संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५७

मत्स्यपुराणम् - अध्यायः १५७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पार्वतीम्प्रति ब्रह्मवरदानम् ।

देव्युवाच ।
मातरं मां परित्यज्य यस्मात्त्वं स्नेह विक्लवात् ।
विहितावसरः स्त्रीणां शङ्करस्य रहो विधौ ॥१॥

तस्मात्ते पुरुषा रुक्षा जडा हृदयवर्जिता ।
गणेश क्षारसदृशी शिला माता भविष्यति ॥२॥

निमित्तमेतद्विख्यातं वीरकस्य शिलोदये ।
सोऽभवत्प्रक्रमेणैव विचित्राक्यान संशयः ॥३॥

एवमुत्सृष्टशापायाः गिरिपुत्र्यस्त्वनन्तरम् ।
निर्जगाम मुखात् क्रोधः सिंहरूपी महाबलः ॥४॥

स तु सिंहः करालास्यो जटाजटिलकन्धरः ।
प्रोद्धूत लम्बलाङ्गूलो दंष्टोत्कट मुखातटः ॥५॥

व्यावृत्तास्यो ललज्जिह्वः क्षामकुक्षिः शिरादिषु ।
तस्याशु वर्तितुं देवी व्यवस्यत सती तदा ॥६॥

ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः ।
आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ॥७॥

ब्रह्मोवाच ।
किं पुत्रि! प्राप्तुकामासि किमलभ्यं ददामि ते ॥८॥

विरम्यतामतिक्लेशात् तपसोऽस्मान् मदाज्ञया ।
तच्छ्रुत्वोवाच गिरिजा गुरुङ्गौरव गर्भितम् ॥९॥

वाक्यं वाचा चिरोद्गीर्ण वर्णनिर्णींत वाञ्छितम् ।
देव्युवाच ।
तपसा दुष्करेणाप्तः परित्वे शङ्करो मया ॥१०॥

स मां श्यामलवर्णेति बहुशः प्रोक्तवान् भवः ।
स्यामहं काञ्चनाकारा वाल्लभ्ये न च संयुता ॥११॥

भर्तुर्भूतपतेरङ्गमेकतो निर्विशेऽङ्कवत् ।
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच कमलासनः ॥१२॥

एवं भव त्वं भूयश्च भर्तृदेहार्द्धधारिणी ।
ततस्तस्याज भृङ्गाङ्गं फुल्लनीलोत्पलत्वचम् ॥१३॥

त्वचा सा चाभवद्दीप्ता घण्टा हस्ताविलोचना ।
नानाभरणपूर्णाङ्गी पीतकौशेयधारिणी ॥१४॥

तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम् ।
निशे भूधरजा देह सम्पर्कात्त्वं ममाज्ञया ॥१५॥

सम्प्राप्ता कृतकृत्यत्वमेकानंशा पुराह्यसि ।
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ॥१६॥

स तेऽस्तु वाहनं देवि! केतौ चास्तु महाबलः ।
गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि ॥१७॥

पञ्चालो नाम यक्षोऽयं यक्षलक्षपदानुगः ।
दत्तस्ते किङ्करो देवि! मया मायाशतैर्यतः ॥१८॥

इत्युक्ता कौशिकी देवी विन्ध्य शैलं जगाम ह ।
उमापि प्राप्तसङ्कल्पा जगाम गिरिशान्तिकम् ॥१९॥

प्रविशन्तीति तां द्वारि ह्यपकृष्य समाहितः ।
रुरोध वीरको देवीं हेम वेत्र लताधरः ॥२०॥

तामुवाच च कोपेन रूपात्तु व्यभिचारिणीम् ।
प्रयोजनं न तेऽस्तीह गच्छ यावन्न भेस्त्यसि ॥२१॥

देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह ।
प्रविष्टो न च दृष्टोऽसौ स वै देवेन घातितः ॥२२॥

घातिते चाहमाज्ञप्तो नीलकण्ठेन कोपिना ।
द्वारेषु नावधानं ते यस्मात् पश्यामि वै ततः ॥२३॥

भविष्यसि नमद्द्वास्थो वर्ष पूगान्यनेकशः ।
अतस्तेऽत्र न दास्यामि प्रवेशं गम्यतां द्रुतम् ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP