TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १३५

मत्स्यपुराणम् - अध्यायः १३५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १३५
इलावृतवर्षवर्णनम् ।
सूत उवाच ।
ततो रणे देवबलं नारदोऽभ्यगमत् पुनः ।
आगत्य चैव त्रिपुरात्सभायामास्थितः स्वयम् ॥१॥

इलावृतमितिख्यातं तद्वर्षं विस्तृतायतम् ।
यत्र यज्ञो बलेर्वृत्तो बलिर्यत्र च संयतः ॥२॥

देवानां जन्मभूमिर्या त्रिषु लोकेषु विश्रुता ।
विवाहाः क्रतवश्चैव जातकर्म्मादिकाः क्रियाः ॥३॥

देवानां यत्र वृत्तानि कन्यादानानि यानि च ।
रेमे नित्यं भवो यत्र सहायैः पार्षदैर्गणैः ॥४॥

लोकपालाः सदा यत्र तस्थुर्मेरुगिरौ यथा ।
मधुपिङ्गलनेत्रस्तु चन्द्रावयवभूषणः ॥
देवानामधिपं प्राह गणपांश्च महेश्वरः ॥५॥

वासवैतदरीणां ते त्रिपुरं परिद्रृश्यते ।
विमानैश्च पताकाभिर्ध्वजैश्च समलङ्कृतम् ॥६॥

इदं वृत्रमिदं ख्यातं वह्निवद्भृशतापनम् ।
एते जना गिरिप्रख्याः सकुण्डलकिरीटिनः ॥७॥

प्राकारगोपुराट्टेषु कक्षान्ते दानवाः स्थिताः ।
इमे च तोयदाभासा दनुजा विकृताननाः ॥८॥

निर्गच्छन्ति पुरो दैत्याः सायुधा विजयैषिणः ।
स त्वं शरशतैः सार्द्धं ससहायो वरायुधः ॥९॥

सहद्भिर्मामकैर्भृत्यैर्व्यापादय महासुरान् ॥१०॥

अहं च रथवर्येण निश्चलाचलवत् स्थितः ।
पुरः पुरस्य रन्ध्रार्थी स्थास्यामि विजयाय वः ॥११॥

यदा तु पुष्पयोगेन एकत्वं स्थास्यते परम् ।
तदेतन्निर्दहस्यामि शरेणैकेन वासव! ॥१२॥

इत्युक्तो वै भगवता रुद्रेणेह सुरेश्वरः ।
ययौ तत् त्रिपुरं जेतुं तेन सैन्येन संवृतः ॥१३॥

प्रक्रान्तरथभीमैस्तैः स देवैः पार्षदाङ्गणैः ।
कृतसिंहरवोपेतैरुद्गच्छद्भिरिवाम्बुदैः ॥१४॥

तेन नादेन त्रिपुराद्दानवा युद्धलालसाः ।
उत्पत्य दुद्रुवुश्चेलुः सायुधाः खे गणेश्वरान् ॥१५॥

अन्ये पयोधरा रावाः पयोधरसमा बभुः ।
ससिंहनादं वादित्रं वादयामासुरुद्धताः ॥१६॥

देवानां सिंहनादश्च सर्वतूर्यरवो महान् ।
ग्रस्तोऽभूद्दैत्यनादैश्च चन्द्रस्तोयधरैरिव ॥१७॥

चन्द्रोदयात् समुद्भूतः पौर्णमास इवार्णवः ।
त्रिपुरं प्रभवत्तद्वद्भीमरूपो महासुरैः ॥१८॥

प्राकारेषु पुरे तत्र गोपुरेष्वपि चापरे ।
अट्टालकान् समारुह्य केचिच्चलितवादिनः ॥१९॥

स्वर्णमालाधराः शूराः प्रभासितकराम्बराः ।
केचिन्नदन्ति दनुजास्तोयमुक्ता इवाम्बुदाः ॥२०॥

इतश्चेतश्च धावन्तः केचिदुद्धूतवाससः ।
किमेतदिति पप्रच्छ्रु रन्योन्यं गृहमाश्रिताः ॥२१॥

किमेतन्नैव जानामि ज्ञानमन्तर्हितं हि मे ।
ज्ञास्यसे नान्तरेणेति कालो विस्तारतो महान् ॥२२॥

