TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६७

मत्स्यपुराणम् - अध्यायः १६७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १६७
यज्ञावतारवर्णनम् ।
मत्स्य उवाच ।
एकार्णवीभूते शेते लोके महाद्युतिः ।
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणस्तदा ॥१॥

महतो रजसो मध्ये महार्णव सरःसु वै ।
विरजस्कं महाबाहुमक्षयं ब्रह्म यं विदुः ॥२॥

आत्मरूपप्रकाशेन तमसा संवृतः प्रभुः ।
मनः सात्त्विकमाधाय यत्र तत् सत्यमासत ॥३॥

याथातथ्यं परं ज्ञानं भूतन्तद्ब्रह्मणा पुरा!
रहस्यारण्यकोद्दिष्टं यच्चौपनिषदं स्मृतम् ॥४॥

पुरुषो यज्ञ इत्येतत् यत्परं परिकीर्तितम् ।
यश्चान्यः पुरुषाख्यः स्यात् स एष पुरुषोत्तमः ॥५॥

ये च यज्ञ करा विप्रा येचर्त्विज इति स्मृताः ।
अस्मादेवपुरा भूता यज्ञेभ्यः श्रूयतां तथा ॥६॥

ब्रह्माणं प्रथमं वक्त्रादुद्गातारञ्च सागरम् ।
होतारमपि चाध्वर्युं बाहुभ्यामसृजत् प्रभुः ॥७॥

ब्रह्मणो ब्राह्मणाच्छंसि प्रस्तोतारञ्च सर्वशः ।
तौ मित्रावरुणौ पृष्ठात् प्रतिप्रस्तारमेव च ॥८॥

उदरात् प्रतिहर्त्तारं होतारञ्चैव पार्थिव! ।
अच्छा वाकमथोरुभ्यां न्नेष्टारञ्चैव पार्थिव! ॥१६७.९॥

पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यञ्च जानुतः ।
ग्रावस्तुतन्तु पादाभ्यामुन्नेतारञ्च याजुषम् ॥१०॥

एवमेवैष भगवान् षोडशैव जगत्पतिः ।
प्रवक्तॄन् सर्वयज्ञानामृत्विजोऽसृजदुत्तमान् ॥११॥

तदेष वै वेदमयः पुरुषो यज्ञसंस्थितः ।
वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः ॥१२॥

स्वपित्येकार्णवे चैव यदाश्चर्यमभूत् पुरा ।
श्रूयन्तां तद्यथा विप्रा! मार्कण्डेय कुतूहलम् ॥१३॥

गीर्णा भगवतस्तस्य कुक्षावेव महामुनिः ।
बहुवर्षसहस्रायुस्तस्यैव वरतेजसा ॥१४॥

अटंस्तीर्थप्रसङ्गेन पृथिवीतीर्थगोचरान् ।
आश्रमाणि च पुण्यानि देवतायतनानि च ॥१५॥

देशान् राष्ट्राणि चित्राणि पुराणि विविधानि च ।
जप होमपरः शान्तस्तपोघोरं समास्थितः ॥१६॥

मार्कण्डेयस्ततस्तस्य शनैर्वक्त्त्राद्विनिः सृतः ।
स निष्क्रामन्नचात्मानं जानीते देवमायया ॥१७॥

निष्क्रम्याप्यस्य वदनादेकार्णवमथो जगत् ।
सर्वतस्तमसाच्छन्नं मार्कण्डेयोऽन्ववैक्षत ॥१८॥

तस्योत्पन्नं भयन्तीव्रं संशयश्चात्मजीविते ।
देवदर्शन संहृष्टो विस्मयं परमङ्गतः ॥१९॥

चिन्तयन् जलमध्यस्थो मार्कण्डेयोऽन्ववैक्षतः ।
किन्तु स्यान्मम चिन्तेयं मोहः स्वप्नोऽनुभूयते ॥२०॥

