रम्यं स्थापितं यच्चिरं मया ॥१४०॥

इत्युक्त्वा तु ततो वेगादुद्धृत्य चरणौ तदा ।
ववन्दे मूर्ध्नि सन्धाय करपङ्कज कुड्मलम् ॥१४१॥

कृते तु वन्दने तस्या माता सखिमुखेन तु ।
चोदयामास शनकैस्तस्याः सौभाग्य शंसिनाम् ॥१४१॥

शरीर लक्षणानान्तु विज्ञानाय तु कौतुकात् ।
स्त्री स्वभावाद्यद्दुहितुश्चिन्तां हृदि समुद्वहन् ॥१४२॥

ज्ञात्वा तदिङ्गितं शैलो महिष्या हृदयेन तु ।
अनुद्गीर्णोक्षतिर्मेने रम्यमेतदुपस्थितम् ॥१४३॥

चोदितः शैलमहिषी संख्या मुनिवरस्तदा ।
स्मिताननो महाभागो वाक्यं प्रोवाच नारदः ॥१४४॥

न जातोऽस्याः पतिर्भद्रे! लक्षणैश्च विवर्जिता ।
उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः ॥१४५॥

स्वच्छायया भविष्येयं किमन्यद् बहु भाष्यते ।
श्रुत्वैतत्सम्भ्रमाविष्टो ध्वस्तधैर्यो महाबलः ॥१४६॥

नारदं प्रत्युवाचाथ साश्रुकण्ठो महागिरिः ।
संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः ॥१४७॥

सृष्ट्यां चावश्यभाविन्यां केनाप्यतिशयात्मना ।
कर्त्रा प्रणीता मर्य्यादा स्थिता संसारिणामियम् ॥१४८॥

यो जायते हियद्वीजो जनितुः सह्यसार्थकः ।
जनिता चापि जातस्य न कश्चिदिति यत्स्फुटम् ॥१४९॥

स्वकर्मणैव जायन्ते विविधा भूतजातयः ।
अण्डजो ह्यण्डजाज्जातः पुनर्जायेन मानवः ॥१५०॥

मानुषाच्च सरीसृप्यां मनुष्यत्वेन जायते ।
तत्रापि जातौ श्रेष्ठायां धर्म्मस्योत्कर्षणेन तु ॥१५१॥

क्रमेणाश्रमसंप्राप्तिः बह्मचारिव्रतादनु ।
तस्य कर्तुर्नियोगेन संसारो येन वर्द्धितः ॥१५२॥

अपुत्रजन्मिनः शेषाः प्राणिनः समवस्थिताः ।
मनुजास्तत्र जायन्ते यतो न गृहधर्मिणः ॥१५३॥

संसारस्य कुतो वृद्धिः सर्वेस्युर्य्यदतिग्रहाः ।
अतः कर्त्रा तु शास्त्रेषु सुतलाभः प्रशंसितः ॥१५४॥

प्राणिनां मोहनार्थाय नरकत्राणसंश्रयात् ।
स्त्रिया विरहिता सृष्टिर्जन्तूनां नोपपद्यते ॥१५५॥

स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभाषिणी ।
शास्त्रालोचन सामर्थ्यामुज्झितं तासु वेधसा ॥१५६॥

शास्त्रेषूक्तमसन्दिग्धं बहुवारं महाफलम् ।
दशपुत्रसमा कन्या या नस्याच्छील वर्जिता ॥१५७॥

वाक्यमेतत् फलभ्रष्टं पुंसि ग्लानिकरम्परम् ।
कन्या हि कृपणाऽशोच्या पितुर्दुःख विवर्द्धिनी ॥१५८॥

यापि स्यात् पूर्णसर्वाढ्या पतिपुत्रधनादिभिः ।
किंपुनर्दुर्भगा हीना पतिपुत्र धनादिभिः ॥१५९॥

त्वं चोक्तवान् सुतायामे शरीरे दोषसंग्रहम् ।
अहो! मुह्यामि शुष्यामि ग्लामि सीदामि नारद! ॥१६०॥

अयुक्तमथ वक्तव्यमप्राप्यमपि साम्प्रतम् ।
अनुग्रहेण मे च्छिन्धि दुःखं कन्याश्रयं मुने! ॥१६१॥

परिच्छिन्नेऽप्यसन्दिग्धे मनः परिभवाश्रयम् ।
तृष्णा मुष्णाति निष्णाता फल लोभाश्रया शुभा ॥१६२॥

स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम् ।
इहामुत्रसुखायोक्तं सत्पति प्राप्तिसंज्ञितम् ॥१६३॥

दुर्लभः सत्पतिःस्त्रीणां विगुणोऽपि पतिः किल ।
न प्राप्यते विना पुण्यैः पतिर्नार्या कदाचन ॥१६४॥

यतो निःसाधनो धर्म्मः परिमाणोज्झिता रतिः ।
धनं जीवितपर्याप्तं पतौ नार्याः प्रतिष्ठितम् ॥१६५॥

निर्धनो दुर्भगो मूर्खः सर्वलक्षणवर्जितः ।
दैवतं परमं नार्याः पतिरुक्तः सदैव हि ॥१६६॥

त्वया चोक्तं हि देवर्षे! न जातोऽस्याः पतिः किल ।
एतद्दौर्भाग्यमतुलमसंख्यं गुरु दुःसहम् ॥१६७॥

चराचरे भूतसर्गे यदद्यापि च नो मुने ।
न स जात इति ब्रूषे तेन मे व्याकुलं मनः ॥१६८॥

मनुष्यदेवजातीनां शुभाशुभनिवेदकम् ।
लक्षणं हस्तपादादौ विहितैर्लक्षणैः किल ॥१६९॥

सेयमुत्तानहस्तेति त्वयोक्ता मुनिपुङ्गव! ।
उत्तानहस्तता प्रोक्ता यावतामेव नित्यदा ॥१७०॥

शुभोदयानां धन्यानां न कदाचित् प्रयच्छताम् ।
स्वच्छायया स्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ ॥१७१॥

तत्रापि श्रेयतां ह्याशा मुने! तु प्रतिभाति नः ।
शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः ॥१७२॥

सौभाग्यधनपुत्रायुः पतिलाभानु शंसनम् ।
तैश्च सर्वैर्विहीनेयं त्वमात्थ मुनिपुङ्गव ॥१७३॥

त्वं मे सर्वं विजानासि सत्यवागसि चाप्यतः ।
मुह्यामि मुनिशार्दूल! हृदयं दीर्यतीव मे ॥१७४॥

इत्युक्त्वा विरतः शैलो महादुःख विचारणात् ।
श्रुत्वैतदखिलं तस्माच्छैलराज मुकाम्बुजात् ॥१७५॥

स्मितपूर्वमुवाचेदं नारदो देवचोदितः ।
हर्षस्थानेऽपि महति त्वया दुःखं निरूप्यते ॥१७६॥

अपरिच्छिन्नवाक्यार्थे मोहं यासि महागिरे! ।
इमां श्रृणु गिरं मत्तो रहस्यापरिनिष्ठताम् ॥१७७॥

समाहितो महाशैल! मयोक्तस्य विचारणे ।
न जातोऽस्याः पतिर्देव्या यन्मयोक्तं महाबल! ॥१७८॥

न स जातो महादेव भूतभव्य भवोद्भवः ।
शरण्यः शाश्वत शास्ता शङ्करः परमेश्वरः ॥१७९॥

ब्रह्मविष्णिवन्द्रमुनयो जन्ममृत्युजरार्दिताः ।
तस्यैते परमेशस्य सर्वे क्रीड़नका गिरे! ॥१८०॥

आस्ते ब्रह्मा तदिच्छातः संभूतो भुवनप्रभुः ।
विष्णुर्युगे युगे जातो नानाजातिर्महातनुः ॥१८१॥

मन्यसे मायया जातं विष्णुञ्चापि युगे युगे ।
आत्मनो न विनाशोऽस्ति स्थावरान्तेऽपि भूधर! ॥१८२॥

संसारे जायमानस्य म्रियमाणस्य देहिनः ।
नश्यते देह एवात्र नात्मनो नाश उच्यते ॥१८३॥

ब्रह्मादिस्थावरान्तोऽयं संसारो यः प्रकीर्त्तितः ।
स जन्ममृत्युदुःखार्त्तो ह्यवशः परिवर्त्तते ॥१८४॥

महादेवोऽचलः स्थाणर्न जातो जनकोऽजरः ।
भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः ॥१८५॥

यदुक्तञ्च मया देवी लक्षणैर्वर्जिता तव ।
श्रृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम् ॥१८६॥

लक्षणं दैविको ह्यङ्कः शरीरावयवाश्रयः ।
सर्वायुर्द्धनसौभाग्य परिमाण प्रकाशकः ॥१८७॥

अनन्तस्याप्रमेयस्य सौभाग्यस्यास्य भूधर! ।
नैवाङ्को लक्षणाकारः शरीरे संविधीयते ॥१८८॥

अतोऽस्या लक्षणं गात्रे शैल! नास्ति महामते! ।
यताहमुक्तवानस्याह्युत्तानकरतां सदा ॥१८९॥

उत्तानो वरदः पाणिरेष देव्याः सदैव तु ।
सुरासुरमुनिव्रात वरदेयं भविष्यति ॥१९०॥

यथा प्रोक्तं तदा पादौ स्वच्छाया व्यभिचारिणौ ।
अस्याः श्रृणु ममात्रापि वाग्युक्तिं शैलसत्तम! ॥१९१॥

चरणौ पद्मसङ्काशावस्याः स्वच्छनखोज्वलौ ।
सुरासुराणां नमतां किरीट मणिकान्तिभिः॥१९२॥

विचित्रवर्णैर्भासन्तौ स्वच्छाया प्रतिबिम्बितौ ।
भार्या जगद्गुरोर्ह्येषा वृषाङ्कस्य महीधर! ॥१९३॥

जननी लोकधर्म्मस्य सम्भूता भूतभावनी ।
शिवेयं पावनायैव त्वत्क्षेत्रे पावकद्युतिः ॥१९४॥

तद्यथा शीग्रमेवैषा योगं यायात् पिनाकिना ।
तथा विधेयं विधिवत्त्वया शैलेन्द्रसत्तम! ॥१९५॥

अत्यन्तं हि महत्कार्यं देवानां हिमभूधर! ।
सूत उवाच ।
एवं श्रुत्वा तु शैलेन्द्रो नारदात् सर्वमेव हि ॥१९६॥

आत्मानं स पुनर्जातं मेने मेनापतिस्तदा ।
नमस्कृत्य वृषाङ्काय तदा देवाय धीमते ॥१९७॥

उवाच सोऽपि संहृष्टो नारदन्तु हिमाचलः ।
दुस्तरान्नरकात् घोरादुद्धृतोऽस्मि त्वया मुने! ॥१९८॥

पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः ।
हिमाचलोऽस्मि विक्यातस्त्वया मुनिवराधुना ॥१९९॥

हिमाचले चलगुणां प्रापितोऽस्मि समुन्नतिम् ।
आनन्ददिवसाहारि हृदयं मेऽधुना मुने! ॥२००॥

नाव्यवस्यति कृत्यानां प्रविभाग विचारणम् ।
यदि वाचामधीशः स्यान्त्वद्गुणानां विचारणे ॥२०१॥

भवद्विधानां नियतममोघं दर्शनं मुने! ।
तवास्मान्प्रति चापल्यं व्यक्तं मम महामुने! ॥२०२॥

भवद्भिरेव कृत्योऽहं निवासायात्मरूपिणम् ।
मुनीनां देवतानांच स्वयं कर्तापि कल्मषम् ॥२०३॥

तथापि वस्तुन्येकस्मिन्नाज्ञा मे सम्प्रदीयताम् ।
इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरे ॥२०४॥

तथाच नारदो वाक्यं कृतं सर्वमिति प्रभो! ।
सुरकार्ये य एवार्थस्तवापि सुमहत्तरः ॥२०५॥

इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं प्रति ।
स गत्वा शक्रभवनममरं सन्ददर्श ह ॥२०६॥

ततोऽभिरूपे स मुनिरुपविष्टो महासने ।
पृष्टः शक्रेण प्रोवाच हिमजा संश्रयां कथाम् ॥२०७॥

नारद उवाच ।
समूह्य यत्तु कर्तव्यं तन्मया कृतमेव हि ।
किन्तु पञ्चशरस्यैव समयोऽयमुपस्थितः ॥२०८॥

इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना ।
चूताङ्कुरास्त्रं सस्मार भगवान् पाकशासनः ॥२०९॥

संस्मृतस्तु तदा क्षिप्रं सहस्राक्षेप धीमता ।
उपतस्थे रतियुतः सविलासो झषध्वजः ॥२१०॥

प्रादुर्भूतन्तु तं दृष्ट्वा शक्रः प्रोवाच सादरम् ।
उपदेशेन बहुना किन्त्वां प्रतिवदे प्रियम् ॥२११॥

मनोभवासि तेन त्वं वेत्सि भूतमनोगतम् ।
तद्यथार्थकमेवत्त्वं कुरु नाकसदाम्प्रियम् ॥२१२॥

शङ्करं योजय क्षिप्रं गिरिपुत्र्या मनो भव! ।
संयुतो मधुना चैव ऋतुराजेन दुर्जय! ॥२१३॥

इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये ।
काम उवाच ।
अनया देवसामग्य्रा मुनिदानवभीमया ॥२१४॥

दुःसाध्यः शङ्करो देवः किन्न वेत्सि जगत्प्रभो! ।
तस्य देवस्य वेत्थ त्वं कारणन्तु यदव्ययम् ॥२१५॥

प्रायः प्रसादः कोपोऽपि सर्वो हि महतां महान् ।
सर्वोपभोगसारा हि सुन्दर्यः स्वर्गसम्भवाः ॥२१६॥

अध्याश्रितञ्च यत्सौख्यं भवता नष्टचेष्टितम् ।
प्रमादादथ विभ्रश्येदीशम्प्रति विचिन्त्यताम् ॥२१७॥

प्रागेव चेह दृश्यन्ते भूतानां कार्यसम्भवाः ।
विशेषं काङ्क्षतां शक्र! सामान्याद् भ्रंशनं फलम् ॥२१८॥

श्रुत्वैतद्वचनं शक्रस्तमुवाचामरैर्युतः ।
शक्र उवाच ।
वयं प्रमाणास्ते ह्यत्र रतिकान्त! न संशयः ॥२१९॥

सन्देशेन विना शक्तिरपकारस्य नेष्यते ।
सस्यचिच्च क्वचिद्दृष्टं समर्थ्यं न तु सर्वतः ॥२२०॥

इत्युक्तः प्रययौ कामः सखायं मधुमाक्षितः ।
रतियुक्तो जगामाशु प्रस्थन्तु हिमभूभृतः ॥२२१॥

स तु तत्राकरोच्चिन्तां कार्यस्योपायपूर्विकाम् ।
महात्मा ये हि निष्कम्पा मनस्तेषां सुदुर्जयम् ॥२२२॥

तदादावेव संक्षोभ्य नियतं सुजयो भवेत् ।
संसिद्धिं प्राप्नुयुश्चैव पूर्वे संशोद्यमानसम् ॥२२३॥

कथञ्च विविधैर्भावैः द्वेषानुगमनं विना ।
क्रोधः क्रूरतरासङ्गाद्रावणेर्ष्यां महासखीम् ॥२२४॥

चापल्यमूर्ध्नि विध्वस्त धैर्याधारां महाबलाम् ।
तामस्य विनियोक्ष्यामि मनसो विकृतिम्पराम् ॥२२५॥

पिधाय धैर्यद्वाराणि सन्तोषमपकृष्य च ।
अवगन्तुं हि मां तत्र न कश्चिदतिपण्डितः ॥२२६॥

विकल्प मात्रावस्थाने वैरूप्यं मनसो भवेत् ।
पश्चान्मूलक्रियारम्भ गम्भीरावर्तदुस्तरः ॥२२७॥

हरिष्यामि हरस्याहं तपस्तस्य स्थिरात्मनः ।
इन्द्रियग्राममावृत्य रम्यसाधनसंविधिः ॥२२८॥

चिन्तयित्वेति मदनो भूतभर्तुस्तदाश्रमम् ।
जगाम जगतीसारं सरलद्रुम वेदिकम् ॥२२९॥

शान्तसत्वसमाकीर्णमचल प्राणसङ्कुलम् ।
नानापुष्पलताजालं गगनस्थ गणेश्वरम् ॥२३०॥

निर्व्यग्रवृषभाध्युष्ट नीलसाद्वलसानुकम् ।
तत्रापश्यत् त्रिनेत्रस्य रम्यं कञ्चिद्द्वितीयकम् ॥२३१॥

वीरकं लोकवीरेशमीशान सदृशद्युतिम् ।
यक्षकुङ्कुमकिञ्जल्क पुञ्जपिङ्ग जटासटम् ॥२३२॥

वेत्रपाणिनमव्यग्रमुग्रभोगीन्द्र भूषणम् ।
ततो निमीलितोन्निद्र पद्म पत्राभलोचनम् ॥२३३॥

प्रेक्षमाणमृजुस्थान स्थितनासाग्र लोचनम् ।
श्रवस्तरस सिंहेन्द्र चर्मलम्बोत्तरीयकम् ॥२३४॥

श्रवणा हि फलन् मुक्त निःश्वासानलपिङ्गलम् ।
प्रेङ्खत्कपालपर्य्यन्त तुम्बिलं विजटाचयम् ॥२३५॥

कृतवासुकिपर्यङ्क नाभिमूलनिवेशितम् ।
ब्रह्माञ्जलिस्थपुच्छाग्र निबद्धोरगभूषणम् ॥२३६॥

ददर्श शङ्करं कामः क्रम प्राप्तान्तिकं शनैः ।
ततो भ्रमरझेङ्कारमालम्बि-द्रुमसानुकम् ॥२३७॥

प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः ।
शङ्करस्तमथाकर्ण्य मधुरं मदनाश्रयम् ॥२३८॥

सस्मार दक्षदुहितान्दयितां रक्तमानसः ।
ततः सा तस्य शनकैस्तिरोभूयाति निर्मला ॥२३९॥

समाधिभावना तस्थौ लक्ष्य प्रत्यक्ष रूपिणी ।
ततस्तन्मयतां यातः प्रत्यूह पिहिताशयः ॥२४०॥

वशित्वेन बुबोधेशो विकृतिं मदनात्मिकम् ।
ईषत्कोपसमाविष्टो धैर्यमालम्ब्य धूर्ज्जटिः ॥२४१॥

निरासे मदनस्थित्या योगमाया समावृतः ।
तया माययाविष्टो जज्वाल मदनस्ततः ॥२४२॥

इच्छा शरीरे दुर्जेयो रोष दोष महाश्रयः ।
हृदयान्निर्गतः सोऽथ वासनाव्यसनात्मकः ॥२४३॥

बहिस्थलं समालम्ब्य ह्युपतस्थौ झषध्वजः ।
अनुयातोऽथ हृद्येन मित्रेण मधुना सह ॥२४४॥

सहकारतरौ दृष्ट्वा मृदुमारुत निर्धुतम् ।
स्तवकं मदनोरम्यं हर वक्षसि सत्वरम् ॥२४५॥

मुमोच मोहनं नाम मार्गणं मकरध्वजः ।
शिवस्य हृदये शुद्धे नाशशाली महाशरः ॥२४६॥

पपात परुषप्रांशुः पुष्पबाणो विमोहनः ।
ततः प्रभुत्वाद् भावानां संक्षोभं समपद्यत ॥२४७॥

बभूव भूधरौपम्य धैर्योऽपि मदनोन्मुकः ।
ततः प्रभुत्वाद् भावानां संक्षोभं समपद्यत ॥२४८॥

बाह्यं बहु समासाद्य प्रत्यूहप्रसवात्मकम् ।
ततः कोपानलोद्भूत घोरहुङ्कार भीषणे ॥२४९॥

बभूव वदने नेत्रं तृतीयमनलाकुलम् ।
रुद्रस्य रौद्रवपुषो जगत्संहार भैरवम् ॥२५०॥

तदन्तिकस्थे मदने व्यस्फारयत धूर्जटिः ।
तं नेत्रविस्फुलिङ्गेन क्रोशतान्नाकवासिनाम् ॥२५१॥

गमितो भस्मसात्तूर्णं कन्दर्पः कामिदर्पकः ।
स तु तं भस्मसात् कृत्वा हरनेत्रोद्भवोऽनलः ॥२५२॥

व्यजृम्भत जगद् दग्धुं ज्वालाहुङ्कार घस्मरः ।
ततो भवो जगद्धेतोः व्यभजज्जातवेदसम् ॥२५३॥

सहकारे मधौ चन्द्र सुमनः सुपरेष्वपि ।
भृङ्गेषु कोकिलास्येषु विभागेन स्मरानलम् ॥२५४॥

स बाह्यान्तरविद्धेन हरेण स्मरमार्गणः ।
रागस्नेहसमिद्धान्तर्धावन् तीव्र हुताशनः ॥२५५॥

विभक्तलोकसंक्षोभ करोदुर्वार जृम्भितः ।
संप्राप्य स्नेहसंपृक्तं कामिनां हृदयं किला ॥२५६॥

ज्वलत्यहर्निशं भीमो दुश्चिकित्स्य-मुखात्मकः ।
विलोक्य हरहुङ्कार ज्वाला भस्मकृतं स्मरम् ॥२५७॥

विललाप रतिः क्रूरं बन्धुना मधुना सह ।
ततो विलप्य बहुशो मधुना परिसान्त्विता ॥२५८॥

जगाम शरणं देवमिन्दुमौलिं त्रिलोचनम् ।
भृङ्गानुयातां संगृह्य पुष्पितां सहकारजाम् ॥२५९॥

लतां पवित्रकस्थाने पाणौ परभृतां सखीम् ।
निर्बध्य तु जटाजूटं कुटिलैरलकै रतिः ॥२६०॥

उद्धूल्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना ।
जानुभ्यामवनिङ्गत्वा प्रोवाचेन्दुविभूषणम् ॥२६१॥

रतिरुवाच ।
नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय ।
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥२६२॥

नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तमनोभवाय ।
नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय ॥२६३॥

नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय ।
नमोऽस्तु कालाय नमः कलाय नमोस्तु ते ज्ञानवरप्रदाय ॥२६४॥

नमोऽस्तु ते कालकलातिगाय नमो निसर्गामलभूषणाय ।
नमोऽस्त्वमेयान्धकमर्दकाय नमः शरण्याय नमोऽगुणाय ॥२६५॥

नमोऽस्तु ते भोमगणानुगाय नमोऽस्तु नानाभुवनादिकर्त्रे ।
नमोऽस्तु नानाजगतां विधात्रे नमोऽस्तु ते चित्रफलप्रयोक्त्रे ॥२६६॥

सर्वावसाने ह्यविनाशनेत्रे नमोऽस्तु चित्राध्वर भागभोक्त्रे ।
नमोऽस्तु भक्ताभिमतप्रदात्रे नमः सदा ते भवसङ्गहर्त्रे ॥२६७॥

अनन्तरूपाय सदैव तुभ्यमसह्यकोपाय नमोऽस्तु तुभ्यम् ।
शशाङ्कचिह्नाय सदैव तुभ्यममेयमानाय नमः स्तुताय ॥२६८॥

वृषेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषधाय ।
नमोऽस्तु भक्त्याभिमतप्रदाय नमोऽस्तु सर्वार्ति हराय तुभ्यम् ॥२६९॥

चराचराचारविचारवर्यमाचार्यमुत्प्रेक्षितभूतसर्गम् ।
त्वामिन्दुमौलिं शरणं प्रपन्ना प्रिया प्रमेयं महतां महेशम् ॥२७०॥

प्रयच्छ मे कामयशः समृद्धि पुनः प्रभो! जीवतु कामदेवः ।
प्रियं विना त्वा प्रियजीवितेषु त्वत्तोऽपरः को भुवनेष्विहास्ति ॥२७१॥

प्रभुः प्रियायाः प्रसवः प्रियाणां प्रणीत पर्याय परापरार्थः ।
त्वमेवमेको भुवनस्य नाथो दयालुरुन्मुलित भक्तभीतिः ॥२७२॥

इत्थं स्तुतः शङ्कर ईड्य ईशो वृषाकपिर्मन्मथ कान्तया तु ।
तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य ॥२७३॥

शङ्कर उवाच ।
भवितेति च कामोऽयं कालात् कान्तोऽचिरादपि ।
अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति ॥२७४व

इत्युक्त्वा शिरसा वन्द्य गिरिशङ्काम वल्लभा ।
जगामोपवनं रम्यं रतिस्तु हिमभूभृतः ॥२७५॥

रुरोद चापि बहुशो दीना रम्ये स्थले तु सा ।
मरणव्यवसायात्तु निवृत्ता सा हराज्ञया ॥२७६॥

अथ नारदवाक्येन चोदितो हिमभूधरः ।
कृताभरणसंस्कारां कृतकौतुकमङ्गलाम् ॥२७७॥

स्वर्ग पुष्पकृता पीडां शुभ्रचीनां शुकाम्बराम् ।
सखीभ्यां संयुतां शैलो गृहीत्वा स्वसुतान्ततः ॥२७८॥

जगाम शुभयोगेन तदा संपूर्णमानसः ।
सकाननान्युपाक्रम्य वनान्युपवनानि च ॥२७९॥

ददर्श रुदतीं नारीमप्रतर्क्य महौजसम् ।
रूपेणासदृशीं लोके रम्येषु वनसानुषु ॥२८०॥

कौतुकेन परामृश्य तां दृष्ट्वा रुदतीं गिरिः ।
उपसर्प्य ततस्तस्या निकटे सोऽभ्यगच्छत ॥२८१॥

हिमवानुवाच ।
कासि कस्यासि कल्याणि! किमर्थञ्चापि रोदिषि ।
नैतदल्पं महासत्वे कारणं लोकसुन्दरि! ॥२८२॥

सा तस्य वचनं श्रुत्वा उवाच मधुना सह ।
रुदती शोकजननं श्वसती दैत्यवर्द्धनम् ॥२८३॥

रतिरुवाच ।
कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत! ।
गिरावस्मिन्हाभाग! गिरिशस्तपसि स्थितः ॥२८४॥

तेन प्रत्यूहदृष्टेन विस्फार्यालोक्य लोचनम् ।
दग्धोऽसौ झषकेतुस्तु ममकान्तोऽतिवल्लभः ॥२८५॥

अहन्तु शरणं याता तं देवं भयविह्वला ।
स्तुतवत्यथ संस्तुत्या ततो मां गिरिशोब्रवीत् ॥२८६॥

तुष्टोऽहं कामदयिते! कामोऽयन्ते भविष्यति ।
त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः ॥२८७॥

लप्स्यते काङ्क्षितं कामं निवर्त्य मरणादितः ।
प्रतीक्ष्यती च तद्वाक्यमाशावेशादिभिर्ह्यहम् ॥२८८॥

शरीरं परिरक्षिष्ये कञ्चित् कालं महाद्युते! ।
इत्युक्तस्तु तदा रत्या शैलः सम्भ्रमभीषितः ॥२८९॥

पाणावादाय हि सुतां गन्तुमैच्छत् स्वकम्पुरम् ।
भाविनोऽवश्यभावित्वाद् भवित्रीभूतभाविनीः ॥२९०॥

लज्जमाना सखीमुखैरुवाच पितरङ्गिरिम् ।
शैलदुहितोवाच ।
दुर्भाग्येन शरीरेण किं ममानेन कारणम् ॥२९१॥

कथं च तादृशं प्राप्तं सुखं मे स पतिर्भवेत् ।
तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः ॥२९२॥

दुर्भगत्वं वृथा लोको वहते सति साधने ।
जीविताद्दुर्भगाच्छ्रेयो मरणं हि तपस्यतः ॥२९३॥

भविष्यामि न सन्देहो नियमैः शोषये तनुम् ।
तपसि भ्रष्टसन्देहे उद्यमोऽर्थ जिगीषया ॥२९४॥

साहन्तपः करिष्यामि यदहं प्राप्य दुर्लभा ।
इत्युक्तः शैलराजस्तु दुहित्रा स्नेहविक्लवः ॥२९५॥

उवाच वाचा शैलेन्द्रो स्नेहगद्गद वर्णया ।
उमेति चपले! पुत्रि! न क्षमं तावकं वपुः ॥२९६॥

ततः स चिन्तयाविष्टो दुहितां प्रशशंस च ।
ततोऽन्तरिक्षे दिव्या वागभूद् भुवनभूतले ॥२९७॥

उमेति चपले!पुत्रि! त्वयोक्ता तनया ततः ।
उमेति नाम तेनास्या भुवनेषु भविष्यति ॥२९८॥

सिद्धिं च मूर्तिमत्येषा साधयिष्यति चिन्तिताम् ।
इति श्रुत्वा तु वचनमाकाशात् काशपाण्डुरः ॥२९९॥

अनुज्ञाय सुतां शैलो जगामाशु स्वमन्दिरम् ।
शैलजापि ययौ शैलमगम्यमपि दैवतैः ॥३००॥

सखीभ्यामनुयातानु नियता नगराजजा ।
श्रृङ्गं हिमवतः पुण्यं नानाधातुविभुषितम् ॥३०१॥

दिव्यपुष्पलताकीर्णं सिद्धगन्धर्वसेवितम् ।
नानामृगगणाकीर्णं भ्रमराभ्युष्टपादपम् ॥३०२॥

दिव्यप्रस्रवणोपेतं दीर्घिकाभिरलङ्कृम् ।
नानापक्षिगणाकीर्णं चक्रवाकोपशोभितम् ॥३०३॥

जलजस्थलजैः पुष्पैः प्रोत्फुल्लैरुपशोभितम् ।
चित्रकन्दरसंस्थानां गुहागृहमनोहरम् ॥३०४॥

विहङ्गसङ्घसंजुष्टं कल्पपादप सङ्कटम् ।
तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम् ॥३०५॥

सर्वर्तुकुसुमोपेतं मनोरथ शतोज्वलम् ।
नानापुष्पसमाकीर्णं नानाविध फलान्वितम् ॥३०६॥

न तं सूर्यस्य रुचिभिर्भिन्नसंहृत पल्लवम् ।
तत्राम्बराणि सन्त्यज्य भूषणानि च शैलजा ॥३०७॥

संवीता वल्कलैर्दिव्यैर्दर्भनिर्मित मेखला ।
त्रिः स्नातपाटलाहारा बभूव शरदां शतम् ॥३०८॥

शतमेकेन शीर्णेन पर्णेनावर्त्तयत्तदा ।
निराहारा शतं साभूत्सा नाना तपसान्निधिः ॥३०९॥

तत उद्वेजिताः सर्वे प्राणिनस्तत्तपोऽग्निना ।
ततः सस्मार भगवान् मुनीन्सप्तशतक्रतुः ॥३१०॥

ते समागम्य मुनयः सर्वे समुदितास्ततः ।
पूजिताश्च महेन्द्रेण पप्रच्छुस्तं प्रयोजनम् ॥३११॥

किमर्थन्तु सुरश्रेष्ठ! संस्मृतास्तु वचन्त्वया ।
शक्रः प्रोवाच श्रृण्वन्तु भगवन्तः! प्रयोजनम् ॥३१२॥

हिमाचले तपो घोरं तप्यते भूधरात्मजा ।
तस्या ह्यभिमतं कामं भवन्तः कर्तुमर्हथ ॥३१३॥

ततः समापतन् देव्या जगदर्थं त्वरान्विताः ।
तथेत्युक्त्वातु शैलेन्द्रं सिद्धसङ्घात सेवितम् ॥३१४॥

ऊचुरागत्य मुनयस्तामथो मधुराक्षरम् ।
पुत्रि! किन्ते व्यवसितः कामः कमललोचने! ॥३१५॥

तानुवाच ततो देवी सलज्जा चित्रवाङ्मुखी ।
तपस्यतो महाभागाः प्राप्य मौनं भवादृशान् ॥३१६॥

वन्दनाय नियुक्ता धीः पावयत्यविकल्पितम् ।
प्रश्नोन्मुखत्वाद् भवतां युक्तमासनमादितः ॥३१७॥

उपविष्टाः श्रमोन्मुक्तास्ततः प्रक्ष्यथ मामतः ।
इत्युक्त्वा सा ततश्चक्रे कृतासन परिग्रहान् ॥३१८॥

सा तु तान् विधिवत्पूज्यान् पूजयित्वा विधानतः ।
उवाचादित्यसंकाशान् मुनीन् सप्त सती शनैः ॥३१९॥

त्यक्त्वा व्रतात्मकं मौनं मौनं जग्राह ह्रीमयम् ।
भावं तस्यास्तु मौनान्तं तस्याः सप्तर्षयो यथा ॥३२०॥

गौरवाधीनतां प्राप्ताः पप्रच्छुस्तां पुनस्तथा ।
सापि गौरवगर्भेण मनसा चारुहासिनी ॥३२१॥

मुनीन् शान्तकथालापान् प्रोवाच प्रोज्झय वाग्यमम् ।
भगवन्तो विजानन्ति प्राणिनां मानसं हितम् ॥३२२॥

मनोवागभिरत्यर्थं कन्दर्पं ते हि देहिनः ।
केचित्तु निपुणास्तत्र घटन्ते विवुधोद्यमैः ॥३२३॥

उपायैर्दुर्लभान्भावान् प्राप्नुवन्तिह्यतन्द्रिताः ।
अपरेतु परिच्छिन्ना नानाकाराभ्युपक्रमाः ॥३२४॥

देहान्तरार्थमारम्भमापतन्ति हितप्रदम् ।
मम त्वाकाशसम्भूत पुष्पदाम विभूषितम् ॥३२५॥

वन्ध्यासुतं प्राप्तुकामा मनः प्रसरते मुहुः ।
अहं किल भवं देवं पतिं प्राप्तुं समुद्यता ॥३२६॥

प्रकृत्यैव दुराधर्षं तपस्यन्तं तु संप्रति ।
सुरासुरैरनिर्णीत परमार्थ क्रियाश्रयम् ॥३२७॥

साम्प्रतं चापि निर्दग्धमदनं वीतरागिणम् ।
कथमाराधयेदीशं मादृशी तादृशं शिवम् ॥३२८॥

इत्युक्ता मुनयस्तेतु स्थिरतां मनसस्ततः ।
ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम् ॥३२९॥

मुनयः ऊचुः ।
द्विविधन्तु सुखन्तावत्पुत्रि! लोकेषु भाष्यते ।
शरीरस्यास्य सम्भोगैश्चेतसश्चापि निर्वृतिः ॥३३०॥

प्रकृत्या स तु दिग्वासा भीमः पितृवनेशयः ।
कपाली भिक्षुको नग्नो विरूपाक्षः स्थिरक्रियः ॥३३१॥

प्रमत्तोन्मत्तकाकारो वीभत्संस्कृतसंग्रहः ।
यतिनानेन कः स्वार्थो मूर्त्तानर्थेन काङ्क्षितः ॥३३२॥

यदि ह्यस्य शरीरस्य भोगमिच्छसि साम्प्रतम् ।
तत् कथन्ते महादेवात् भयभाजो जुगुप्सिताम् ॥३३३॥

स्रवद्रक्तवसाभ्यक्त कपाल कृतभूषणात् ।
श्वसदुग्रभुजङ्गेन्द्र कृतभूषण भीषणात् ॥३३४॥

श्मशानवासिनो रौद्र प्रमथानुगतात् सति! ।
सुरेन्द्रमुकुटव्राति निघृष्ट चरणोऽरिहा ॥३३५॥

हरिरस्ति जगद्धाता श्रीकान्तोऽनन्तमूर्तिमान् ।
नाथो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः ॥३३६॥

देवतानां निधिश्चास्ति ज्वलनः सर्वकामकृत् ।
वायुरस्ति जगद्धाता यः प्राणः सर्वदेहिनाम् ॥३३७॥

तथा वैश्रवणो राजा सर्वार्थ मतिमान् विभुः ।
एभ्य एकतमं कस्मात् न त्वं सम्प्राप्तुमिच्छसि ॥३३८॥

उत्तान देहसम्प्राप्त्या सुखं मनसेप्सितम् ।
एवमेतत्तवाप्यत्र प्रभवो नाकसम्पदाम् ॥३३९॥

अस्मिन्नेह परत्रापि कल्याण प्राप्तयस्तव ।
पितुरेवास्ति तत् सर्वं सुरेभ्यो यन्न विद्यते ॥३४०॥

अतस्तत्प्राप्तये क्लेशः स वाप्यत्राफलस्तव ।
प्रायेण प्रार्थितो भद्रे! सुखल्पोह्यतिदुर्लभः ॥३४१॥

अस्य ते विधियोगस्य धाता कर्तात्र चैव हि ।
सूत उवाच ।
इत्युक्ता सा तु कुपिता मुनिवर्येषु शैलजा ॥३४२॥

उवाच कोपरक्ताक्षी स्फुरद्भिर्दशनच्छदैः ।
देव्युवाच ।
असद् ग्रहस्य का प्रीतिर्व्यसनस्य क्व यन्त्रणा ॥३४३॥

विपरीतार्थबोद्धारः सत्पथे केन योजिताः ।
एवं मां वेत्थदुष्प्रज्ञां ह्यस्थानासद्ग्रहप्रियाम् ॥३४४॥

न मां प्रति विचारोऽस्ति यत्रेहासद्ग्रहावितौ ।
प्रजापतिसमाः सर्वे भवन्तः सर्वदर्शिनः ॥३४५॥

नूनं न वेत्थं तं देवं शाश्वतं जगतः प्रभुम् ।
अजमीशानमव्यक्तममेयमहिमोदयम् ॥३४६॥

आस्तान्तद्धर्म्मसद्भाव सम्बोधस्तावदद्भुतः ।
विदुर्यन्न हरिब्रह्म प्रमुखाहि सुरेश्वराः ॥३४७॥

यत्तस्य विभवात्स्वोत्थं भुवनेषु विजृम्भितम् ।
प्रकटं सर्वभूतानां तदप्यत्र न वेत्थकिम् ॥३४८॥

कस्यैतद्गगनं मूर्त्तिः कस्याग्निः कस्य मारुतः ।
कस्य भूः कस्य वरुणः कश्चन्द्रार्क विलोचनः ॥३४९॥

कस्यार्चयन्ति लोकेषु लिङ्गं भक्त्या सुरासुराः ।
यं ब्रुवन्तीश्वरं देवा विधीन्द्राद्या महर्षयः ॥३५०॥

प्रभावं प्रभवञ्चैव तेषामपि न वेत्थ किम् ।
अदितिः कस्य मातेयं कस्माज्जातो जनार्दनः ॥३५१॥

अदितेः कश्यपाज्जाता देवा नारायणादयः ।
मरीचेः कश्यपः पुत्रो ह्यदितिर्दक्षपुत्रिका ॥३५२॥

मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल ।
ब्रह्मा हिरण्मयात् वण्डाद्दिव्यसिद्धि विभूषितात् ॥३५३॥

कस्य प्रादुरभूद्ध्यानात् प्रक्षुब्धाः प्राकृतांशकाः ।
प्रकृतौ तु तृतीयायां मधुद्विड् जननक्रिया ॥३५४॥

जाता ससर्ज षड्वर्गान् बुद्धिपूर्वान् स्वकर्म्मजान् ।
अजातकोऽभवद्वेधा ब्रह्मणोऽव्यक्तजन्मनः ॥३५५॥

यः स्वयोगेन संक्षोभ्य प्राकृतं कृतवानिदम् ।
ब्रह्मणः सिद्धि सर्वार्थमैश्वर्यलोककर्तृताम् ॥३५६॥

विदुर्विष्ण्वादयो यच्च स्वमहिम्नासदैव हि ।
कृत्वान्यदेहमन्यादृक्तादृक् कृत्वा पुनर्हरिः ॥३५७॥

कुरुते जगतः कृत्यमुत्तमाधममध्यमम् ।
एवमेव हि संसारो यो जन्म मरणात्मकः ॥३५८॥

कर्म्मणश्च फलं ह्येतत् नानारूपसमुद्भवम् ।
अथ नारायणो देवः स्वकां च्छायां समाश्रयत् ॥३५९॥

तत्प्रेरितः प्रकुरुते जन्म नाना प्रकारकम् ।
सापि कर्म्मण एवोक्ता प्रेरणी विवशात्मनाम् ॥३६०॥

यथोन्मादादिजुष्टस्य मतिरेव हि सा भवेत् ।
इष्टान्येव यथार्थानि विपरीतानि मन्यते ॥३६१॥

लोकस्य व्यवहारेषु सृष्टेषु सहते सदा ।
धर्माधर्म्मफलावाप्तौ विष्णुरेव निबोधितः ॥३६२॥

अथानादित्वमस्यास्ति सामान्यात्तु तदात्मना ।
न ह्यस्य जीवितं दीर्घदृष्टं देहे तु कुत्रचित् ॥३६३॥

भवद्भिर्यस्य नोदृष्टमन्तमग्रमथापि वा ।
देहिनां धर्म्म एवैष क्वचिज्जायेत् क्वचिन् म्रियेत् ॥३६४॥

क्वचिद् गर्भगतो नश्येत् क्वचिज्जीवेज्जरामयः ।
क्वचित्समाः शतं जीवेत् क्वचिद् बाल्ये विपद्यते ॥३६५॥

शतायुः पुरुषो यस्तु सोऽनन्तः स्वल्पजन्मनः ।
जीवितो नम्रियत्यग्रे तस्मात्सोऽमर उच्यते ॥३६६॥

अट्टष्टजन्मनिधना ह्येवं विष्ण्वादयो मताः ।
एतत् संशुद्धमैश्वर्यं संसारे को लभेदिह ॥३६७॥

तत्र क्षयादियोगात्तु नानाश्चर्य्य स्वरूपिणी ।
तस्माद्दिवश्चरान् सर्वान् मलिनान् स्वल्पभूतिकान् ॥३६८॥

नाहं भद्राः! किलेच्छामि ऋते शर्वात् पिनाकिनः ।
स्थितञ्च तारतम्येन प्राणिनां परमन्त्विदम् ॥३६९॥

धीबलैश्वर्यकार्यादि प्रमाणं महतां महत् ।
यस्मान्न किञ्चिदपरं सर्वं यस्मात् प्रवर्त्तते ॥३७०॥

यस्यैश्वर्यमनाद्यन्तं तमहं शरणं गता ।
एष मे व्यवसायश्च दीर्घोऽतिविपरीतकः ॥३७१॥

यात वा तिष्ठतै वाथ मुनयो! मद्विधायकाः! ।
एवं निशम्य वचनं देव्या मुनिवरास्तदा ॥३७२॥

आनन्दाश्रु परीताक्षाः सस्वजुस्तां तपस्विनीम् ।
ऊचुश्च परमप्रीताः शैलजां मधुरं वचः ॥३७३॥

ऋषय उचुः ।
अत्यद्भुतास्यहो देवि! ज्ञानमूर्तिरिवामला ।
प्रसादयति नो भावं भवभाव प्रतिश्रयात् ॥३७४॥

न तु विद्मो वयन्तस्य देवस्यैश्वर्यमद्भुतम् ।
त्वन्निश्चयस्य दृढ़तां वेत्तुं वयमिहागताः ॥३७५॥

अतिरादेव तन्वङ्गि! कामस्तेयं भविष्यति ।
क्वादित्यस्य प्रभा याति रत्नेभ्यः क्व ध्युतिः पृथक् ॥३७६॥

कोऽर्थोवर्णालिका व्यक्तः कथं त्वं गिरिशं विना ।
यामो नैकाभ्युपायेन तमभ्यर्थयितुं वयम् ॥३७७॥

अस्माकमपि वै सोऽर्थः सुतरां हृदि वर्त्तते ।
अतस्त्वमेव सा बुद्धिर्यतो नीतिस्त्वमेव हि ॥३७८॥

अतो निःसंशयं कार्यं शङ्करोऽपि विधास्यति ।
इत्युक्ताः पूजितायाता मुनयो गिरिकन्यया ॥३७९॥

प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत् ।
गङ्गाम्बुप्लावितात्मानं पिङ्ग बद्ध जटासटम् ॥३८०॥

भृङ्गानु यात पाणिस्थ मन्दार कुसुमस्रजम् ।
गिरेः संप्राप्य ते प्रस्थ ददृशुः शङ्कराश्रमम् ॥३८१॥

प्रशान्ताशेषसत्वौघं नवस्तिमितकाननम् ।
निःशब्दाक्षोभसलिल प्रपातं सर्वतो दिशम् ॥३८२॥

तत्रापश्यंस्ततो द्वारि वीरकं वेत्रपाणिनम्  ।
सप्त ते मुनयः पूज्या विनीताः कार्य्य गौरवात् ॥३८३॥

ऊचुर्मधुरभाषिण्या वाचा ते वाग्मिनाम्वराः ।
द्रष्टं वयमिहायाताः शरण्यं गणनायकम् ॥३८४॥

त्रिलोचनं विजानीहि सुरकार्य्य प्रचोदिताः ।
त्वमेव नो गतिस्तत्त्वं यथा कालानतिक्रमः ॥३८५॥

सत्कारितैष प्रायेण प्रतीहारमयः प्रभुः ।
इत्युक्तो मुनिभिः सोऽथ गौरवात्तानुवाच सः ॥३८६॥

समन्वास्यापरां सन्ध्यां स्नातुं मन्दाकिनी जले ।
क्षणेन भविता विप्रास्तत्र द्रक्ष्यथ शूलिनम् ॥३८७॥

इत्युक्ता मुनयस्तस्थुस्ते तत्कालप्रतीक्षिणः ।
गम्भीराम्बुधरं प्रावृट् तृषिताश्चातका यथा ॥३८८॥

ततः क्षणेन निष्पन्न समाधान क्रियाविधिः!
वीरासनं बिभेदेशो मृगचर्म निवासितम् ॥३८९॥

ततो विनीतो जानुभ्यामवलम्ब्य महीस्थितिम् ।
उवाच वीरको देवं प्रणामैकसमाश्रयः ॥३९०॥

संप्राप्ता मुनयः सप्त त्वां द्रष्टुं दीप्तचेतसः ।
विभो! समादिश द्रष्टुमवगन्तुमिहार्हसि ॥३९१॥

इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना ।
भ्रूभङ्गसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा ॥३९२॥

मूर्द्धकम्पेन तान् सर्वान्‌ वीरकोऽपि महामुनीन् ।
आजुहाव विदूरस्थान् दर्शनाय पिनाकिनः ॥३९३॥

त्वराबद्धार्द्धचूड़ास्ते लम्बमानाजिनाम्बराः ।
विविशुर्वेदिकां सिद्धां गिरिशस्य विभूतिभिः ॥३९४॥

बद्धपाणि पुटाक्षिप्त नाकपुष्पोत्करास्ततः ।
पिनाकिपादयुगलं यथा नाकनिवासिनः ॥३९५॥

ततः स्निग्धेक्षिताः शान्ता मुनयः शूलपाणिना ।
मन्मथारिं ततो हृष्टाः सम्यक् तुष्टुवुरादृताः ॥३९६॥

मुनयः ऊचुः ।
अहो कृतार्था वयमेव साम्प्रतं सुरेश्वरोऽप्यत्र पुरो भविष्यति ।
भवत्प्रसादामलवारि सेकतः फलेन काचित्तपसा नियुज्यते ॥३९७॥

जयत्यसौ धन्यतरो हिमाचलस्तदाश्रयं यस्य सुता तपस्यति ।
सदैत्यराजोऽपि महाफलोदयो विमूलिताशेषसुरो हि तारकः ॥३९८॥

त्वदीयमंशम्प्रविलोक्य कल्मषात् स्वकं शरीरं परिमोक्ष्यते हि यः ।
स धन्यधीर्लोकपिता चतुर्मुखो हरिश्च यत्सम्भ्रमवह्निदीपितः ॥३९९॥

त्वदङ्घ्रि युग्मं हृदयेन बिभ्रतो महाभिताप प्रशमैकहेतुकम् ।
त्वमेव चैको विविधकृतक्रियः किलेति वाचा विधुरैर्विभाष्यते ॥४००॥

अथाद्य एकस्त्वमवैषि नान्यथा जगत्तथा निर्घृणतान्तव स्पृशेत् ।
न वेत्सि वा दुःखमिदं भवात्मिकं विहन्यते ते खलु सर्वनिष्क्रिया ॥४०१॥

उपेक्षसे चेज्जगतामुपद्रवं दयामयत्वं तव केन कथ्यते ।
स्वयोगमाया महिमागुहाश्रयं न विद्यते निर्मल भूतिगौरवम् ॥४०२॥

वयं च ते धन्यतराः शरीरिणां यदीदृशं त्वं प्रविलोकयामहे ।
अदर्शनं तेन मनोरथो यथा प्रयाति साफल्यतया मनोगतम् ॥४०३॥

जगद्विधानैकविधौ जगन्मुखे करिष्यसेतो वलभिच्चरा वयम् ।
विनेमुरित्थं मुनयो विसृज्य तां गिरं गिरीश श्रुतिभूमि सन्निधौ ।
उत्कृष्टकेदार इवावनीतले सुवीजमुष्टिं सुफलाय कर्षकाः ॥४०४॥

तेषां श्रुत्वा ततो रम्यां प्रक्रमोपक्रमक्रियाम् ।
वाचं वाचस्पतिरिव प्रोवाच स्मितसुन्दरः ॥४०५॥

शर्व उवाच ।
जाने लोकविधानस्य कन्या सत्कार्य्यमुत्तमम् ।
जाता प्रलेयशैलस्य सङ्केतकनिरूपणाः ॥४०६॥

सत्यमुत्कण्ठिताः सर्वे देवकार्यार्थमुद्यताः ।
तेषां त्वरन्ति चेतांसि किन्तु कार्यं विवक्षितम् ॥४०७॥

लोकयात्रानुगन्तव्या विशेषेण विचक्षणैः ।
सेवन्ते ते यतो धर्मं तत्प्रामाण्यात्परे स्थिताः ॥४०८॥

इत्युक्त्वा मुनयो जग्मुस्त्वरितास्तु हिमाचलम् ।
तत्र ते पूजितास्तेन हिमशैलेन सादरम् ॥४०९॥

ऊचुर्मुनिवराः प्रीताः स्वल्पवर्णन्त्वरान्विताः ।
मुनय ऊचुः ।
देवो दुहितरं साक्षात् पिनाकी तव मार्गते ॥४१०॥

तच्छीघ्रं पावयात्मानमाहुत्येवानलार्पणात् ।
कार्यमेतच्च देवानां सुचिरं परिवर्तते ॥४११॥

जगदुद्धरणायैव क्रियतां वै समुद्यमः ।
इत्युक्तस्तैस्तदा शैलो हर्षाविष्टोऽवदन्मुनीन् ॥४१२॥

असमर्थोऽभवद्वक्तुमुत्तरं प्रार्थयञ्छिवम् ।
ततो मेना मुनीन्वन्द्य प्रोवाच स्नेहविक्लवा ॥४१३॥

दुहितस्तान् मुनींश्चैव चरणाश्रयमर्थवित् ।
मेनोवाच ।
यदर्थं दुहितुर्जन्म नेच्छन्त्यपि महाफलम् ॥४१४॥

तदेवोपस्थितं सर्वं प्रक्रमेणैव साम्प्रतम् ।
कुलजन्मवयोरूपविभूत्यर्द्धियुतोऽपि यः ॥४१५॥

वरस्तस्यापि चाहूय सुता देवा ह्ययाचतः ।
तत्समस्त तपो घोरं कथं पुत्री प्रयास्यति ॥४१६॥

पुत्रीवाक्याद्यदत्रास्ति विधेयं तद्विधीयताम् ।
इत्युक्ता मुनयस्ते तु प्रियया हिमभूभृतः ॥४१७॥

ऊचुः पुनरुदारार्थं नारीचित्त प्रसादकम् ।
मुनयः ऊचुः ।
ऐश्वर्यमवगच्छस्व शङ्करस्य सुरासुरैः ॥४१८॥

आराध्यमानपादाब्ज युगलत्वात् सुनिर्वृतिः ।
यस्योपयोगि यद्रूपं सा च तत्प्राप्तये चिरम् ॥४१९॥

घोरं तपस्यते बाला तेन रूपेण निर्वृतिः ।
यस्तद्व्रतानि दिव्यानि न यिष्यति समापनम् ॥४२०॥

तत्र सावहिता तावत्तस्मात् सैव भविष्यति ।
इत्युक्ता गिरिणा सार्द्धन्ते ययुर्यत्र शैलजा ॥४२१॥

जितार्कज्वलनज्वाला तपस्तेजो मयीह्युमा ।
प्रोचुस्तां मुनयः स्निग्धं सन्मान्य पथमागतम् ॥४२२॥

रम्यं प्रियं मनोहारि मारूपं तपसा दह ।
प्रातस्ते शङ्करः पाणिमेष पुत्रि! ग्रहीष्यति ॥४२३॥

वयमर्थितवन्तस्ते पितरं पूर्वमागताः ।
पित्रा सह गृहङ्गच्छ वयं यामः स्वमन्दिरम् ॥४२४॥

इत्युक्त्वा तपसः सत्यं फलमस्तीति चिन्त्य मा ।
त्वरमाणा ययौ वेश्म पितुर्दिव्यार्थशोभितम् ॥४२५॥

सा तत्र रजनीं मेने वर्षायुतसमां सतीम् ।
हरदर्शनसञ्जातमहोत्कण्ठा हिमाद्रिजा ॥४२६॥

ततो मुहूर्ते ब्राह्मे तु तस्याश्चक्रुः सुरस्त्रियः ।
नानामङ्गलसन्दोहान्यथावक्त्रमपूर्वकम् ॥४२७॥

दिव्यमण्डनमङ्गानां मन्दिरे बहुमङ्गले ।
उपासत गिरिं मूर्ता ऋतवः सार्वकामिकाः ॥४२८॥

