TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९३

मत्स्यपुराणम् - अध्यायः ९३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ९३
ग्रहशान्तिवर्णनम् ।

सूत उवाच ।
वैशम्पायनमासीनमपृच्छच्छौनकः पुरा ।
सर्वकामाप्तये नित्यं कथं शान्तिक पौष्टिकम् ॥१॥

वैशम्पायन उवाच ।
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।
वृध्यायुः पुष्टिकामो वा तथैवाभिचरन्‌ पुनः ॥
येन ब्रह्मन्! विधानेन तन्मे निगदतः श्रृणुः ॥२॥

सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् ।
ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिनोदिताम् ॥३॥

पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ।
ग्रहान्‌ ग्रहादिदेवांश्च स्थाप्य होमं समारभेत् ॥४॥

ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।
प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् ॥५॥

तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः ।
अयुतेनाहुतीनाञ्च नवग्रहमखः स्मृतः ॥६॥

तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् ।
गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ॥७॥

वप्रद्वयावृतां वेदिं वितस्त्युच्छ्रयसम्मिताम् ।
संस्थापनाय देवानाञ्चतुरस्रामुदङ्मुखाम् ॥८॥

अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् ।
देवतानां ततः स्थाप्य विंशतिर्द्वादशाधिका ॥९॥

सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः ।
राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः ॥१०॥

मध्ये तु भास्करं विन्द्याल्लोहितं दक्षिणेन तु ।
उत्तरेण गुरुं विन्द्याद्‌बुधं पूर्वोत्तरेण तु ॥११॥

पूर्वेण भार्गवं विन्द्यात् सोमं दक्षिणपूर्वके ।
पश्चिमेन शनिं विन्द्याद्राहुं पश्चिमदक्षिणे ॥
पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतण्डुलैः ॥१२॥

भास्करस्येश्वरं विन्द्यादुमाञ्चशशिनस्तथा ।
स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् ॥१३॥

ब्रह्माणञ्च गुरोर्विन्द्याच्छक्रस्यापि शचीपतिम् ।
शनैश्चरस्य तु यमं राहोः कालं तथैव च ॥१४॥

केतौर्वै चित्रगुप्तञ्च सर्वेषामधिदेवताः ।
अग्निरापः क्षिपिर्विष्णुरिन्द्र ऐन्द्रीच देवताः ॥१५॥

प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः ।
विनायकं तथा दुर्गां वायुराकाशमेव च ।
आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ ॥१६॥

संस्मरेत् रक्तकादित्यमङ्गारकसमन्वितम् ।
सोमशुक्रौ तथा श्वेतौ बुधजीवौ जपिङ्गलौ ॥
मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः ॥१७॥

ग्रहवर्णानि देयानि वासांसि कुसुमानि च ।
धूपामोदोऽत्र सरभिरुपरिष्टाद्वितानिकम् ।
शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम् ॥१८॥

गुड़ौदनं रवेर्दद्यात् सोमाय घृतपायसम् ।
अङ्गारकाय संयावं बुधाय क्षीरषष्टिके ॥१९॥

दध्योदनञ्च जीवाय शुक्राय च गुड़ौदनम् ।
शनैश्चराय कृसरामजामांसञ्च राहवे ॥
चित्रौदनञ्च केतुभ्यः सर्वैर्भक्ष्यैरथार्चयेत् ॥२०॥

प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् ।
चूतपल्लवसंच्छन्नं फलवस्त्रयुगान्वितम् ॥२१॥

पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम् ।
स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् ॥२२॥

गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
गजाश्वरथ्यावल्मीकसङ्गमाद्रतगोकुलात् ॥२३॥

मृदमानीयविप्रेन्द्र! सर्वौषधिजलान्वितम् ।
स्नानार्थं विन्यसेत् तत्र यजमानस्य धर्म्मवित् ॥२४॥

सर्वे समुद्राः सरितः सरांसि च नदास्तथा ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥२५॥

एवमावाहयेदेतानमरान्‌ मुनिसत्तम! ।
होमं समारभेत् सर्पिर्यवव्रीहितिलादिना ॥२६॥

अर्कः पालाशखदिरावपामार्गोऽथपिप्पलः ।
औदुम्बरः शमीदूर्वा कुशाश्च समिधः क्रमात् ॥२७॥

एकैकस्याष्टकशतमष्टाविंशतिमेव वा ।
होतव्या मधुसर्पिभ्यां दध्ना चैव समन्विताः ॥२८॥

प्रादेशमात्रा अशिफा अशाखा अपलाशिनीः ।
समिधः कल्पयेत्प्राज्ञः सर्वकर्म्मसु सर्वदा ॥२९॥

देवानामपि सर्वेषामुपांशु परमार्तवित् ।
स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् ॥३०॥

होतव्यं च घृताभ्युक्तं चरु भक्षादिकं पुनः ।
मन्त्रैर्दशाहुतीर्हुत्वा होमं व्याहृतिभिस्ततः ॥३१॥

उदङ्‌मुखाः प्राङ्‌मुखा वा कुर्युर्ब्राह्मणपुङ्गवाः ।
मन्त्रवन्तश्च कर्त्तव्या श्चरवः प्रतिदैवतम् ॥३२॥

हुत्वा च तांश्चरून् सम्यक् ततो हामं समाचरेत् ।
आकृष्णेति च सूर्य्याय होमः कार्यो द्विजन्मना ॥३३॥

आप्यायस्वेतिसोमाय मन्त्रेण जुहुयात् पुनः ।
अग्निर्मूर्द्धादिवो मन्त्र इति भौमाय कीर्तयेत् ॥३४॥

अग्ने! विवस्वदुषस इति सोमसुताय वै ।
बृहस्पते! परिदीया रथेनेति गुरोर्मतः ॥३५॥

शुक्रन्ते अन्यदितिच शुक्रस्यापि निगद्यते ।
शनैश्चरायेति पुनः शन्नो देवीति होमयेत् ॥
कयानश्चित्र आभुव इति राहोरुदाहृतः ॥३६॥

केतुं कृण्वन्नितिब्रूयात् केतूनामपि शान्तये ।
आवो राजेति रुद्रस्य बलिहोमं समाचरेत् ॥
आपोहिष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा ॥३७॥

विष्णोरिदं विष्णुरिति तमीशेति स्वयम्भुवः ।
इन्द्रमिद्देवतायेति इन्द्राय जुहुयात्ततः ॥३८॥

तथा यमस्यचायं गौरिति होमः प्रकीर्त्तितः ।
कालस्य ब्रह्मयज्ञानमिति मन्त्रविदो विदुः ॥४०॥

चित्रगुप्तस्य चाज्ञातमिति मन्त्रविदो विदुः ।
अग्निं दूतं वृणीमहे इति वह्नेरुदाहृतः ॥४१॥

उदुत्तमं वरुणमित्यापां मन्त्रः प्रकीर्तितः ।
भूमेः पृथिव्यन्तरिक्षमिति वेदेषु पठ्यते ॥४२॥

सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः ।
इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते ॥४३॥

उत्तापर्णे सुभगे इति देव्याः समाचरेत् ।
प्रजापतेः पुनर्होमः प्रजापतिरिति स्मृतः ॥४४॥

नमोऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते ।
एष ब्रह्माय ऋत्विज्य इति ब्रह्मण्युदाहृतः ॥४५॥

विनायकस्य चानूनमिति मन्त्रो बुधैः स्मृतः ।
जातवेदसे सुनवामितिदुर्गामन्त्र उच्यते ॥४६॥

आदिप्रत्नस्य रेतस आकाशस्य उदाहृतः ।
प्राणाशिशुर्महीनाञ्च वायोर्मन्त्रः प्रकीर्त्तितः ॥४७॥

एषो उषा अपूर्व्वादित्यश्विनोर्मन्त्र उच्यते ।
पूर्णाहुतिस्तु मूर्द्धानं दिव इत्यभिपातयेत् ॥४८॥

अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ।
पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्‌मुखम् ॥४९॥

अव्यगावयवैर्ब्रह्मन्! हेमस्रग्दामभूषितैः ।
यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः ॥५०॥

सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥५१॥

आखण्डलोऽग्निर्भगवान् यमो वै नैर्ऋतिस्तथा ।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहितः शेषो दिक्‌पालास्त्वामवन्तु ते ॥५२॥

कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिकान्तिश्च मातरः ।
एतास्त्वामभिषिञ्चन्तु धर्म्मपत्न्यः समागताः ॥५३॥

आदित्यश्चन्द्रमाभौमो बुधो जीवः सितोऽर्कजः ।
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥५४॥

देवदानवगन्धर्वाः यक्षराक्षसपन्नगाः
ऋषयो मुनयो गावो देवमातर एव च ॥५५॥

देवपत्न्यो द्रुमानागा दैत्याश्चाप्सरसाङ्गणाः ।
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥५६॥

औषधानि च रत्नानि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदानदाः
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥५७॥

ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः ।
सर्वौषधैः सर्वगन्धैः स्नापितो द्विज़पुङ्गवैः ॥५८॥

यजमानः सपत्नीकः ऋत्विजः सुसमाहितान् ।
दक्षिणाभिः प्रयत्नेन पूजयेद्रतविस्मयः ॥५९॥

सूर्य्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे ।
रक्तं धुरन्धरं दद्याद्भौमाय च ककुद्मिनम् ॥६०॥

बुधाय जातरूपन्तु गुरवे पीतवाससी ।
श्वेताश्वान् दैत्यगुरवे कृष्णाङ्गामर्कसूनवे ॥६१॥

आयसं राहवे दद्यात् केतुभ्यश्छागमुत्तमम् ।
सुर्वणेन समा कार्य्या यजमानेन दक्षिणा ॥६२॥

सर्वेषामथवा गावो दातव्या हेमभूषिताः ।
सुवर्णमथवादद्याद्‌गुरुर्वा येन तुष्यति ॥
समन्त्रेणैव दातव्याः सर्वाः सर्वत्र दक्षिणाः ॥६३॥

पुण्यस्त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम् ।
विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे ॥६४॥

धर्म्मस्त्वं वृषरूपेण जगदानन्दकारक! ।
अष्टमूर्त्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे ॥६५॥

हिरण्यगर्भगर्भस्त्वं हेमवीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥६६॥

पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् ।
प्रदानात्तस्य मे विष्णो! ह्यतः शान्तिं प्रयच्छ मे ॥६७॥

विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः ।
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे ॥६८॥

यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा ।
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥६९॥

यस्मादायासकर्माणि तवाधीनानि सर्वदा ।
लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे ॥७०॥

यस्मात्त्वं सर्वयज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥७१॥

गवामङगेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छ्रियै मे स्यादिहलोके परत्र च ॥७२॥

यस्मादशून्यं शयनं केशवस्य च सर्वदा ।
शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि ॥७३॥

यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः ।
तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः ॥७४॥

यथा भूमिप्रदानस्य कलान्नार्हन्ति षोड़शीम् ।
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह ॥७५॥

एवं संपूजयेद्भक्त्या वित्तशाठ्येन वर्जितः ।
रक्तकाञ्चनवस्त्रौघैर्धूपमाल्यानुलेपनैः ॥७६॥

अनेन विधिना यस्तु ग्रहपूजां समाचरेत् ।
सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥७७॥

यस्तु पीड़ाकरो नित्यमल्पवित्तस्य वा ग्रहः ।
तञ्च यत्नेन संपूज्य शेषानप्यर्चयेद् बुधः ॥७८॥

ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः ।
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ॥७९॥

यथा बाणप्रहाराणां कवचम्भवति वारणम् ।
तद्वद्दैवोपघातानां शान्तिर्भवति वारणम् ॥८०॥

तस्मान्नदक्षिणाहीनं कर्त्तव्यं भूतिमिच्छता ।
संपूर्णया दक्षिणया यस्माद् एकोऽपि तुष्यति ॥८१॥

सदैवायुतहोमोऽयं नवग्रहमखे स्थितः  ।
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्म्मसु ॥८२॥

निर्विघ्नार्थं मुनिश्रेष्ठ! तथोद्वेगाद्भुतेषु च ।
कथितोऽयुतहोमोऽयं लक्षहोममतः श्रृणु ॥८३॥

सर्वकामाप्तये यस्माल्लक्षहोमं विदुर्बुधाः ।
पितॄणां वल्लभं साक्षाद्भुक्तिमुक्तिफलप्रदम् ॥८४॥

ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ।
गृहस्योत्तरपूर्वेण मण्डपं कारयेद् बुधः ॥८५॥

रुद्रायतनभूमौ वा चतुरस्रमुद्ङ्‌मुखम् ।
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ॥८६॥

प्रागुदक् प्लवनाम्भूमिं कारयेद्यत्नतो बुधः ।
प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु ॥८७॥

शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम् ।
चतुरस्रं समन्तात्तु योनिवक्त्रं समेखलम् ॥८८॥

चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता ।
प्रागुदक्‌प्लवना कार्या सर्वतः समवस्थिता ॥८९॥

शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः ।
मानहीनाधिकं कुण्डमनेकभयदभ्भवेत् ॥
यस्मात्तस्मात् सुसम्पूर्णं शान्तिकुण्डं विधीयते ॥९०॥

अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा ।
आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च ॥९१॥

द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं पुनः ।
लक्षहोमे भवेत्कुण्डं योनिवक्त्रन्त्रिमेखलम् ॥९२॥

तस्य चोत्तरपूर्वेण वितस्तित्रयसंस्थितम् ।
प्रागुदक् प्रवणन्तच्च चतुरस्रं समन्ततः ॥९३॥

विष्कम्भार्द्धोच्छ्रितं प्रोक्तं स्थण्डिलं विश्वकर्म्मणा ।
संस्थापनाय देवानां वप्रत्रयसमावृतम् ॥९४॥

द्व्यङ्गुलोह्यच्छ्रितो विप्रः प्रथमः स उदाहृतः ।
अङ्गुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरिः ॥९५॥

त्र्यङ्गुलस्य च विस्तारः सर्वेषां कथ्यते बुधैः ।
दशाङ्गुलोच्छ्रिता भित्तिः स्थण्डिले स्यात्तथोपरि ।
तस्मिन्नावाहयेद्देवान् पूर्ववत् पुष्पतण्डलैः ॥९६॥

आदित्याभिमुखाः सर्वाः साधिप्रत्यधिदेवताः ।
स्थापनीया मुनिश्रेष्ठ! नोत्तरेणपराङ्मुखाः ॥९७॥

गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता ।
सामध्वनिशरीरत्वं वाहनं परमेष्ठिनः ॥९८॥

अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा ।
आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च ॥९९॥

गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता ।
सामध्वनिशरीरत्वं वाहनं परमेष्ठिनः ॥
विषपापहरो नित्यमतः शान्तिं प्रयच्छ मे ॥१००॥

पूर्ववत्कुम्भमामन्त्र्य तद्वद्धोमं समाचरेत् ।
सहस्राणां शतं हुत्वा समित्संख्याधिकं पुनः ।
घृतकुम्भवसोर्धारां पातयेदनलोपरि ॥१०१॥

औदुम्बरीं तथार्द्राञ्च ऋज्वीं कोटरवर्जिताम् ।
बाहुमात्रां स्नुचं कृत्वा ततस्तम्भद्वयोपरि
घृतधारान्तया सम्यगग्नेरुपरि पातयेत् ॥१०२॥

श्रावयेत् सूक्तमाग्नेयं वैष्णवं रोद्रमैन्दवम् ।
महावैश्वानरं साम ज्येष्ठसाम च वाचयेत् ॥१०३॥

स्नानञ्च यजमानस्य पूर्ववत् स्वस्तिवाचनम् ।
दातव्या यजमानेन पूर्ववद्दक्षिणाः पृथक् ॥१०४॥

कामक्रोधविहीनेन ऋत्विग्भ्यः शान्तचेतसा ।
नवग्रहमखे विप्राश्चत्वारो वेदवेदिनः ॥१०५॥

अथवा ऋत्विजौ शान्तौ द्वावेव श्रुतिकोविदौ ।
कार्यावयुतहोमे तु न प्रसज्जेत विस्तरे ॥१०६॥

तद्वच्च दश चाष्टौ च लक्षहोमे तु ऋत्विजः ।
कर्त्तव्याः शक्तितस्तद्वच्चतुरो वा विमत्सरः ॥१०७॥

नवग्रहमखात् सर्वं लक्षहोमे दशोत्तरम् ।
भक्ष्यान् दद्यान्मुनिश्रेष्ठ! भूषणान्यपिशक्तितः ॥१०८॥

शयनानि सवस्त्राणि हेमानिकटकानिच ।
कर्णाङ्गलिपवित्राणि कण्ठसूत्राणिशक्तिमान् ॥१०९॥

न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः ।
अददन् लोभतो मोहात्कुलक्षयमवाप्नुते ॥११०॥

अन्नदानं यथाशक्त्या कर्त्तव्यं भूतिमिच्छता ।
अन्नहीनः कृतो यस्माद्दुर्भिक्षफलदोभवेत् ॥१११॥

अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्वजः ।
यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः ॥११२॥

नवाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्वचित् ।
यस्मात्पीड़ाकरोनित्यं यज्ञे भवति विग्रहः ॥११३॥

तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्‌वा यथाविधि ।
एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेदपारगम् ॥
दक्षिणाभिः प्रयत्नेन न बहूनल्पवित्तवान् ॥११४॥

पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः ।
यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात् ॥११५॥

सकामोयस्त्विमं कुर्याल्लक्षहोमं यथाविधि ।
स तं काममवाप्नोति पदमानन्त्यमश्नुते ॥११६॥

पुत्रार्थीं लभते पुत्रान्‌धनार्थीलभतेधनम् ।
भार्यार्थी शोभनांभार्य्यां कुमारीचशुभंपतिम् ॥११७॥

भ्रष्टराज्यस्तथा राज्यंश्रीकामः श्रियमाप्नुयात् ।
यं यं प्रार्थयतेकामं सवैभवतिपुष्कलः ।
निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥११८॥

अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा ।
आहुतीभिः प्रयत्नेनदक्षिणाभिः फलेनच ॥११९॥

पूर्ववद् ग्रहदेवानामावाहनविसर्जने ।
होममन्त्रास्त एवोक्ताः स्नाने दाने तथैव च ॥
कुण्डमण्डपवेदीनां विशेषोऽयं निबोध मे ॥१२०॥

कोटिहोमे चतुर्हस्तं चतुरस्रन्तु सर्वतः ।
योनिवक्त्रद्वयोपेतं तदप्याहुस्त्रिमेखलम् ॥१२१॥

द्वयङ्गुलाभ्युच्छ्रिताकार्याप्रथमामेखलाबुधैः ।
त्र्यङ्गुलाभ्युच्छ्रितातद्वद्‌द्वितीयापरिकीर्त्तिता ॥१२२॥

उच्छ्रायविस्तराभ्यां च तृतीया चतुरङ्गुला ।
द्व्‌यङ्गुलश्चेति विस्तारः पूर्वयोरेव शस्यते ॥१२३॥

वितस्तिमात्रां योनिः स्यात्षट्‌सप्तांगुलविस्तृता  ।
ता कूर्मपृष्टोन्नता मध्ये पार्श्वयोश्चांगुलोच्छ्रिता ॥१२४॥

गजोष्ठसद्रृशी तद्वदायताच्छिद्रसंयुता ।
एतत् सर्वेषु कुण्डेषु योनिलक्षणमुच्यते ॥१२५॥

मेखलोपरि सर्वत्र अश्वत्थदलसन्निभम् ।
वेदी च कोटिहोमे स्याद्वितस्तीनां चतुष्टयम् ॥१२६॥

चतुरस्ना समन्ताच्च त्रिभिर्वप्रैस्तुसंयुता ।
वप्रप्रमाणं पूर्वोक्तं वेदीनाञ्च तथोच्छ्रयः ॥१२७॥

तथा षोड़शहस्तः स्यान्मण्डपश्च चतुर्मुखः ।
पूर्वद्वारे च संस्थाप्य बह्वृचंवेदपारगम् ॥१२८॥

यजुर्विदं तथा याम्ये पश्चिमे सामवेदिनम् ।
अथर्ववेदिनं तद्वदुत्तरे स्थापयेद् बुधः ॥१२९॥

अष्टौ तु होमकाः कार्या वेदवेदाङ्गवेदिनः ।
एवं द्वादश विप्राः स्युर्वस्त्रमाल्यानुलेपनैः ॥
पूर्ववत् पूजयेद्भक्त्या वस्त्राभरणभूषणैः ॥१३०॥

रात्रिसूक्तं च रौद्रञ्च पावमानं सुमङ्गलम् ।
पर्वतो बह्वृचः शान्तिं पठन्नास्तेह्युदङ्‌मुखः ॥१३१॥

शान्तं शाक्रञ्च सौम्यञ्च कौष्माण्डं शान्तिमेव च ।
पाठयेद्दक्षिणद्वारियजुर्वेदिनमुत्तमम् ॥१३२॥

सुपर्णमथ वैराजमाग्नेयं रुद्रसंहिताम् ।
ज्येष्ठसाम तथा शान्तिं छन्दोगः पश्चिमे जपेत् ॥१३३॥

शाग्तिं सूक्तञ्च सौरञ्च तथाशाकुनकं शुभम् ।
पौष्टिकञ्च महाराज्यमुत्तरेणाप्यथर्ववित् ॥१३४॥

पञ्चभिः सप्तभिर्वापिहोमः कार्योऽत्रपूर्ववत् ।
स्नाने दाने च मन्त्राः स्युस्तएवमुनिसत्तम! ॥१३५॥

वसोर्धाराविधानञ्च लक्षहोमे विशिष्यते ।
अनेन विधिना यस्तु कोटिहोमं समाचरेत् ॥
सर्वान् कामानवाप्नोति ततो विष्णुपदं व्रजेत् ॥१३६॥

यः पठेच्छृणुयाद्वापि ग्रहयज्ञत्रयं नरः ।
सर्वपापविशुद्धात्मा पदमिन्द्रस्य गच्छति ॥१३७॥

अश्वमेधसहस्राणि दशचाष्टौच धर्म्मवित् ।
कृत्वा यत्फलमाप्नोति कोटिहोमात्तदश्नुते ॥१३८॥

ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च ।
कोटिहोमेन नश्यन्ति यथावच्छिवभाषितम् ॥१३९॥

वश्यकर्माभिचारादि तथैवोच्चाटनादिकम् ।
नवग्रहमखं कृत्वा ततः काम्यं समाचरेत् ॥१४०॥

अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ।
तस्मादयुतहोमस्य विधानं पूर्वमाचरेत् ॥१४१॥

वृत्त वोच्चाटने कुण्डं तथा च वशकर्म्मणि ।
त्रिमेखलञ्चैकवक्त्रमरत्निर्विस्तरेण तु ॥१४२॥

पलाशसमिधः शस्ता मधुगोरोचनान्विताः ।
चन्दनागुरुणा तद्वत् कुङ्कुमेनाभिषिञ्चिताः ॥१४३॥

होमयेन्मधुसर्पिभ्यां बिल्वानि कमलानि च ।
सहस्राणि दशैवोक्तं सर्वदैव स्वयम्भुवा ॥१४४॥

वश्यकर्मणि बिल्वानां पद्मानां चैव धर्मवित् ।
सुमित्रियान आप औषधय इतिहोमयेत् ॥१४५॥

न चात्र स्थापनंकार्यं नचकुम्भाभिषेचनम् ।
स्नानं सर्वौषधैः कृत्वाशुक्लपुष्पाम्बरोगृही ॥१४६॥

कण्ठसूत्रैः सकनकैः विप्रान् समभिपूजयेत् ।
सूक्ष्मवस्त्राणि देयानि शुक्लागावः सकाञ्चनाः ॥१४७॥

अवश्मनि वशीकुर्यान् सर्वशत्रुबलान्यपि ।
अमित्राण्यपिमित्राणिहोमोऽयं पापनाशनः ॥१४८॥

विद्वेषणेऽभिचारे च त्रिकोणं कुण्डमिष्यते ।
द्विमेखलं कोणमुखं हस्तमात्रञ्च सर्वशः ॥१४९॥

होमंकुर्युस्ततोविप्रा रक्तमाल्यानुलेपनाः ।
निवीतलोहितोष्णीषा लोहिताम्बरधारिणः ॥१५०॥

नववायसरक्ताढ्यपात्रत्रयसमन्विताः ।
समिधो वामहस्तेन श्येनास्थिबलसंयुताः ।
होतव्या मुक्तकेशैस्तु ध्यायद्भिरशिवं रिपौ ॥१५१॥

दुर्भित्रियास्तस्मैसन्तु तथा हुम्फडितीतिच ।
श्येनाभिचारमन्त्रेणक्षुरं समभिमन्त्र्य च ॥१५२॥

प्रतिरूपं रिपोः कृत्वा क्षूरेण परिकर्तयेत् ।
रिपुरूपस्य शकलान्यथैवाग्नौ विनिक्षिपेत् ॥१५३॥

ग्रहयज्ञविधानान्ते सदैवाभिचरन् पुनः ।
विद्वेषणं तथा कुर्वन्नेतदेव समाचरेत् ॥१५४॥

इहैव फलदं पुंसामेतन्नामुत्र शोभनम् ।
तस्माच्छान्तिकमेवात्र कर्त्तव्यं भूतिमिच्छता ॥१५५॥

ग्रहयज्ञत्रयं कुर्य्याद्यस्त्वकाम्येनमानवः ।
सविष्णोः पदमाप्नोति पुनरावृत्तिदुर्लभम् ॥१५६॥

य इदं श्रृणुयान्नित्यं श्रावयेद्वापि मानवः ।
न तस्य ग्रहपीडा स्यान्नच बन्धुजनक्षयः ॥१५७॥

ग्रहयज्ञत्रयं गेहे लिखितं तत्र तिष्ठति ।
न पीडा तत्र बालानां न रोगो न च बन्धनम् ॥१५८॥

अशेषयज्ञफलदं निः शेषाघविनाशनम् ।
कोटिहोमं विदुः प्राज्ञा भुक्तिमुक्तिफलप्रदम् ॥१५९॥

अश्वमेधफलं प्राहुर्लक्षहोमं सुरोत्तमाः ।
द्वादशाहमखस्तद्वन्नवग्रहमखः स्मृतः ॥१६०॥

इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञाभिषेकः ।
परिपठति य इत्थं यः श्रृणोति प्रसङ्गादभिभवति स शत्रूनायुरारोग्ययुक्तः ॥१६१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:49.5370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उसपणे

  • क्रि. काढून टाकणे , कोरडे करणे , बाहेर काढून टाकणे , रिकामे करणे ( विहीर , तलाव इत्यादी .) 
RANDOM WORD

Did you know?

देवाचे तीर्थ ग्रहण करण्यासंबंधी शास्त्रीय संकेत कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.