TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ३

मत्स्यपुराणम् - अध्यायः ३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ३
सृष्टिप्रकरणम् ।

मनुरुवाच ।
चतुर्मुखत्वमगमत् कस्माल्लोकपितामहः ।
कथं तु लोकानसृजत् ब्रह्मा ब्रह्मविदाम्वरः ॥१॥

तपश्चचार प्रथमममराणां पितामहः ।
आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः ॥२॥

पुराणं सर्वशास्त्राणं प्रथमं ब्रह्मणा स्मृतम् ।
नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥३॥

अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।
मीमांसान्यायविद्याश्च प्रमाणाष्टक संयुताः ॥४॥

वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः ।
मनसः पूर्वसृष्टा वै जातायत्तेन मानसाः ॥५॥

मरीचिरभवत्‌ पूर्व ततोऽत्रिर्भगवान् ऋषिः ।
अङिगराश्चाभवत्पश्चात् पुलस्त्यस्तदनन्तरम् ॥६॥

ततः पुलहनामा वै ततः क्रतुरजायत ।
प्रचेताश्च ततः पुत्रो वशिष्ठश्चाभवत् पुनः ॥७॥

पुत्रो भृगुरभूत्तद्वन्नारदोऽप्यचिरादभूत् ।
दशेमान्‌ मानसान्‌ ब्रह्मा मुनीन् पुत्रानजीजनत् ॥८॥

शारीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः ।
अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायतः ॥९॥

धर्मस्तनान्तादभवत् हृदयात्‌ कुसुमायुधः ।
भ्रूमध्यादभवत्‌ क्रोधो लोभश्चाधरसम्भवः ॥१०॥

बुद्धे र्मोहः समभवदहङ्कारादभून्मदः ।
प्रमोदश्चाभवत्कण्ठान्‌ मृत्युर्लोचनतो नृप ॥११॥

भरतः करमध्यात्तु ब्रह्मसूनुरभूत्ततः ।
एते नव! सुताः राजन्! कन्या च दशमी पुनः ॥
अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता ॥१२॥

मनुरुवाच ।
बुद्धेर्मोहः समभवदिति यत्परिकीर्त्तितम् ।
अहङ्कारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते ॥१३॥

मत्स्य उवाच ।
सत्वं रजस्तमश्चैव गुणत्रयमुदाहृतम् ।
साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्तिता ॥१४॥

केचित् प्रधानमित्याहुरव्यक्तमपरै जगुः ।
एतदेव प्रजासृष्टिं करोति विकरोति च ॥१५॥

गुणेभ्यः क्षोभमाणेभ्य स्त्रयो देवा विजज्ञिरे ।
एकामूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः ॥१६॥

स विकारात् प्रधानात्तु महत्तत्त्वं प्रजायते ।
महानिति यतः ख्यातिर्लोकानां जायते सदा ॥१७॥

अहङ्कारश्च महतो जायते मानवर्धनः ।
इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु ॥
प्रादुर्भवन्ति चान्यानि तथा कर्म्मवशानि तु ॥१८॥

श्रोत्रं त्वक्‌ चक्षुषी जिह्वा नासिका च यथाक्रमम् ।
पायूपस्थं हस्तपादं वाक्‌चेतीन्द्रियसंग्रहः ॥१९॥

शब्दः स्पर्शश्च रूपञ्च रसोगन्धश्च पञ्चमः ।
उत्सर्गानन्दनादान गत्यालापाश्च तत्क्रियाः ॥२०॥

मन एकादशं तेषां कर्म्मबुद्धिगुणान्वितम् ।
इन्द्रियावयवाः सूक्ष्मास्तस्य मूर्तिमनीषिणः ॥२१॥

श्रयन्ति यस्मात्तन्मात्राः शरीरं तेन संस्मृतम् ।
शरीरयोगाज्जीवोऽपि शरीरीगद्यतेबुधैः ॥२२॥

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं शब्दतन्मात्रादभूच्छव्दगुणात्मकम् ॥२३॥

