संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २००

मत्स्यपुराणम् - अध्यायः २००

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


वशिष्ठवंशजान् विप्रान् नामगोत्रवंशप्रवरवर्णनम् ।
मत्स्य उवाच ।
वसिष्ठवंशजान् विप्रान् निबोध वदतो मम ।
एकार्षेयस्तु प्रवरो वासिष्ठानां प्रकीर्तितः ॥१॥

वसिष्ठा एव वासिष्ठा अविवाह्या वसिष्ठजैः ।
व्याघ्रपादा औपगवा वैक्लवाः शाद्वलायनाः ॥२॥

कपिष्ठला औपलोमा अलब्धाश्च षठाः कठाः ।
गौपयाना बोधपाश्च दाकव्या ह्यथ वाह्यकाः ॥३॥

वालिशयाः पालिशयास्ततो वाग्ग्रन्थयश्चये ।
आपस्थूणाः शीतवृत्ताः तथा ब्राह्म पुरेयकाः ॥४॥

लोमायनाः स्वस्तिकराः शाण्डिलिर्गौडिनिस्तथा ।
वाडोहलिश्च सुमनाश्चोपावृद्धिस्तथैव च ॥५॥

चौलिर्वौलिर्ब्रह्मबलः पौलिः श्रवस एव च ।
पौड़वो याज्ञवल्क्यश्च एकार्षेया महर्षयः ॥६॥

वसिष्ठ एषां प्रवर अवैवाह्याः परस्परम् ।
शैलालयो महाकर्णः कौरव्यः क्रोधिनस्तथा ॥७॥

कपिञ्जला वालखिल्या भागवित्तायनाश्च ये ।
कीलायनः कालशिखः कोरकृष्णाः सुरायणाः ॥८॥

शाकाहार्याः शाकधियः काण्वा उपलपाश्च ये ।
शाकायना उहाकाश्च अथ माषशरावयः ॥९॥

दाकायना वालवयो वाकयो गोरथास्तथा ।
लम्बायनाः श्यामवयो ये चकोडोदरायणाः ॥१०॥

प्रलम्बायनाश्च ऋषय औपमन्यव एव च ।
साङ्ख्यायनाश्च ऋषयस्तथा वै वेदशेरकाः ॥११॥

पालङ्कायन उद्गाहा ऋषयश्च बलेक्षवः ।
मातेया ब्रह्मबलिनः पर्णागारिस्तथैव च ॥१२॥

त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा ।
भिगीवसुर्वशिष्ठश्च इन्द्रप्रमदिरेव च ॥१३॥

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
औपस्थलास्वस्थलयो पालोहालो हलाश्च ये॥१४॥

माध्यन्दिनो माक्षतयः पैप्पलादिर्विचक्षुषः  ।
त्रैश्रृङ्गायन सैवल्काः कुण्डिनश्च नरोत्तम!॥१५॥

त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः ।
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ॥१६॥

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
शिवकर्णो वयश्चैव पादपश्च तथैव च ॥१७॥

त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा ।
जातूकर्ण्यो वसिष्ठश्च तथैवात्रिश्च पार्थिव !
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥१८॥

वसिष्ठवंशेऽभिहिता मयैते ऋषिप्रधानाः सततं द्विजेन्द्राः ।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP