TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६१

मत्स्यपुराणम् - अध्यायः ६१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ६१
सप्तलोकाधिपत्यप्राप्तिव्रतकथनम् ।

नारद उवाच ।
भूलोकोऽथभुवर्लोकः स्वर्लोकोऽथमहर्जनः ।
तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्तिताः ॥१॥

पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत् ।
इह लोके शुभं रूपमायुः सौभाग्यमेव च ।
लक्ष्मीश्च विपुला नाथ! कथं स्यात् पुरसूदन! ॥२॥

पुरा हुताशनः सार्द्धं मारुतेन महीतले ।
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम् ॥३॥

निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः ।
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः ।
विरोचनश्च संग्रामादपलायं स्तपोधन! ॥४॥

अम्भः सामुद्रमाविश्य सन्निवेशमकुर्वत ।
अशक्या इति तेऽप्यग्नि मारुताभ्यामुपेक्षिताः ॥५॥

ततः प्रभृति ते देवान् मनुष्यान् सह जङ्गमान् ।
संपीड्य च मुनीन् प्रविशन्ति पुनर्जलम् ॥६॥

एवं वर्षसहस्राणि वीराः पञ्च स सप्त च ।
जलदुर्गबलाद्‌ ब्रह्मन्! पीडयन्ति जगत्त्रयम् ॥७॥

ततः परमथो वह्नि मारुतावमराधिपः ।
आदिदेश चिरादम्बु निधिरेष विशोष्यताम् ॥८॥

यस्मादस्माद्‌ द्विषामेष शरणं वरुणालयः ।
तस्माद् भवद्भ्यामद्यैव क्षयमेष प्रणीयताम् ॥९॥

तावूचतुस्ततः शक्रमुभौ शम्बरसूदनम् ।
अधर्म्म एष देवेन्द्र! सागरस्य विनाशनम् ॥१०॥

यस्माज्जीवनिकायस्य महतः संक्षयो भवेत् ।
तस्मान्न पापमद्यावाङ्करवावः पुरन्दर! ॥११॥

अस्य योजनमात्रेऽपि जीवकोटिशतानि च ।
निवसन्ति सुरश्रेष्ठ! सकथं नाशमर्हति ॥१२॥

एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः ।
उवाचेदं वचो रोषान्निर्दहन्निवपावकम् ॥१३॥

न धर्माधर्म्मसंयोगं प्राप्नुवन्त्यमराः क्वचित् ।
भवतस्तु विशेषेण माहात्म्यञ्चाधितिष्ठति ॥१४॥

मदाज्ञालङ्घनं यस्मान्‌मारुतेन समन्त्वया ।
मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम् ॥
धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो! ॥१५॥

तस्मादेकेन वपुषा मुनिरूपेण मानुषे ।
मारुतेन समं लोके तव जन्म भविष्यति ॥१६॥

यदा च मानुषत्वेऽपि त्वयाऽगस्त्येन शोषितः ।
भविष्यत्युदधिर्वह्ने! तदा देवत्वमाप्स्यसि ॥१७॥

इतीन्द्रशापात् पतितौ तत्क्षणात् तौ महीतले ।
अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन! ॥१८॥

मित्रावरुणयोर्व्वीर्य्याद्वसिष्ठस्यानुजोऽभवत् ।
अगस्त्य इत्युग्रतपाः सम्बभूव पुनर्मुनिः ॥१९॥

नारद उवाच ।
सम्भूतः सकथं भ्राता वसिष्ठस्याभवन्मुनिः ।
कथञ्च मित्रावरुणौ पितरावस्य तौ स्मृतौ ॥
जन्मकुम्भादगस्त्यस्य कथं स्यात् पुरसूदन! ॥२०॥

ईश्वर उवाच ।
पुरा पुराणपुरुषः कदाचिद् गन्धमादने ।
भूत्वा धर्मसुतो विष्णुश्चचार विपुलन्तपः ॥२१॥

तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ ।
शक्रेण माधवानङ्गावप्सरोगणसंयुतौ ॥२२॥

तदा तद्गीतवाद्येन नाङ्गरागादिना हरिः ।
न काममाधवाभ्याञ्च विषयान् प्रतिचुक्षुभे ॥२३॥

तदा काममधुस्त्रीणां विषादमगमद्‌ गणः ।
संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः ॥
नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम् ॥२४॥

संक्षुब्धास्तु तया देवास्तौ तु देववरावुभौ ।
अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः ॥२५॥

अप्सरा इति सामान्या देवानामब्रवीद्धरिः ।
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति ॥२६॥

ततः कामयमानेन मित्रेणाहूय सोर्वशी ।
उक्ता मां रमयस्वेति बाढमित्यब्रवीत्तु सा ॥२७॥

गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा ।
वरुणेन धृता पश्चात् वरुणां नाभ्यनन्दत  ॥२८॥

मित्रेणाहं वृतापूर्वमद्य भार्या न ते विभो! ।
उवाच वरुणश्चित्तं मयि सन्न्यस्य गम्यताम् ॥२९॥

गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा ।
तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम् ॥३०॥

भजस्वेति यतो वेश्या धर्म एष त्वया कृतः
जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च ।
प्रक्षिप्तमथ सञ्जातौ द्वावेव मुनिसत्तमौ ॥३१॥

निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यतः ।
तत्रान्तरेऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः ॥३२॥

तस्य पूजामकुर्वन्तं शशाप समुनिर्नृपम् ।
विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः ॥३३॥

अन्योन्यशापाच्च तयो र्विगते इव चेतसी ।
जग्मतुः शापमानाय ब्रह्माणं जगतः पतिम् ॥३४॥

अथ ब्रह्मण आदेशाल्लोचनेष्ववसन्निमिः ।
निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद! ॥३५॥

वसिष्ठोऽप्यभवत् तस्मिन् जलकुम्भे च पूर्ववत् ।
ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः ॥
अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः ॥३६॥

मलयस्यैकदेशे तु वैखानसविधानतः ।
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुश्चरम् ॥३७॥

ततः कालेन महता तारकादतिपीडितम् ।
जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम् ॥३८॥

ततोऽस्य वरदाः सर्वे बभूवुः शङ्करादयः ।
ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः ।
वरं वृणीष्व भद्रन्ते यदभीष्टञ्च वै मुने! ॥३९॥

यावद्‌ ब्रह्मसहस्राणां पञ्चविंशतिकोटयः ।
वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि ॥४०॥

मद्विमानोदये कुर्याद्यः कश्चित् पूजनं मम ।
स सप्तलोकाधिपतिः पर्यायेण भविष्यति ॥४१॥

ईश्वर उवाच ।
एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम् ।
तस्मादर्घः प्रदातव्यो ह्यगस्त्यस्य सदा बुधैः ॥४२॥

नारद उवाच ।
कथमर्घप्रदानन्तु कर्त्तव्यं तस्य वै विभो! ।
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ॥४३॥

ईश्वर उवाच ।
प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि ।
स्नानं शुक्लतिलैस्तद्वत् शुक्लमाल्याम्बरो गृही ॥४४॥

ख्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम् ।
पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम् ॥४५॥

अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमेवायतबाहुदण्डम् ।
चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि ॥४६॥

सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्यात् द्विजपुङ्गवाय ।
उत्‌क्षिप्य लम्बोदरदीर्घबाहुमनन्यचेता यमदिङ्‌मुखः सन् ॥४७॥

श्वेताञ्च दद्याद्यदि शक्तिरस्ति रोप्यैः खुरैर्हेममुखीं सवत्साम् ।
धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय ॥४८॥

आसप्तरात्रोदयमेतदस्य दातव्यमेतत् सकलं नरेण ।
यावत् समाः सप्तदशाथ वास्युरथोर्ध्वमप्यत्र वदन्ति केचित् ॥४९॥

काशपुष्पप्रतीकाश! अग्निमारुतसम्भव ।
मित्रावरुणयोः पुत्र! कुम्भयोने! नमोऽस्तु ते  ।
प्रत्यब्दन्तु फलैर्यागमेवं कुर्वन्न सीदति ॥५०॥

होमं कृत्वा ततः पश्चाद्वर्जयेन्मानवः फलम् ।
अनेन विधिनायस्तु पुमानर्घ्यं निवेदयेत् ॥५१॥

इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः ।
द्वितीयेन भुवर्लोकं स्वर्लोकञ्च ततः परम् ॥५२॥

सप्तैव लोकानाप्नोति सप्तार्घ्यान्यः प्रयच्छति ।
यावदायुश्च यः कुर्यात् परं ब्रह्माधिगच्छति ॥५३॥

इह पठति श्रृणोति वा य एतद्युगलमुनिप्रभवार्घ्यसंप्रदानम् ॥
मतिमपि च ददाति सोऽपि विष्णोर्भवनगतः परिपूज्यतेऽमरौघैः ॥५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:47.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ridge line

  • परिधि बिंदु 
RANDOM WORD

Did you know?

तीन रस्ते एकत्र येऊन मिळतात, त्या ठिकाणास काय म्हणतात
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.