आकाशविकृतेर्वायुः शब्दस्पर्शगुणोऽभवत् ।
वायोश्च स्पर्शतन्मात्रात्तेजश्चाविरभूत्ततः ॥२४॥

त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत् ।
तेजोविकारादभवद्वारि राजं श्चतुर्गुणम् ॥२५॥

रसतन्मात्रसम्भूतं प्रायो रसगुणात्मकम् ।
भूमिस्तु गन्धतन्मात्रादभूत्पञ्चगुणान्विता ॥२६॥

प्रायो गन्धगुणा सा तु बुद्धिरेषा गरीयसी ।
एभिः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः ॥२७॥

ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः ।
एवं षड्‌विंशकं प्रोक्तं शरीर इह मानवे ॥२८॥

सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते ।
एतत्तत्त्वात्मकं कृत्वा जगद्वेधा अजीजनत् ॥२९॥

सावित्रीं लोकसृष्ट्यर्थं हृदि कृत्वा समास्थितः ।
ततः सञ्जपतस्तस्य भित्वा देहमकल्मषम् ॥३०॥

स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरुपवत् ।
शतरूपा च सा ख्याता सावित्री च निगद्यते ॥३१॥

सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप! ।
ततः स्वदेहसम्भूतामात्मजामित्यकल्पयत् ॥३२॥

दृष्ट्वा तां व्यथितस्तावत्कामबाणार्दितो विभुः ।
अहो रूपमहोरूपमितिचाह प्रजापतिः ॥३३॥

ततो वशिष्ठप्रमुखाः भगिनीमिति चुक्रुशुः ।
ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकनादृते ॥३४॥

अहो रूपमहोरूपमिति प्राह पुनः पुनः ।
ततः प्रणामनम्रान्तां पुनरेवाभ्यलोकयत् ॥३५॥

अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी ।
पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ॥३६॥

आविर्भूतं ततो वक्त्रं दक्षिणं पाण्डुगण्डवत् ।
विस्मयस्फुरदोष्ठञ्च पाश्चात्यमुदगात्ततः ॥३७॥

चतुर्थमभवत्पश्चाद्वामं कामशरातुरम् ।
ततोऽन्यदभवत्तस्य कामातुर तया तथा ॥३८॥

उत्पतन्त्यास्तदाकारा आलोकन कुतूहलात् ।
सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम् ॥३९॥

तत्‌ सर्वं नाशमगमत् स्वसुतोपगमेच्छया ।
तेनोर्ध्वं वक्त्रमभवत् पञ्चमं तस्य धीमतः ॥
आविर्भवज्जटाभिश्च तद्वक्त्रंञ्चावृणोत्प्रभुः ॥४०॥

ततस्तानब्रवीत् ब्रह्मा पुत्रानात्मसमुद्भवान् ।
प्रजाः सृजध्वमभितः सदेवासुरमानुषी ॥४१॥

एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः ।
गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् ॥४२॥

उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ।
सम्बभूव तया सार्द्धमतिकामातुरो विभुः ॥
सलज्जाञ्चकमे देवः कमलोदरमन्दिरे ॥४३॥

यावदब्दशतं दिव्यं यथान्यः प्राकृतो जनः ।
ततः कालेन महता तस्याः पुत्रोऽभवन्मनुः ॥४४॥

स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् ।
तद्रूपगुणसामान्यादधिपूरुष उच्यते ॥४५॥

वैराजा यत्र ते जाता बहवः शंसितव्रताः ।
स्वायम्भुवा महाभागाः सप्त सप्त तथापरे ॥४६॥

स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः ।
औत्तमिप्रमुखास्तद्वद्येषान्त्वं सप्तमोऽधुना ॥४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:44.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अनघ

  • वि. 
  • निष्पाप ; 
  • निर्मळ ; 
  • सुंदर . [ सं . ] 
More meanings
RANDOM WORD

Did you know?

परदेशात १३ हा आंकडा अशुभ कां मानतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site