संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५५

मत्स्यपुराणम् - अध्यायः ५५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पुराणसंख्यावर्णनम् ।

मुनय ऊचुः ।
पुराणसङ्ख्यामाचक्ष्व सूत! विस्तरशः क्रमात् ।
दानधर्म्ममशेषन्तु यथावदनुपूर्वशः ॥१॥

सूत उवाच ।
इदमेव पुराणेषु पुराणपुरषस्तदा ।
यदुक्तवान् स विश्वात्मा मनवे तन्निबोधत ॥२॥

मत्स्य उवाच ।
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥३॥

पुराणमेकमेवासीत् तदा कल्पान्तरेऽनघ ।
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥४॥

निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया ।
अङ्गानि चतुरो वेदाः पुराणं न्यायविस्तरम् ॥५॥

मीमांसां धर्म्मशास्त्रञ्च परिगृह्य मया कृतम् ।
मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे ॥६॥

अशेषमेतत् कथितमुदकान्तर्गतेन च ।
श्रुत्वा जगाद स मुनीन् प्रति देवान् चतुर्मुखः ॥७॥

प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत् ततः ।
कालेनाग्रहणं द्रृष्ट्वा पुराणस्य ततो नृप! ॥८॥

व्यासरूपमहं कृत्वा संहरामि युगे युगे ।
चतुर्लक्ष प्रमाणेन द्वापरे द्वापरे सदा ॥९॥

तथाऽष्टादशधा कृत्वा भूलोकेऽस्मिन् प्रकाश्यते ।
अद्यापि देवलोकेऽस्मिन् शतकोटि प्रविस्तरम् ॥१०॥

तदर्थोऽत्र चतुर्लक्षं संक्षेपेण विशेषितम् ।
पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते ॥११॥

नामतस्तानि वक्ष्यामि श्रृणुध्वं मुनिसत्तमाः ।
ब्रह्मणाभिहितं पूर्वं यावन् मात्रं मरीचये ॥१२॥

ब्राह्मन्त्रिदशसाहस्रं पुराणं परिकीर्त्यते ।
लिखित्वा तच्च यो दद्याज्जलधेनु समन्वितम् ॥
वैशाखपूर्णिमायाञ्च ब्रह्मलोके महीयते ॥१३॥

एतदेव यथा पद्ममभूद्धैरण्मयं जगत् ।
तद्‌ वृत्तान्ताश्रयं तद्वत् पाद्ममित्युच्यते बुधैः ॥
पाद्म तत् पञ्च पञ्चाशत् सहस्राणीह कथ्यते ॥१४॥

तत्पुराणञ्च यो दद्यात् सुवर्णकलशान्वितम् ।
ज्येष्ठे मासि तिलैर्युक्तमश्वमेधफलं लभेत् ॥१५॥

वाराहकल्पवृत्तान्तमधिकृत्य पराशरः ।
यत्प्राह धर्मानखिलान् तद्युक्तं वैष्णवं विदुः ॥१६॥

तदाषाढे च यो दद्यात् घृतधेनुसमन्वितम् ।
पौर्णमास्यां विपूतात्मा स पदं याति वारुणम् ।
त्रयोविंशति साहस्रं तत्प्रमाणं विदुर्बुधाः ॥१७॥

श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत् ।
यत्र तद्वायवीयं स्यात् रुद्रमाहात्म्य संयुतम् ।
चतुर्विशत्सहस्राणि पुराणं तदिहोच्यते ॥१८॥

श्रावण्यां श्रावणे मासि गुड़धेनुसमन्वितम् ।
यो दद्यात् वृषसंयुक्तं ब्राह्मणायकुटुम्बिने
शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥१९॥

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म्म विस्तरः ।
वृत्रासुर वधोपेतं तद् भागवतमुच्यते ॥२०॥

सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरोत्तमाः
तद्‌वृत्तान्तोद्भवं लोके तद् भागवतमुच्यते ॥२१॥

लिखित्वा तच्च यो दद्याद्धेम सिंहसमन्वितम् ।
पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम् ।
अष्टादशसहस्राणि पुराणं तत् प्रचक्षते ॥२२॥

यत्राह नारदो धर्मान् बृहत् कल्पाश्रयाणि च ।
पञ्चविंशत्‌ सहस्राणि नारदीयं तदुच्यते ॥२३॥

तदिदं पञ्चदश्यान्तु दद्याद्धेनुसमन्वितम् ।
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥२४॥

यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणा ।
व्याख्याता वै मुनिप्रश्रे मुनिभिर्धर्मचारिभिः ॥२५॥

मार्कण्डेयेन कथितं तत्‌ सर्वं विस्तरेण तु ।
पुराणं नव साहस्रं मार्कण्डेयमिहोच्यते ॥२६॥

प्रतिलिख्य च यो दद्यात् सौवर्ण करिसंयुतम् ।
कार्त्तिक्यां पुण्डरीकस्य यज्ञस्य फलभाक् भवेत् ॥२७॥

यत्तदीशानकं कल्पं वृत्तान्तमधिकृत्य च ।
वशिष्ठायाग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते ॥२८॥

लिखित्वा तच्च यो दद्याद्धेमपद्म समन्वितम् ।
मार्गशीर्ष्यां विधानेन तिलधेनुसमन्वितम् ।
तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम् ॥२९॥

यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः ।
अघोरकल्पवृत्तान्त प्रसङ्गेन जगत्‌ स्थितिम्
मनवे कथयामास भूतग्रामस्य लक्षणम् ॥३०॥

चतुर्दशसहस्राणि तथा पञ्चशथानि च ।
भविष्य चरित प्रायं भविष्यं तदिहोच्यते ॥३१॥

तत्पौषे मासि यो दद्यात् पौर्णमास्यां विमत्सरः ।
गुड़कुम्भसमायुक्तमग्निष्ठोम फलं भवेत् ॥३२॥

रथन्तरस्य कल्पस्य वृत्तान्तमधिकृत्य च ।
सावर्णिर्नारदाय कृष्णमहात्म्यमुत्तमम् ॥३३॥

यत्र ब्रह्मवराहस्य चोदन्तं वर्णितं मुहुः ।
तदष्टादशसाहस्रं ब्रह्मवैवर्त्तमुच्यते ॥३४॥

पुराणं ब्रह्मवैवर्त्तं यो दद्यान्माघमासि च ।
पौर्णमास्यां शुभदिने ब्रह्मलोके महीयते ॥३५॥

यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ।
धर्मार्थकाममोक्षार्थमाग्नेयमधिकृत्य च ॥३६॥

कल्पान्ते लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् ।
तदेकादशसाहस्रं फल्गुन्यां यः प्रयच्छति ॥
तिलधेनुसमायुक्तं स याति शिवसाम्यताम् ॥३७॥

महावराहस्य पुनर्माहात्म्यमधिकृत्य च ।
विष्णुनाभिहितं क्षोण्यै तद्वाराहमिहोच्यते ॥३८॥

मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः ।
चतुर्विंशत्‌ सहस्राणि तत् पुराणमिहोच्यते ॥३९॥

काञ्चनं गरुडं कृत्वा तिलधेनु समन्वितम् ।
पौर्णमास्यां मधौ दद्यात् ब्राह्मणाय कुटुम्बिने ॥
वराहस्य प्रसादेन पदमाप्नोति वैष्णवम् ॥४०॥

यत्र माहेश्वरान् धर्मानधिकृत्य च षण्मुखः ।
कल्पे तत् पुरुषं वृत्तञ्चरितै रुपबृंहितम् ॥४१॥

स्कन्दं नाम पुराणञ्च ह्येकाशीति निगद्यते ।
सहस्राणि शतं चैकमिति मर्त्येषु गद्यते ॥४२॥

परिलिख्य च यो दद्याद्धेमशूलसमन्वितम् ।
शैवं पदमवाप्नोति मीने चोपागते रवौ ॥४३॥

त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः ।
त्रिवर्गमभ्यधात्तञ्च वामनं परिकीर्त्तितम् ॥४४॥

पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम् ।
यः शरद्विषुवे दद्याद् वैष्णवं यात्यसौपदम् ॥४५॥

यत्र धर्मार्थकामानां मोक्षस्य च रसातले ।
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥४६॥

इन्द्रद्युम्नप्रसङ्गेन ऋषिभ्यः शक्रसन्निधौ ।
अष्टादशसहस्राणि लक्ष्मी कल्पानुषङ्गिकम् ॥४७॥

यो दद्यादयने कूर्मं हेमकूर्मसमन्वितम् ।
गोसहस्रप्रदानस्य फलं सम्प्राप्नुयान्नरः ॥४८॥