व्यक्तमन्यतमोभावस्तेषां सम्भावितो मम ।
नहीदृशं जगत् क्लेशमयुक्तं सत्यमर्हति ॥२१॥

नष्टचन्द्रार्कपवने नष्टपर्वतभूतले ।
कतमः स्यादयं लोक इति चिन्तामवस्थितः ॥२२॥

ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम् ।
सलिलेऽर्द्धमथो मग्नं जीमूतमिव सागरे ॥२३॥

ज्वलन्तमिव तेजोभिः गोयुक्तमिव भास्करम् ।
शर्वर्यां जाग्रतमिव भासन्तं स्वेन तेजसा ॥२४॥

देवं द्रष्टुमिहायातः को भवानिति विस्मयात् ।
तथैव स मुनिः कुक्षिं पुनरेव प्रवेशितः ॥२५॥

सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयोऽतिविस्मयः ।
तथैव च पुनर्भूयो विजानन् स्वप्नदर्शनम् ॥२६॥

स तथैव यथा पूर्वं यो धरामटते पुरा ।
पुण्यतीर्थ जलोपेतां विविधान्याश्रमाणि च ॥२७॥

क्रतुभिर्यजमानांश्च समाप्तवरदक्षिणान् ।
अपश्यद्दैवकुक्षिस्थान् याजकान् शतशोद्विजान् ॥२८॥

सद्वृत्तमास्थिताः सर्वे वर्णा ब्राह्मणपूर्वकाः ।
चत्वारश्चाश्रमाः सम्यग्यथोद्दिष्टा मया तव ॥२९॥

एवं वर्षशतं साग्रं मार्कण्डेयस्य धीमतः ।
चरतः पृथिवीं सर्वान्न कुक्ष्यन्तः समीक्षितः ॥३०॥

ततः कदाचिदथ वै पुनर्वक्त्राद्विनिस्सृतः ।
गुप्तं न्यग्रोधशाखायां बालमेकं निरैक्षत ॥३१॥

तथैवैकार्णव जले नीहारेणावृताम्बरे ।
अव्यग्रः क्रीडते लोके सर्वभूत विवर्जिते ॥३२॥

स मुनिर्विस्मयाविष्टः कौतूहल समन्वितः ।
बालमादित्यसङ्काशं नाशक्नोदभिवीक्षितुम् ॥३३॥

स चिन्तयन् तथैकान्ते स्थित्वा सलिलसन्निधौ ।
पूर्वदृष्टमिदं मन्ये शङ्कितो देवमायया ॥३४॥

अगाधसलिले तस्मिन् मार्कण्डेयः सुविस्मयः ।
प्लवंस्तथार्त्तिमगमत् भयात् सन्त्रस्तलोचनः ॥३५॥

स तस्मै भगवानाह स्वागतं बालयोगवान् ।
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥३६॥

माभै र्वत्स! न भेतव्यमिहैवायाहि मेऽन्तिकम् ।
मार्कण्डेयो मुनिस्त्वाह बालन्तं श्रमपीडितः ॥३७॥

मार्कण्डेय उवाच ।
कोमान्नाम्ना कीर्तयति तपः परिभवन्मम ।
दिव्यं वर्षसहस्राख्यं धर्षयन्निवमेव यः ॥३८॥

नह्येष वः समाचारो देवेष्वपि ममोचितः ।
मां ब्रह्मापि हि देवेशो दीर्घायुरिति भाषते ॥३९॥

कस्तपो घोरमासाद्य मामद्य त्यक्तजीवितः ।
मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हति ॥४०॥

एवमाभाष्य तं क्रोधान्मार्कण्डेयो महामुनिः ।
तथैव भगवान् भूयो बभाषे मधुसूदनः ॥४१॥

भगवानुवाच ।
अहं ते जनको वत्स! हृषीकेशः पिता गुरुः ।
आयुः प्रदाता पौराणः किं मां त्वन्नोपसर्पसि ॥४२॥

मां पुत्रकामः प्रथमं पिता तेऽङ्गिरसो मुनिः ।
पूर्वमाराधयामास तपस्तीव्रं समाश्रितः ॥४३॥

ततस्त्वां घोरतपसा प्रावृणोदमितौजसम् ।
उक्तवानहमात्मस्थं महर्षिममितौजसम् ॥४४॥

कः समुत्सहते चान्यो यो न भूतात्मकात्मजः ।
द्रष्टुमेकार्णवगतं क्रीडन्तं योगवर्त्मना ॥४५॥

ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः ।
मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ॥४६॥

नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः ।
तस्मै भगवते भक्त्या नमस्कारमथाकरोत् ॥४७॥

मार्कण्डेय उवाच ।
इच्छेयं तत्त्वतो मायामिमां ज्ञातुं तवानघ! ।
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥४८॥

किं संज्ञश्चैव भगवन्! लोके विज्ञायसे प्रभो!
तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति ॥४९॥

श्रीभगवानुवाच ।
अहं नारायणो ब्रह्मन्! सर्वभूः सर्वनाशनः ।
अहं सहस्रशीर्षाख्यैः यः पदैरभिसंज्ञितः ॥५०॥

आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः ।
अहमग्निर्हव्यवाहो यादसां पतिरव्ययः ॥५१॥

अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः ।
अहं योगी युगाख्यश्च युगान्तावर्त एव च ॥५२॥

अहं सर्वाणि सत्वानि दैवतान्यखिलानि तु ।
भुजङ्गानामहं शेषो तार्क्ष्यो वै सर्वपक्षिणाम् ॥५३॥

कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः ।
अहं धर्म्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥५४॥

अहं चैव सरिद्दिव्या क्षीरोदश्च महार्णवः ।
यत्तत् सत्यं च परममहमेकः प्रजापतिः ॥५५॥

अहं सांख्यमहं योगोऽप्यहं तत्परमम्पदम् ।
अहमिज्या क्रिया चाहमहं विद्याधिपःस्मृतः ॥५६॥

अहं ज्योतिरहं वायुरहं भूमिरहं नभः ।
अहमापः समुद्राश्च नक्षत्राणि दिशो दश ॥५७॥

अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः ।
क्षीरोदसागरे चाहं समुद्रे वडवामुखः ॥५८॥

वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः ।
अहं पुराणः परमं तथैवाहं परायणम् ॥१६७.५९॥

अहं भूतस्य भव्यस्य वर्तमानस्य सम्भवः ।
यत् किञ्चित् पश्यसे विप्र! यच्छृणोषि च किञ्चन ॥६०॥

यल्लोके चानुभवसि तत् सर्वं मामनुस्मर ।
विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि पश्य माम् ॥६१॥

युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् ।
तदेतदखिलं सर्वं मार्कण्कडेयावधारय ॥६२॥

शुश्रूषुर्मम धर्माश्च कुक्षौ चर सुखं मम ।
मम ब्रह्मा शरीरस्थो देवैश्च ऋषिभिः सह ॥६३॥

व्यक्तमव्यक्तयोगं मामवगच्छासुरद्विषम् ।
अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव तारकः ॥६४॥

परस्त्रिवर्गादोङ्कार स्त्रिवर्गार्थनिदर्शनः ।
एवमादिपुराणेशो वदन्नेव महामतिः ॥६५॥

वक्त्रमाहृतवानाशु मार्कण्डेयं महामुनिम् ।
ततो भगवतः कुक्षि प्रविष्टो मुनिसत्तमः ॥६६॥

स तस्मिन् सुखमेकान्ते शुश्रूषुर्हंसमव्ययम् ।
योऽहमेव विविधतनुं परिश्रितो महार्णवे व्यपगतचन्द्रभास्करे ।
शनैश्चरन् प्रभुरपि हंससंज्ञितोऽसृजं जगद्विरहितकालपर्यये ॥६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.6170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

chemisorption

  • न. रासायनिक अभिशोषण 
  • न. रासायनिक अधिशोषण 
  • absorption 
  • न. रासायनिक अधिशोषण 
More meanings
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.