वायवो वारिदाश्चासन् संमार्जनविधौ गिरेः ।
हर्म्येषु श्रीः स्वयं देवी कृत नाना प्रसाधना ॥४२९॥

कान्तिः सर्वेषु भावेषु ऋद्धिश्चाभवदाकुला ।
चिन्ता मणिप्रभृतयो रत्नाः शैलं समन्ततः ॥४३०॥

उपतस्थुर्नगाश्चापि कल्पकाम महाद्रुमाः ।
ओषध्यो मूर्तिमत्यश्च दिव्यौषधि समन्विताः ॥४३१॥

रसाश्च धातवश्चैव सर्वे शैलस्य किङ्कराः ।
किङ्करास्तस्य शैलस्य व्यग्राश्चाज्ञानुवर्तिनः ॥४३२॥

नद्यः समुद्रा निखिलाः स्तावरं जङ्गमञ्च यत् ।
तत् सर्वं हिमशैलस्य महिमानमवर्द्धयत् ॥४३३॥

अभवन्मुनयो नागा यक्षगन्धर्वकिन्नराः ।
शङ्करस्यापि विबुधा गन्धमादनपर्वते ॥४३४॥

सर्वे मण्डनसम्भारा तस्थुर्निर्मल मूर्तयः ।
सर्वस्यापि जटा जूटे चन्द्रखण्डं पितामहः ॥४३५॥

बबन्ध प्रणयोदार विस्फारित विलोचनः ।
कपालमालां विपुलां चामुण्डा मूर्ध्न्यबन्धत ॥४३६॥

उवाच चापि वचनं पुत्रं जनय शङ्कर! ।
यो दैत्येन्द्रकुलं हत्वा मारक्तैस्तर्पयिष्यति ॥४३७॥

सौरिर्ज्वलच्छिरोरत्न मुकुटञ्चानलोल्बणम् ।
भुजगाभरणं गृह्य सज्जं शम्भोः पुरोऽभवत् ॥४३८॥

शक्रो गजाजिनं तस्य वसाभ्यक्ताग्र पल्लवम् ।
दध्रे सरभसं स्विद्यद्विस्तीर्ण मुख पङ्कजम् ॥४३९॥

वायुश्च विपुलं तीक्ष्ण श्रृङ्गं हिमगिरिप्रभम् ।
वृषं विभूषयामास हरयानं महौजसम् ॥४४०॥

वितेनुर्नयनान्तस्थाः शम्भोः सूर्यानलेन्दवः ।
स्वान्द्युतिं लोकनाथस्य जगतः कर्म्मसाक्षिणः ॥४४१॥

चिताभस्म समाधाय कपाले रजतप्रभम् ।
मनुजास्थिमयीं मालामाबबन्ध च पाणिना ॥४४२॥

प्रेताधिपः पुरो द्वारे सगदः समवर्तत ।
नानाकारमहारत्न भूषणं धनदाहृतम् ॥४४३॥

विहायोदग्रसर्पेन्द्र कटकेन स्वपाणिना ।
कर्णोत्तंसञ्चकारेशो वासुकिन्तक्षकं स्वयम् ॥४४४॥

जलाधीशाहृतां स्थास्तु प्रसूनावेष्टितां पृथक् ।
ततस्तुते गणाधीशा विनयात्तत्र वीरकम् ॥४४५॥

प्रोचुर्व्यग्राकृते! त्वन्नो समावेदय शूलिने ।
निष्पन्नाभरणं देवं प्रसाध्येशम्प्रसाधनः ॥४४६॥

सप्तवारिधयस्तस्थुः कर्तुं दर्पणविभ्रमम् ।
ततो विलोकितात्मानं महाम्बुधिजलोदरे ॥४४७॥

धरामालिङ्ग्य जानुभ्यां स्थाणुं प्रोवाच केशवः ।
शोभसे देव! रूपेण जगदानन्ददायिना ॥४४८॥

मातरः प्रेरयाकाम वधूं वैधव्य चिह्निताम् ।
कालोऽयमिति चालक्ष्य प्रकारेङ्गितसंज्ञया ॥४४९॥

ततस्ताश्चोदिता देवमूचुः प्रहसिताननाः ।
रतिः पुरस्तव प्राप्ता नाभाति मदनोज्झिता ॥४५०॥


ततस्तां सन्निवार्याह वामहस्ताग्र संज्ञया ।
प्रयाणे गिरिजा वक्त्र दर्शनोत्सुकमानसः ॥४५१॥

ततो हरो हिमगिरिकन्दराकृतिम् समुन्नतं मृदुगतिभिः प्रचोदयन् ।
महावृषङ्गणतुमुलाहितेक्षणं स भूधरानशनिरिव प्रकम्पयन् ॥४५२॥

ततो हरिर्द्रुतपदपद्धतिः पुरःसरः श्रमात् द्रुमनिकरेषु विश्रमन् ।
धरारजः शवलितभूषणोऽब्रवीत् प्रयात मा कुरुत पथोऽस्य संकटम् ॥४५३॥

प्रभोः पुनः प्रथमनियोगमूर्जयन् सुतोऽब्रवीद्भ्रुकुटिमुखोऽपि वीरकः ।
वियच्चरा वियति किमस्तिकान्तकम् प्रयात नो धरणिधराऽविदूरतः ॥४५४॥

महार्णवाः कुरुत शिलोपमम्पयः सुरद्विषा गमनमहातिकर्दमान् ।
गणेश्वराश्चपलतया न गम्यताम् सुरेश्वरैः स्थिरमतिभिश्च गम्यताम् ॥४५५॥

न भृङ्गिणा स्वतनुमवेक्ष्य नीयते पिनाकिनः पृथुमुखमण्डमग्रतः ।
वृथायमप्रकटितदन्तकोटरम् त्वमायुधं वहसि विहाय पञ्चरम् ॥४५६॥

पदन्नयद्रथतुरगैः पुरद्विषा प्रमुच्यते बहुतरमातृ सङ्कुलम् ।
अमी सुराः पृथगनुयायिभिर्वृताः पदातयो द्विगुणपथान् हरप्रियाः ॥४५७॥

स्ववाहनैः पवनविधूतचामरै श्चलध्वजैर्व्रजत विहारशालिभिः ।
सुराः स्वकं किमिति न रागमूर्जितं विचार्यते नियतलयत्रयानुगम् ॥४५८॥

न किन्नरैरभिभवितुं हि शक्यते विभूषण प्रचयसमुद्भवो ध्वनिः ।
स्वजातिकाः किमिति नषड्जमध्यम पृथुस्वरं बहुतरमत्र वक्ष्यते ॥४५९॥

नतानता नतन तनताङ्गताः पृथक् तया समयकृता विभिन्नताम् ।
विशङ्किता भवदतिभेदशीलिनः प्रयान्त्यमी द्रुतपदमेव गौडकाः ॥४६०॥

विसंहताः किमिति न षाड्गवादयः स्वगीतकैर्ललितपदप्रयोगजैः ।
प्रभोः पुरो भवति हि यस्य चाक्षतं समुद्गतार्थकमिति तत्प्रतीयते ॥४६१॥

अमी पृथग्विरचितरम्यरासकं विलासिनो बहुगमक-स्वभावकम् ।
प्रयुञ्जते गिरिशयशो विसारिणं प्रकीर्णकं बहुतर नागजातयः ॥४६२॥

अमी कथं ककुभिकथाः प्रतिक्षणं ध्वनन्ति ते विविध वधूविमिश्रिताः ।
न जातयो ध्वनिमुरजा समीरिता न मूर्च्छिताः किमिति च मूर्च्छनात्मिकाः ॥४६३॥

श्रुतिप्रिय क्रमगति भेदसाधनं ततादिकं किमिति न तुम्वरेरितम् ।
न हन्यते बहुविधवाद्यडम्बरं प्रकीर्णवीणामुरजादि नाम यत् ॥४६४॥

इतीरिते गिरिमवदानशालिनः सुरासुराः सपदि तु वीरकाज्ञया ।
नियामितीः प्रययुरतीव हर्षिताश्चराचरं जगदखिलं ह्यपूरयन् ॥४६५॥

इतीस्तनत्ककुभिरसन्महार्णवे स्तनद्घने विदलितशैलकन्दरे ।
जगत्यभूत्तुमुल इवाकुलीकृतः पिनाकिना त्वरितगतेन भूधरः ॥४६६॥

परिज्वलत् कनकसहस्रतोरणं क्वचिन्मिलन्मरकत वेश्मवेदिकम् ।
क्वचित् क्वचिद्विमलवैढूर्यभूमिकं क्वचिद्गलज्जलधर रम्यनिर्झरम् ॥४६७॥

चलध्वजप्रवरसहस्रमण्डितं सुरद्रुमस्तवक विकीर्ण चत्वरम् ।
सिता सितारुणरुचिदातुवर्णकं श्रियोज्ज्वलं प्रविततमार्गगोपुरम् ॥४६८॥

विजृम्भिताप्रतिम-ध्वनिवारिदं सुगन्धिभिः पुरपवनैर्मनोहरम् ।
हरो महागिरिनगरं समासदत् क्षणादिव प्रवरसुरासुरस्तुतः ॥४६९॥

तं प्रविशन्तमगात् प्रविलोक्य व्याकुलतां नगरं गिरिभर्तुः ।
व्यग्रपुरन्ध्रिजनञ्जवियानं धावितमार्गजनाकुल रथ्यम् ॥४७०॥

हर्म्यगवाक्षगतामरनारी लोचन नील सरोरुह मालम् ।
सुप्रकटासमदृश्यत काचित्स्वाभरणांशुवितानविगूढा ॥४७१॥

काप्यखिलीकृतमण्डनभूषा त्यक्तसखी प्रणयाहरमैक्षत् ।
काचिदुवाच कलङ्गतमाना कातरतां सखि! मा कुरु मूढे ॥४७२॥

दग्धमनोभव एव पिनाकी कामयते स्वयमेव विहर्तुम् ।
काचिदपि स्वयमेव पतन्ति प्राह परां विरहस्खलिताङ्गीम् ॥४७३॥

मा चपले मदनव्यतिषङ्गं शङ्करजं स्खलनेन वद त्वम् ।
कापि कृतव्यवधानमदृष्ट्वा युक्तिवशाद्गिरिशो ह्ययमूचे ॥४७४॥

एष स यत्र सहस्रमखाद्या नाकसदामधिपाः स्वयमुक्तैः ।
नामभिरिन्दुजटं निजसेवा प्राप्तिफलायनतास्तु घटन्ते ॥४७५॥

एष न चैष स एष यदग्रे घर्मपरीततनुः शशिमौली ।
धावति वज्रधरोऽमरराजो मार्गममुं विवृतीकरणाय ॥४७६॥

एष स पद्मभवोऽयमुपेत्य प्रांशुजटामृगचर्मनिगूढ़ः ।
सप्रणयङ्करघट्टितचक्रं किञ्चिदुवाच मितं श्रुतिमूले ॥४७७॥

एवमभूत् सुरनारिकुलानां चित्तविसंष्ठुलता गुररागात् ।
शङ्कर संश्रयणादि-गिरिजाया जन्मफलं परमन्त्विति चोचुः ॥४७८॥

ततो हिमगिरेर्वेश्म विश्वकर्म्म निवेदितम् ।
महानीलमयस्तम्भ ज्वलत्काञ्चन कुट्टिमम् ॥४७९॥

मुक्ताजाल-परिष्कारं ज्वलितौषधि दीपितम् ।
क्रीड़ोद्यानसहस्राढ्यं काञ्चना बद्धदीर्घिकम् ॥४८०॥

महेन्द्रप्रमुकाः सर्वे सुरा दृष्ट्वा तदद्भुतम् ।
नेत्राणि सफलान्यद्य मनोभिरिति ते दधुः ॥४८१॥

विमर्दकीर्ण०-केयूरा हरिणा द्वारिरोधिताः ।
कथञ्चित् प्रमुकास्तत्र विविशुर्नाकवासिनः ॥४८२॥

प्रणतेनाचलेन्द्रेण पूजितोऽथ चतुर्मुखः ।
चकार विधिना सर्वं विधिमन्त्रपुरःसरम् ॥४८३॥

शर्वेण पाणिग्रहणमग्निसाक्षिकमक्षतम् ।
दाता महीभृतान्नाथो होता देवश्चतुर्मुखः ॥४८४॥

वरः पशुपति साक्षात् कन्या विश्वारणिस्तथा ।
चराचराणि भूतानि सुरासुरवराणि च ॥४८५॥

तत्राप्येते नियमतो ह्यभवन्व्यग्रमूर्तयः ।
मुमोचाभिनवान्सर्वान्‌ सस्यशालीन्रसौषधीः ॥४८६॥

व्यग्रा तु पृथिवी देवी सर्वभावमनोरमा ।
गृहीत्वा वरुणः सर्व रत्नान्याभारणानि च ॥४८७॥

पुण्यानि च पवित्राणि नानारत्नमयानि तु ।
तस्थौ स्वाभरणो देवो हर्षदः सर्वदेहिनाम् ॥४८८॥

धनदश्चापि दिव्यानि हैमान्याभरणानि च  ।
जातरूपविचित्राणि प्रयतः समुपस्थितः ॥४८९॥

वायुर्ववौ सुसुरभिः सुखसंस्पर्शनो विभुः ।
छत्रमिन्दुकरोद्गारं सुसितञ्च शतक्रतुः ॥४९०॥

जग्राह मुदितः स्रग्वी बाहुभिर्बहुभूषणैः ।
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥४९१॥

वादयन्तोऽतिमधुरं जगुर्गन्धर्वकिन्नराः ।
मूर्त्ताश्च ऋतवस्तत्र जगुश्च ननृतुश्च वै ॥४९२॥

चपलाश्च गणास्तस्थुर्लोलयन्तो हिमाचलम् ।
उत्तिष्ठन् क्रमशश्चान्न विश्वभुग्भगनेत्रहा ॥४९३॥

चकारौद्वाहिकं कृत्यं पत्न्या सह यथोचितम् ।
दत्तार्घो गिरिराजेन सुरवृन्दैर्विनोदितः ॥४९४॥

अवसत् तां क्षपान्तत्र पत्न्या सह पुरान्तकः ।
ततो गन्धर्वगीतेन नृत्येनाप्सरसामपि ॥४९५॥

स्तुतिभिर्देवदैत्यानां विबुधो विबुधाधिपः ।
आमन्त्र्य हिमशैलेन्द्रं प्रभाते चोमया सह॥
जगाम मन्दरगिरिं वायुवेगेन श्रृङ्गिणा ॥४९६॥

ततो गते भगवति नीललोहिते सहोमया रतिमलभन्न भूधरः ।
सबान्धवो भवति च कस्य नो मनो विह्वलञ्च जगति हि कन्यकापितुः ॥४९७॥

ज्वलन्मणिस्फटिकहाटकोत्कटं स्फुटद्युतिस्फटिकगोपुरं पुरम् ।
हरो गिरौ चिरमनुकल्पितन्तदा विसर्जितामरनिवहोऽविशत्स्वकम् ॥४९८॥

तदोमासहितो देवो विजहार भगाक्षिहा ।
पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च ॥४९९॥

सुरक्तहृदयो देव्या मकराङ्कपुरः सरः ।
ततो बहुतिथे काले सुतकामा गिरेः सुता ॥५००॥

सखीभिः सहिता क्रीडां चक्रे कृत्रिमपुत्रकैः ।
कदाचिद् गन्ध तैलेन गात्रमभ्यज्य शैलजा ॥५०१॥

चूर्णैरुद्वर्तयामास मलिनां तरितान्तनुम् ।
तदुद्वर्तनकं गृह्य नरं चक्रे गजाननम् ॥५०२॥

पुत्रकं क्रीडती देवी तं चाक्षिपयदम्भसि ।
जाह्नव्यास्तु शिवासख्यास्ततः सोऽभूद्वहत् वपुः ॥५०३॥

कायेनातिविशालेन जगदापूरयत्तदा ।
पुत्रेत्युवाच तं देवी पुत्रेत्यूचे च जाह्नवी ॥५०४॥

गाङ्गेय इति देवैस्तु पूजितोऽभूद्गजाननः ।
विनायकाधिपत्यञ्च ददावस्य पितामहः ॥५०५॥

पुनः सा क्रीडनं चक्रे पुत्रार्थं वरवर्णिना ।
मनोज्ञमङ्कुरं रूढमशोकस्य शुभानना ॥५०६॥

वर्द्धयामास तां चापि कृत संस्कारमङ्गला ।
बृहस्पतिमुखैर्विप्रैः दिवस्पति पुरोगमैः ॥५०७॥

ततो देवैश्च मुनिभिः प्रोक्ता देवी त्विदम्वचः ।
भवानी भवती भव्या संभूता लोकभूयते ॥५०८॥

प्रायः सुतफलो लोकः पुत्रपौत्रैश्च लभ्यते ।
अपुत्राश्च प्रजाः प्रायो दृश्यन्ते दैवहेतवः ॥५०९॥

अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि ।
फलं किम्भविता देवि! कल्पितैस्तरु पुत्रकैः ॥५१०॥

इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचोमा शुभाङ्गिरम् ।
देव्युवाच ।
एवं निरुदके देशे यः कूपं कारयेद् बुधः ॥५११॥

बिन्दौ बिन्दौ च तोयस्य वसेत् सम्वत्सरन्दिवि ।
दशकूपसमावापी दशवापी समो ह्रदः ॥५१२॥

दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः ।
एषैव मम मर्यादा नियता लोकभाविनी ॥५१३॥

इत्युक्तास्तु ततो विप्रा बृहस्पति-पुरोगमाः ।
जग्मुः स्वमन्दिराण्येव भवानीं वन्द्य सादरम् ॥५१४॥

गतेषु तेषु देवोऽपि शङ्करः पर्वतात्मजाम् ।
पाणिना लम्बमानेन शनैः प्रावेशयच्छुभाम् ॥५१५॥

चित्तप्रसादजननं प्रासादमनुगोपुरम् ।
लम्बमौक्तिकदामानं मालिका कुल वेदिकम् ॥५१६॥

निर्धौत कल धौतं च क्रीडागृह मनोरमम् ।
प्रकीर्णकुसुमोद्दाम मत्तालि कुल कूजितम् ॥५१७॥

किन्नरोद्गीतसङ्गीत गृहान्तरित भित्तिकम् ।
सुगन्धिधूपसङ्घात मनः प्रार्थ्यमलं हितम् ॥५१८॥

क्रीडन्मयूरनारीभिः वृतं वै तत्ववादिभिः ।
हंस सङ्घातसंघुष्टं स्फाटिकस्तम्भवेदिकम् ॥५१९॥

अनारतमतिप्रीत्या बहुशः किन्नराकुलम् ।
शुकेर्यत्राभिहन्यन्ते पद्म राग विनिर्मिताः ॥५२०॥

भित्तयो दाडिमभ्रान्त्या प्रति बिम्बितमौक्तिकाः ।
तत्राक्षक्रीडया देवो विहर्तमुपचक्रमे ॥५२१॥

स्वच्छेन्द्रनीलभूभागे क्रीडने यत्र धिष्ठितौ ।
वपुः सहायतां प्राप्तौ विनोदरसनिर्वृतौ ॥५२२॥

एवं प्रक्रीडतोस्तत्र देवीशङ्करयोस्तदा ।
प्रादुर्भवन्महाशब्दस्तद्गृहोदरगोचरः ॥५२३॥

तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शङ्करम् ।
पप्रच्छ तं शुभतनुर्हरं विस्मयपूर्वकम् ॥५२४॥

उवाच देवीं नैतत्ते दृष्टपूर्वं सुविस्मिते ।
एते गणेशाः क्रीडन्ते शैलेऽस्मिन् मत्प्रियाः सदा ॥५२५॥

तपसा ब्रह्मचर्येण नियमैः क्षेत्रसेवनैः ।
यैरहंतोषितः पूर्वं त एते मनुजोत्तमाः ॥५२६॥

मत्समीपमनु प्राप्ता मम हृद्याः शुभानने ।
कामरूपा महोत्साहा महारूपगुणान्विताः ॥५२७॥

कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम् ।
सामरस्यास्य जगतः सृष्टिसंहरण क्षमाः ॥५२८॥

ब्रह्मविष्णवीन्द्रगन्धर्वैः सकिन्नरमहोरगैः ।
विवर्जितोऽप्यहं नित्यं नैभिर्विरहितो रमे ॥५२९॥

हृद्या मे चारु सर्वाङ्गास्त एते क्रीडते गिरौ ।
इत्युक्त्वा तु ततो देवी त्यक्त्वा तद्विस्मयाकुला ॥५३०॥

गवाक्षान्तरमासाद्य प्रेक्षते विस्मितानना ।
यावन्तस्ते कृशा दीर्घा ह्रस्वा स्थूला महोदराः ॥५३१॥

व्याघ्रेभवदनाः केचित् केचिन्मेषाज रूपिणः ।
अनेक प्राणिरूपाश्च ज्वालास्याः कृष्णपिङ्गलाः ॥५३२॥

सौम्या भीमाः स्मितमुखाः कृष्णपिङ्गजटासटाः ।
नानाविहङ्गवदना नानाविधमृगाननाः ॥५३३॥

कौशेयचर्म्मवसना नग्नाश्चान्ये विरुपिणः ।
गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः ॥५३४॥

बहुपादा बहुभुजा दिव्य नानास्त्रपाणयः ।
अनेककुसुमापीडा नाना व्यालविभूषणाः ॥५३५॥

वृत्ताननायुधधरा नाना कवचभूषणः ।
विचित्रवाहनारूढा दिव्यरूपा वियच्चराः ॥५३६व

वीणा वाद्यरवाघुष्टा नाना स्थानक नर्तकाः ।
गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शङ्करम् ॥५३७॥

देव्युवाच ।
गणेशाः कति सङ्ख्याताः किं नामानः किमात्मकाः ।
एकैकशो मम ब्रूहि धिष्ठिता ये पृथक् पृथक् ॥५३८॥

शङ्कर उवाच ।
कोटिसङ्क्या ह्यसङ्ख्याता नाना विख्यातपौरुषाः ।
जगदापूरितं सर्वैरेभिभीमैर्महाबलैः ॥५३९॥

सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु ।
दानवानां शरीरेषु बालेषून्मत्तकेषु च ॥५४०॥

एते विशन्ति मुदिता नानाहार विहारिणः ।
ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः ॥५४१॥

रक्तपाः सर्वभक्षाश्च वायुपा ह्यम्बुभोजनाः ।
गेय नृत्योपहाराश्च नाना वाद्यरवप्रियाः ॥५४२॥

न ह्येषां वै अनन्तत्वाद् गुणान् वक्तुं हि शक्यते ।
देव्युवाच ।
मार्गत्वगुत्तरासङ्गः शुद्धाङ्गो मुञ्जमेखली ॥५४३॥

वामस्थेन च शिक्येन चपलो रञ्जिताननः ।
मृगदंष्ट्रो ह्युत्पलानां स्रग्दामो मधुराकृतिः ॥५४४॥

पाषाणशकलोत्तान कांस्यताल प्रवर्तकः ।
असौ गणेश्वरो देव! किन्नामाकिन्नरानुगाः ॥५४५॥

य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः ।
शर्व उवाच ।
स एष वीरको देवि! सदा मद्धृदयप्रियः ॥५४६॥

नानाश्चर्य्यगुणाधारो गणेश्वरगणार्चितः ।
देव्युवाच ।
ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक ॥५४७॥

कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायिनम् ।
शर्व उवाच ।
एष एव सुतस्तेऽस्तु नयनानन्दहेतुकः ॥५४८॥

त्वया मात्रा कृतार्थस्तु वीरकोऽपि सुमध्यमे! ।
इत्युक्त्वा प्रेषयामास विजयां हर्षणोत्सुका ॥५४९॥

वीरकानयनायाशु दुहिता हिमभूभृतः ।
सावरुह्य त्वरा युक्ता प्रासादादम्बरस्पृशः ॥५५०॥

विजयोवाच गणपङ्गणमध्ये प्रवर्तिता ।
विजयोवाच ।
एहि वीरक! चापल्यात् त्वया देवः प्रकोपितः ॥५५१॥

किमुत्तरं वदत्यर्थे नृत्यरंगे तु शैलजा ।
इत्युक्तस्त्यक्तपाषाण शकलो मार्जिताननः ॥५५२॥

आहूतस्तु तयोद्भूत मूलप्रस्ताव शंसकः ।
देव्याः समीपमागच्छज्जययानुगतः शनैः ॥५५३॥

प्रासादशिखरात्फुल्ल रक्ताम्बुज निभद्युतिः ।
तं दृष्ट्वा प्रस्रुतानल्प स्वादुक्षीर पयोधरा॥
गिरिजोवाच सस्नेहं गिरा मधुरवर्णया ॥५५४॥

उमोवाच ।
एह्येहि यातोऽसि मे पुत्रतां देव देवेन दत्तोऽधुना वीरक! ॥५५५॥

इत्येवमङ्के निधायाथ तं पर्यष्वजत् कपोले कलवादिनम् ॥५५६॥

मूर्ध्न्युपाघ्राय संमार्ज्यगात्राणि भूषयामास दिव्यैः स्वयंभूषणैः किङ्किणीमेखलानूपुरै-र्माणिक्य केयूरहारोरुमूलगुणैः ॥५५७॥

कामलैः पल्लवै श्चित्रितै श्चारुभि-र्दिव्यमन्त्रोद्भवैस्तस्य शुभैस्ततो भूरिभिश्चाकरोन्मिश्रसिद्धार्थकै रङ्गरक्षाविधिः ॥५५८॥

एवमादाय चोवाच कृत्वा संमूर्ध्नि गोरेचनां पत्रभङ्गोज्ज्वलैः ॥५५९॥

गच्छगच्छाधुना क्रीडसार्द्धं गणैरप्रमत्तोवसं श्वभ्रवर्जाशनैर्व्याल माला कुलाशैलसानुद्रुमदन्तिभि-र्भिन्नसाराः परे संगिनः ॥५६०॥

जाह्नवीयं जलं क्षुब्धतोयाकुलम् कूलं मा विशेथा बहुव्याघ्रदुष्टे वने ॥५६१॥

वत्सा संख्येषु दुर्गागणेशेष्वेतस्मिन् वीरके पुत्रभावोपतुष्टान्तः करणातिष्ठतु ॥५६२॥

स्वस्य पितृजनप्रार्थितं भव्यमायाति भाविन्यसौ भव्यता ॥५६३॥

सोऽपि निभृत्य सर्वगणैः सस्मयमाह बालत्वलीलारसाविष्टधीः ॥५६४॥

एषमात्रा स्वयं मे कृतभूषणोऽत्र एषपटः पटलैर्विन्दुभिः सिन्दुवारस्य पुष्पैरियं मालतीमिश्रितामालिका मे शिरस्याहिता ॥५६५॥

कोऽयमातोद्यधारीगणस्तस्य दास्यामि हस्तादिदं क्रीडनम् ॥५६६॥

दक्षिणात् पश्चिमं पश्चिमादुत्तरमुत्तरात् पूर्वमभ्येत्य सख्या युता प्रेक्षती तं गवक्षान्तराद्वीरकं शैलपुत्री बहिः क्रीडनं यज्जगन्मातुरेष चित्तभ्रमः ॥५६७॥

पुत्रलुब्धो जनस्तत्र को मोहमायाति न स्वल्पचेताजडो मांसविण्मूत्रसङ्घातदेहः ॥५६८॥

द्रष्टुमब्यन्तरन्नाकवासेश्वरैरिन्दुमौलिं प्रविष्टेषु कक्षान्तरम् ॥५६९॥

वाहनात्यावरोहागणास्तैर्युतोलोकपालास्त्रमूर्तोह्ययं खड्गो विखड्ग-करोनिर्ममः कृतान्तः कस्य केनाहतो ब्रूत मौने भवन्तोऽस्त्रदण्डन किं दुस्पृहा ॥५७०॥

भीममूर्त्यानने नास्ति कृत्यङ्गिरौ य एषोऽस्त्रज्ञेन किं वध्यते ॥५७१॥

मावृथा लोकपालानुगचित्तता एव मेवैतदित्यूचुरस्मै तदा देवताः ॥५७२॥

देवदेवानुगं वीरकं लक्षणाप्राह देवी वनं पर्वतानिर्झराण्यग्निदेव्यान्यथोभूतपानिर्झराम्भोनिपातेषु निमज्जत ॥५७३॥

पुष्पजालावनद्धेषु धामस्वपिशेत प्रोत्तुङ्गनाद्रिकुञ्जेष्वनुगर्जन्तु हे मारुतां स्फोटसंक्षेपणान् कामतः ॥५७४॥

काञ्चनोत्तुंग श्रृङ्गावरोहक्षितौ हेमरेणूत्करा सङ्गद्युतिम् ।
खेचराणां वनाधायिनि रम्ये बहुरूपसम्पत्प्रकरेगणान्वासितम् मन्दरकन्दरे सुन्दरमन्दारपुष्पप्रवालाम्बुजे सिद्धनारीभिरापीतरूपामृतं विस्तृतैर्नेत्रपात्रैरनुन्मेषिभिर्वीरकं शैलपुत्री निमेषान्तरादस्मरत् पुत्रगृध्नी विनोदार्थिनी ॥५७५॥

सोऽपि तादृक् क्षणावाप्तपुण्योदयो योऽपि जन्मान्तरस्यात्मजत्वंगतः ॥५७६॥

क्रीडतस्तस्य तृप्तिः कथं जायते योऽपि भाविजगद्वेधसा तेजसः कल्पितः प्रतिक्षणं दिव्यगीतक्षणो नृत्यलोलो गणेशैः स्वप्रणत्यक्षणः सिंहनादाकुले गण्डशैलेऽसृजद्रत्नजाले बृहत्सालताले क्षणे फुल्लनानातमालालिकाले क्षणं वृक्षमूले विलोलोमराले क्षणे स्वल्पपङ्केजले पङ्कजाढ्ये क्षणं मातुरङ्के शुभे निष्कलङ्के ॥५७७॥

परिक्रीडते बाललीलाविहारी गणेशाधिपो देवतानन्दकारी ।
निकुञ्जेषु विद्याधरै-र्गीतशीलः पिनाकीव लीलाविलासैः सलीलः ॥५७८॥

प्रकाश्य भुवना भोगी ततो दिनकरे गते ।
देशान्तरं तदा पश्चाद्दूरमस्तावनीधरम् ॥५७९॥

उदयास्ते पुरो भावी यो हि चास्तेऽवनीधरः ।
मित्रत्वमस्य सुदृढं हृदये परिचिन्त्यताम् ॥५८०॥

नित्यमाराधितः श्रीमान् पृथुमूलः समुन्नतः ।
नाकरोत् सेवितुं मेरुरुपहारं पतिष्यतः ॥५८१॥

यतिष्ये मा व्यवस्थिति संश्रयेणाखिलं बुधः ।
दिनान्तानुगतो भानुः स्वजनत्वमपूरयत् ॥५८२॥

सन्ध्या बद्धाञ्जलिपुटा मुनयोभिमुखा रविम् ।
याचन्त्याङ्गमनं शीघ्रं निवार्यात्मनि भाविताम् ॥५८३॥

व्यजृम्भदथ लोकेऽस्मिन् क्रमाद्वैभावरन्तमः ।
कुटिलस्येव हृदये कालुष्यन्दूषयन्मनः ॥५८४॥

ज्वलत्फणिफणारत्न दीपोद्योतितभित्तिके ।
शयनं शशिसङ्घात शुभ्रवस्त्रोत्तरच्छदम् ॥५८५॥

नानारत्नद्युतिलसच्छक्रचाप विडम्बकम् ।
रत्नकिङ्किणिकाजालं लम्बमुक्ताकलापकम् ॥५८६॥

कमनीयचलल्लोलवितानाच्छादिताम्वरम् ।
मन्दिरे मन्दसञ्चारः शनैर्गिरिसुतायुतः ॥५८७॥

तस्थौ गिरिसुताबाहु लतामीलितकन्धरः ।
शशिमौलिसितज्योत्स्ना शुचिपूरितगोचरः ॥५८८॥

गिरिजाप्यसितापाङ्गी नीलोत्पलदलच्छविः ।
विभावर्या च संपृक्ता बभूवातितमोमयी ।
तामुवाच ततो देवः क्रीडाकेलिकलायुतम् ॥५८९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

eructation

  • पु. ढेकर 
  • न. ढेकर देणे 
  • स्त्री. ढेकर 
  • न. उद्गीरण 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.