श्रुतीनां यत्र कल्पादौ प्रवृत्यर्थं जनार्दनः ।
मत्स्यरूपेण मनवे नरसिंहोपवर्णनम् ॥४९॥

अधिकृत्याऽब्रवीत्‌ सप्त कल्पवृत्तं मुनीश्वराः ।
तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश ॥५०॥

विषुवे हेममत्स्येन धेन्वा चैव समन्वितम् ।
यो दद्यात्‌ पृथिवी तेन दत्ता भवति चाखिला ॥५१॥

यदा च गारुडे कल्पे विश्वाण्डात् गरुडोद्भवम् ।
अधिकृत्याऽब्रवीत् कृष्णो गारुड़ं तदिहोच्यते ॥५२॥

तदष्टादशकञ्चैव सहस्राणीह पठ्यते ।
सौवर्णं हंससंयुक्तं यो ददाति पुमानिह ॥
स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥५३॥

ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत् पुनः ।
तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥५४॥

भविष्याणाञ्च कल्पानां श्रूयते यत्र विस्तरः ।
तद्‌ ब्रह्माण्डपुराणञ्च ब्रह्मणा समुदाहृतम् ॥५५॥

यो दद्यात् तद्व्यतीपाते पीतोर्णायुगसंयुतम् ।
राजसूयसहस्रस्य फलमाप्नोति मानवः ॥
हेमधेन्वा युतं तच्च ब्रह्मलोकफलप्रदम् ॥५६॥

चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्म्मणा ।
मत्पितुर्मम पित्रा च मया तुभ्यं निवेदितम् ॥५७॥

इह लोकहितार्थाय संक्षिप्तं परमर्षिणा ।
इदमद्यापि देवेषु शतकोटि प्रविस्तरम् ॥५८॥

उपभेदान् प्रवक्ष्यामि लोके ये सम्प्रतिष्ठिताः ।
पाद्मे पुराणे तत्रोक्तं नरसिंहोपवर्णनम् ।
तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते ॥५९॥

नन्दाया यत्र माहात्म्यं कार्तिकेयेन वर्ण्यते ।
नन्दीपुराणां तल्लोकैराख्यातमिति कीर्त्यते ॥६०॥

यत्र साम्बं पुरस्कृत्य भविष्येऽपि कथानकम् ।
प्रोच्यते तत् पुनर्लोके शाम्बमेतन्मुनिव्रताः! ॥६१॥

पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः ।
धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् ॥
एवमादित्य संज्ञा च तत्रैव परिगद्यते ॥६२॥

अष्टादशभ्यस्तु पृथक् पुराणं यत् प्रदिश्यते ।
विजानीध्वं द्विजश्रेष्ठा! तदेतेभ्यो विनिर्गतम् ॥६३॥

पञ्चाङ्गानि पुराणेषु आख्यानकमिति स्मृतम् ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् ॥६४॥

ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च ।
ससंहारप्रदानञ्च पुराणे पञ्चवर्णके ॥६५॥

धर्म्मश्चार्थश्च कामश्च मोक्षश्चैवात्र कीर्त्यते ।
सर्वेष्वपि पुराणेषु तद्विरुद्धञ्च यत् फलम् ॥६६॥

सात्विकेषु पुराणेषु माहात्म्यमधिकं हरेः ।
राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥६७॥

तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च ।
संकीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते ॥६८॥

अष्टादश पुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानमखिलञ्चक्रे तदुपबृंहितम् ॥
लक्षेणैकेन यत् प्रोक्तं वेदार्थपरिबृंहितम् ॥६९॥

वाल्मीकिना तु यत् प्रोक्तं रामोपाख्यानमुत्तमम् ।
ब्रह्मणाऽभिहितं यच्च शतकोटिप्रविस्तरम् ॥७०॥

आहृत्य नारदायैव तेन वाल्मीकये पुनः ।
वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम् ।
एवं सपादाः पञ्चैते लक्षा मर्त्ये प्रकीर्त्तिताः ॥७१॥

पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः ।
धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् ।
यः पठेच्छृणुयाद्वापि स याति परमाङ्गतिम् ॥७२॥

इदं पवित्रं यशयो निधानं इदं पितॄणामतिवल्लभञ्च ।
इदञ्च देवेष्वमृतायितञ्च नित्यं पापहरञ्च पुंसाम् ॥७३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP