TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२०

मत्स्यपुराणम् - अध्यायः १२०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १२०
मद्रेश्वरस्य क्रीडाविहारवर्णनम् ।
सूत उवाच ।
स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः ।
क्रीडाविहारं गन्धर्वैः पश्यत्यप्सरसां सह ॥१॥

कृत्वा पुष्पोच्चयं भूरि ग्रथयित्वा तथा स्रजाः ।
अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ ॥२॥

पुष्पोच्चयप्रसक्तानां क्रीड़न्तीनां यथा सुखम् ।
चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति ॥३॥

काचित् पुष्पोच्चये सक्ता लताजालेन वेष्टिता ।
सखीजनेन सन्त्यक्ता कान्तेनाभिसमुज्झिता ॥४॥

काचित्‌ कमलगन्धाभा निश्वासपवनाहृतैः ।
मधुपैराकुलमुखी कान्तेन परिमोचिता ॥५॥

मकरन्दसमाक्रान्तनयना काचिदङ्गना ।
कान्तनिश्वासवातेन नीरजंस्ककृतेक्षणा ॥६॥

काचिदुच्चीय पुष्पाणि ददौ कान्तस्य भामिनी ।
कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा ॥७॥

उच्चीयस्वयमुद्‌ग्रथ्य कान्तेन कृतशेखरा ।
कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी ॥८॥

अस्त्यस्मिनाहने कुञ्जे विशिष्टकुसुमा लता ।
काचिदेवं रहो नीता रमणेन रिरंसुना ॥९॥

कान्तसन्नामितलता कुसुमानि विचन्वती ।
सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम् ॥१०॥

काश्चित् पश्यन्ति भूपालं नलिनीषु पृथक्‌ पृथक् ।
क्रीडमानास्तु गन्धर्वै रममाणामनोरमाः ॥११॥

काचिदाताडयत् कान्तमुदकेन शुचिस्मिता ।
ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ ॥१२॥

कान्तञ्च ताडयामास जातखेदा वराङ्ना ।
अद्रृश्यत वरारोहा श्वासनृत्यत्पयोधरा ॥१३॥

कान्ताम्बुताडनोद्‌घृष्टकेशपाशनिबन्धना ।
केशाकुलमुखी भाति मधुपैरिव पद्मिनी ॥१४॥

स्वचक्षुः सद्रृशैः पुष्पैः संच्छन्ने नलिनीवने ।
छन्ना काचिच्चिरात् प्राप्ता कान्तेनान्विष्य यत्नतः ॥१५॥

स्नाता शीतापदेशेन काचित् प्राहाङ्गना भृशम् ।
रमणालिङ्गनं चक्रे मनोऽभिलषितञ्चिरम् ॥१६॥

जलार्द्रवसनं सूक्ष्ममङ्गलीनं शुचिस्मिता ।
धारयन्ती जनं चक्रे काचित्तत्र समन्मथम् ॥१७॥

कण्ठमाल्यगुणैः काचित् कान्तेनाकृष्यताम्भसि ।
त्रुट्यत्स्रग्दामपतितं रमणं प्राह सच्चिरम् ॥१८॥

काचिद् भग्ना सखीदत्त जानुदेशे नखक्षता ।
संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम् ॥१९॥

काचित् पृष्ठकृतादित्या केशनिस्तोयकारिणी ।
शिलातलगता भर्त्रा द्रष्टा कामार्तचक्षुषा ॥२०॥

कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम् ।
तरिक्रीडितकान्तेव रराज तत् सरोदकम् ॥२१॥

सुस्नातदेवगन्धर्व देवरामागणेन च ।
पूज्यमानञ्च दद्रृषे देवदेवं जनार्दनम् ॥२२॥

क्वचिच्च दद्रृशे राजा लतागृहगताः स्त्रियः ।
मण्डयन्तीः स्वगात्राणि कान्तसंन्यस्तमानसाः ॥२३॥

काचिदादर्शनकरा व्यग्रा दूतीमुखोद्रतम् ।
श्रृण्वन्ती कान्तवचनमधिका तु तथा बभौ ॥२४॥

काचित् सत्वरिता दूत्या भूषणानां विपर्ययम् ।
कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना ॥२५॥

वायुनुन्नातिसुरिभि कुसुमोत्करमण्डिते ।
काञ्चित् पिबन्तीं दद्रृशे मैरेयं नीलशाद्वले ॥२६॥

पाययामास रमणं स्वयं काचिद्वराङ्गना ।
काचित् पपौ वरारोहा कान्तपाणिसमर्पितम् ॥२७॥

काचित् स्वनेत्रचपल नीलोत्पलयुतम्पयः ।
पीत्वा पप्रच्छ रमणं क्व गतौ तौ ममोत्पलौ ॥२८॥

त्वयैव पीतौ तौ नूनमित्युक्ता रमणेन सा ।
तथा विदित्वा मुग्धत्वाद् बभूव व्रीडिता भृशम् ॥२९॥

काचित् कान्तार्पितं सुभ्रुः कान्तपीतावशेषितम् ।
सविशेषरसं पानं पपौ मन्मथवर्धनम् ॥३०॥

अपानगोष्ठीषु तथा तासां स नरपुङ्गवः ।
शुश्राव विविधङ्गीतं तन्त्रीस्वरविमिश्रितम् ॥३१॥

प्रदोषसमये ताश्च देवदेवं जनार्दनम् ।
राजन्! सदोपनृत्यन्ति नानावाद्यपुरः सराः ॥३२॥

याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात् ।
आवसन् संयुताः कान्तैः परर्धिरचिताङ्गुहाम् ॥३३॥

नानागन्धान्वितलतां नानागन्धसुगन्धिनीम् ।
नानाविचित्रशयनां कुसुमोत्‌करमण्डिताम् ॥३४॥

एवमप्सरसां पश्यन् क्रीडितानि स पर्वते ।
तपस्तेपे महाराजन्! केशवार्पितमानसः ॥३५॥

तमूचुर्नृपतिङ्गत्वा गन्धर्वाप्सरसाङ्गणाः ।
राजन्! स्वर्गोपमन्देशमिमं प्राप्तोऽस्यरिन्दम! ॥३६॥

वयं हि प्रदास्यामो मनसः कांक्षितान्वरान् ।
तानादाय गृहङ्गच्छ तिष्ठेह यदि वा पुनः ॥३७॥

राजोवाच ।
अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः ।
वरं वितरताद्यैव प्रसादं मधुसूदनात् ॥३८॥

एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः ।
तत्रोवास सुखीमासं पूजयानो जनार्दनम् ॥३९॥

प्रिय एव सदैवासीद् गन्धर्वाप्सरसां नृपः ।
तुतोष स जनो राज्ञस्तस्या लौल्येन कर्म्मणा ॥४०॥

मामस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम् ।
तोयाशनस्तत्र उवास मासं यावत् सितान्तो नृप! फाल्गुनस्य ॥४१॥

फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः ।
तस्यैव देवदेवस्य श्रुतवान् गदितं शुभम् ॥४२॥

रात्र्यामस्यां व्यतीतायामत्रिणा त्वं समेष्यसि ।
तेन राजन्! समागम्य कृतकृत्यो भविष्यसि ॥४३॥

स्वप्नमेवं स राजर्षिर्द्रृष्ट्वा देवेन्द्रविक्रमः ।
प्रत्यूषकाले विधिवत् स्नातः स प्रयतेन्द्रियः ॥४४॥

कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम् ।
ददर्शात्रिं मुनिं राजा प्रत्यक्षं तपसां निधिम् ॥४५॥

स्वप्नन्तु देवदेवस्य न्यवेदयत धार्मिकः ।
ततः श्रुश्राव वचनं देवतानां समीरितम् ॥४६॥

एवमेतन्महीपाल! नात्र कार्य्या विचारणा ।
एवं प्रसादं संप्राप्य देवदेवाज्जनार्दनात् ॥४७॥

कृतदेवार्चनो राजा तथा हुतहुताशनः ।
सर्वान् कामानवाप्तोऽसौ वरदानेन केशवात् ॥४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बिमुखी

  • स्त्री. दुतोंडी जातीचा एक साप ; माडुळ . [ हिं . बे - बी + मुख ] 
RANDOM WORD

Did you know?

केस काढण्यासंबंधी विशेष माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site