सोऽप्यसौ पृथिवीसारं सिंहश्च रथमास्थितः ।
तिष्ठते त्रिपुरं पीड्य देहं व्याधिरवोच्छ्रितः ॥२३॥

य एषोऽस्ति स एषोऽस्तु का चिन्ता सम्भ्रमे सति ।
एहि मायुधमादाय क्व मे पृच्छा भविष्यति ॥२४॥

इति तेऽन्योन्यमाविद्धा उत्तरोत्तरभाषिणः ।
आसाद्य पृच्छन्ति तदा दानवास्त्रिपुरालयाः ॥२५॥

तारकाक्षपुरे दैत्यास्तारकाक्षपुरः सराः ।
निर्गताः कुपितास्तूर्णं बिलादिवमहोरगाः ॥२६॥

निर्द्धावन्तस्तु ते दैत्याः प्रमथाधिपयूथपैः ।
निरुद्धा गजराजानो यथा केसरियूथपैः ॥२७॥

दर्पितानां ततश्चैषां दर्पितानामिवाग्निनाम् ।
रूपाणि जज्वलुस्तेषामग्नीनामिव धम्यताम् ॥२८॥

ततो बृहन्ति चापानि भीमनादानि सर्वशः ।
निकृष्य जघ्नुरन्योन्यमिषुभिः प्राणभोजनैः ॥२९॥

मार्जारमृगभीमास्यान् पार्षदान्विकृताननान् ।
द्रृष्ट्वा द्रृष्ट्वा हसन्नुच्चैर्दानवा रूपसम्पदा ॥३०॥

बाहुभिः परिघाकारैः कृष्यतां धनुषां शराः ।
भटवर्मेषु विविशुस्तड़ागानीव पक्षिणः ॥३१॥

मृताः स्थ क्व नु यास्येथ हनिष्यामो निवर्त्तताम् ।
इत्येवं परुषाण्युक्त्वा दानवाः पार्षदर्षभान् ॥३२॥

बिभिदुः सायकैस्तीक्ष्णैः सूर्य्यपादा इवाम्बुदान् ।
प्रमथा अपि सिंहाक्षाः सिंहविक्रान्तविक्रमाः ॥
खण्डशैलशिलावृक्षैर्बिभिदुर्दैत्यदानवान् ॥३३॥

अम्बुदैराकुलमिव हंसाकुलमिवाम्बरम् ।
दानवाकुलमत्यर्थं तत्पुरं सकलं बभौ ॥३४॥

विकृष्टचापा दैत्येन्द्राः सृजन्ति शरदुर्दिनम् ।
इन्द्रचापाङ्कितोरस्का जलदा इव दुर्दिनम् ॥३५॥

इषुभिस्ताड्यमानास्ते भूयो भूयो गणेश्वराः ।
चक्रुस्ते देहनिर्यासं स्वर्णधातुमिवाचलाः ॥३६॥

तथा वृक्षशिला वज्रशूलपट्टिपरश्वधैः ।
चूर्ण्यन्तेऽभिहता दैत्याः काचाष्टङ्कहता इव ॥३७॥

चन्द्रोदयात् समुद्भूतः पौर्णमास इवार्णवः ।
त्रिपुरं प्रभवत्तद्वद्भीमरूपमहासुरैः ॥३८॥

तारकाक्षो जयत्येष इति दैत्या व्यघोषयन् ।
जयतीन्द्रश्च रुद्रश्च इत्येव च गणेश्वराः ॥३९॥

वारिता दारिता बाणैर्योधास्तस्मिन् बलोभये ।
निः स्वनन्तोऽम्बुसमये जलगर्भा इवाम्बुदाः ॥४०॥

करैश्छिन्नैः शिरोभिश्च ध्वजैश्छत्रैश्च पाण्डुरैः ।
युद्धभूमिर्भयवती मांसशोणितपूरिता ॥४१॥

व्योम्नि चोत्प्लुत्य सहसा तालमात्रं वरायुधैः ।
द्रृढ़ाहताः पतन्पूर्वं दानवाः प्रमथास्तथा ॥४२॥

सिद्धाश्चाप्सरसश्चैव चारणाश्च नभो गताः ।
द्रृढ़प्रहारहृषिताः साधु साध्विति चुक्रुशुः ॥४३॥

अनाहताश्च वियति देवदुन्दुभयस्तथा ।
नदन्तो मेघशब्देन सरमा इव रोषिताः ॥४४॥

त तस्मिंस्त्रिपुरे दैत्यानद्यः सिन्धुपताविव ।
विशन्ति क्रुद्धवदना वल्मीकमिवपन्नगाः ॥४५॥

तारकाक्षपुरे तस्मिन् सुराः शूराः समन्ततः ।
सशस्त्रा निपतन्तिस्म सपक्षा इव भूधराः ॥४६॥

योधयन्ति त्रिभागेन त्रिपुरे तु गणेश्वराः ।
विद्युन्माली मयश्चैव भग्नौ च द्रुमवद्रणे ॥४७॥

विद्युन्माली स दैत्येन्द्रो गिरीन्द्रसद्रृशद्युतिः ।
आदाय परिघं घोरं ताड़यामास नन्दिनम् ॥४८॥

स नन्दी दानवेन्द्रेण परिघेण द्रृढ़ाहतः ।
भ्रमते मधुना व्यक्तः पुरा नारायणो यथा ॥४९॥

नन्दीश्वरे गते तत्र गणपाख्यातविक्रमाः ।
दुद्रुवुर्जातसंरम्भा विद्युन्मालिनमासुरम् ॥५०॥

घण्टाकर्णः शङ्कुकर्णो महाकालश्च पार्षदाः ॥५१॥

ततश्च सायकैः सर्वान् गणपान् गणपाकृतीन् ।
भूयो भूयः स विव्याध गणेश्वरमहत्तमान् ॥५२॥

भित्वा भित्वा रुरावोच्चैर्नभस्यम्बुधरो यथा ।
तस्यारम्भित शब्देन नन्दी दिनकरप्रभः ॥
संज्ञां लभ्य ततः सोऽपि विद्युन्मालिनमाद्रवत् ॥५३॥

रुद्रदत्तं तदा दीप्तं दीप्तानलसमप्रभम् ।
वज्रं वज्रनिभाङ्गस्य दानवस्य ससर्जह ॥५४॥

तन्नन्दिभुजनिर्मुक्तं मुक्ताफलविभूषितम् ।
पपात वक्षसि तदा वज्रं दैत्यस्य भीषणम् ॥५५॥

स वज्रं निहतो दैत्यो वज्रसंहननोपमः ।
पपात वज्राभिहतः शक्रेणाद्रिरिवाहतः ॥५६॥

दैत्येश्वरं विनिहतं नन्दिना कुलनन्दिना ।
चुक्रुशुर्दानवाः प्रेक्ष्य दुद्रुवुश्च गणाधिपाः ॥५७॥

दुः खामर्षितरोषास्ते विद्युन्मालिनिपातिते ।
द्रुमशैलमहावृष्टिं पयोदाः ससृजुर्यथा ॥५८॥

ते पीड्यमाना गुरुभिर्गिरिभिश्च गणेश्वराः ।
कर्त्तव्यं न विदुः किञ्चिद्वन्द्यमधार्मिका इव ॥५९॥

ततोऽसुरवरः श्रीमांस्तारकाक्षः प्रतापवान् ।
स तरूणां गिरीणां वै तुल्यरूपधरो बभौ ॥६०॥

भिन्नोत्तमाङ्गा गणपा भिन्नपादाङ्किताननाः ।
विरेजुर्भुजगा मन्त्रैर्वार्यमाणा यथा तथा ॥६१॥

मयेन मायावीर्येण वध्यमाना गणेश्वराः ।
भ्रमन्ति बहुशब्दालाः पञ्जरे शकुना इव ॥६२॥

तथा सुरवरः श्रीमांस्तारकाक्षः प्रतापवान् ।
ददाह च बलं सर्वं शुष्केन्धनमिवानलः ॥६३॥

तारकाक्षेण वार्यन्ते शरवर्षैस्तदा गणाः ।
मयेन माया निहतास्तारकाख्येण चेषुभिः ॥६४॥

गणेशा विधुरा जाता जीर्णमूला यथा द्रुमाः ॥६५॥

भूयः सम्पततो चाग्निर्ग्रहान् ग्राहान् भुजङ्गमान् ।
गिरीन्द्रांश्च हरीन् व्याघ्रान् वृक्षान् सृमरवर्णकान् ॥६६॥

शरभानष्टपादांश्च आपः पवनमेव च ।
मयो मायाबलेनैव पातयत्येव शत्रुषु ॥६७॥

ते तारकाक्षेण मयेन मायया संमुह्यमाना विवशा गणेश्वराः ।
न शक्नुवंस्ते मनसापि चेष्टितुं यथेन्द्रियार्था मुनिनाभिसंयताः ॥६८॥

महाजलाग्न्यादि सकुञ्जरोरगैर्हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः ।
विबाध्यमानास्तमसा विमोहिताः समुद्रमध्येष्विव गाधकाङ्क्षिणः ॥६९॥

संमर्द्यमानेषु गणेश्वरेषु सन्नर्दमानेषु सुरेतरेषु ।
ततः सुराणां प्रवराभिरक्षितुं रिपोर्बलं सम्विविशुः सहायुधाः ॥७०॥

यनोगदास्रो वरुणश्च भास्करस्तथा कुमारोऽमरकोटिसंयुतः ।
स्वयं च शक्रः सितनागवाहनः कुलीशपाणिः सुरलोकपुङ्गवः ॥७१॥

स चोडुनाथः ससुतो दिवाकरा ससान्तकस्त्र्यक्षपतिर्महाद्युतिः ।
एते रिपूणां प्रबलाभिरक्षितं तदा बलं सम्विविशुर्मदोद्धताः ॥७२॥

यथा वनं दर्पितकुञ्जराधिपा यथा नभः साम्बुधरं दिवाकरः ।
यथा च सिंहैर्विजनेषु गोकुलं तथा बलं तत्त्रिदशैरभिद्रुतम् ॥७३॥

कृतप्रहारा-तुरदीनदानवं ततस्त्वभज्यन्त बलं हि पार्षदाः ।
स्वर्ज्योतिषां ज्योतिरिवोष्मवान् हरिर्यथा तमो घोरतरं नराणाम् ॥७४॥

विशान्तयामास यथा सदैव निशाकरः सञ्चितशार्वरन्तमः ।
ततोऽपकृष्टे च तमः प्रभावे अस्त्रप्रभावे च विवर्द्धमाने ॥७५॥

दिग्लोकपालैर्गणनायकैश्च कृतो महान् सिंहरवो मुहूर्त्तम् ।
संख्ये विभग्ना विकरा विपादाश्छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः ॥७६॥

देवेतरा देववरैर्विभिन्नाः सीदन्ति पङ्केषु यथा गजेन्द्राः ।
वज्रेण भीमेन च वज्रपाणिः शक्त्या च शक्त्या च मयूरकेतुः ॥७७॥

दण्डेन चोग्रेण च धर्मराजः पाशेन चोग्रेण च वारिगोप्ता ।
शूलेन कालेन च यक्षराजो वीर्येण तेजस्वितया सुकेशः ॥७८॥

गणेश्वरास्ते सुरसन्निकाशाः पूर्णाहुतीसिक्तशिखिप्रकाशाः ।
उत्सादयन्ते दनुपुत्रवृन्दान्यथैव इन्द्राशनयः पतन्त्यः ॥७९॥

मयस्तु देवान् परिरक्षितारमुमात्मजं देववरं कुमारम् ।
शरेण भित्वा स हि तारकासुतं सतारकाख्यासुरमाबभाषे ॥८०॥

कृत्वा प्रहारं प्रविशामिवीरं पुरं हि दैत्येन्द्र बलेन युक्तः ।
विश्राममूर्जस्करमप्यवाप्य पुनः करिष्यामि रणं प्रपन्नैः ॥८१॥

वयं हि शस्त्रक्षतवीक्षिताङ्गा विशीर्णशस्त्रध्वजवर्मवाहाः ।
जयैषिणस्ते जयकाशिनश्च गणेश्वरा लोकवराधिपाश्च ॥८२॥

मयस्य श्रुत्वा दिवि तारकाख्यो वचोभिकाङ्क्षन् क्षतजोपमाक्षः ।
विवेश तूर्णं त्रिपुरन्दितेः सुतैः सुतैरदित्या युधि वृद्धहर्षैः ॥८३॥

ततः सशङ्खानकभेरिभीमं ससिंहनादं हरसैन्यमाबभौ ॥
मयानुगन्धोरगभीरगह्वरं यथा हिमाद्रेर्गजसिंहनादितम् ॥८४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.8170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.