संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९४

मत्स्यपुराणम् - अध्यायः ९४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


नवग्रहस्वरूपवर्णनम् ।

शिव उवाच ।
पद्मासनः पद्मकरः पद्मगर्भसमद्युति ।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः ॥१॥

श्वेतः श्वेताम्वरधरः श्वेताश्वः श्वेतवाहनः ।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥२॥

रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजः श्वेतरोमा वरदः स्याद्वरासुतः ॥३॥

पीतमाल्याम्बधरः कर्णिकारसमद्युतिः ।
खङ्गचर्म्मगदापाणिः सिंहस्थो वरदो बुधः ॥३॥

देवदैत्यगुरू तद्वत्पीतश्वेतो चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥५॥

इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
बाणबाणासनधरः कर्तव्योऽर्कसुतस्तथा ॥६॥

नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ।
ध्रूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ॥
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥७॥

सर्वे किरीटिनः कार्य्या ग्रहलोकहितावहाः ।
ह्यङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP