संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८

मत्स्यपुराणम् - अध्यायः ८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


आधिपत्याभिषेचनम् ।

ऋषय ऊचुः ।
आदिसर्गश्च यः सूत! कथितो विस्तरेण तु ।
प्रतिसर्गञ्च ये येषामधिपास्तान् वदस्व नः ॥१॥

सूत उवाच ।
यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव ।
तदौषधीनामधिपं चकार यज्ञव्रतानां तपसाञ्च चन्द्रम् ॥२॥

नक्षत्रताराद्विजवृक्षगुल्म लतावितानस्य च रुक्म गर्भः ।
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणञ्च तद्वत् ॥३॥

विष्णुं रवीणामधिपं वसूनामग्निञ्च लोकाधिपतिश्चकार ।
प्रजापतीनामधिपं च दक्षञ्चकार शक्रं मरुतामधीशम् ॥४॥

दैत्याधिपानामथ दानवानां प्रह्लादमीशञ्च यमं पितॄणाम् ।
पिशाचरक्षःपशुभूतयक्षवेतालराजन्त्वथ शूलपाणिम् ॥५॥

प्रालेय शैलञ्च पतिं गिरीणामीशं समुद्रं ससरिन्नदानाम् ।
गन्धर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार ॥६॥

नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश ।
दिशाङ्गजानामधिपञ्चकार गजेन्द्रमैरावतनामधेयम् ॥७॥

सुपर्णमीशम्पततामथाश्व राजानमुच्चैःश्रवसञ्चकार ।
सिंहं मृगाणां वृषभं गवाञ्च वृक्षं पुनः सर्ववनस्पतीनाम् ॥८॥

पितामहः पूर्वमथाभ्यषिञ्चच्चैतान् पुनः सर्वदिशाधिनाथान् ।
पूर्वेण दिक्‌पालमथाभ्यषिञ्चन्नाम्ना सुधर्माणमरातिकेतुम् ॥९॥

ततोऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम् ।
सकेतुमन्तञ्च दिगीशमीशश्चकार पश्चाद् भुवनाण्डागर्भः ॥१०॥

हिरण्यरोमाणमुदग्दिगीशं प्रजापतिर्देवसुतञ्चकार ।
अद्यापि कुर्वन्ति दिशामधीशाः शत्रून् दहन्तस्तु भुवोभिरक्षाम् ॥११॥

चतुर्भिरेभिः पृथुनामधेयो नृपोऽभिषिक्तः प्रथमं पृथिव्याम् ।
गतेऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते
प्रजापतिः सोऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP