TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२५

मत्स्यपुराणम् - अध्यायः १२५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १२५
ज्यौतिषचक्रवर्णनम् ।
ऋषय ऊचुः ।
एवं श्रुत्वा कथां दिव्यामब्रुवन् लोमहर्षणिम् ।
सूर्याश्चन्द्रमसोचारं ग्रहाणाञ्चैव सर्वशः ॥१॥

भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले ।
अव्यूहेनैव सर्वाणि तथा चासङ्गरेण वा ॥२॥

कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् ।
एतद्वेदितुमिच्छामस्ततो निगदसत्तम! ॥३॥

सूत उवाच ।
भूतसंमोहनं ह्येतद्‌ ब्रुवतो मे निबोध तम् ।
प्रत्यक्षमपि द्रृश्यं तत् संमोहयति वै प्रजाः ॥४॥

योऽसौ चतुर्दशर्क्षेषु शिंशुमारो व्यवस्थितः ।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥५॥

सैष भ्रमन् भ्रामयते चन्द्रादित्यौ ग्रहैः सह ।
भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत् ॥६॥

ध्रुवस्य मनसा यौ वै भ्रमते ज्योतिषाङ्गणः ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धः प्रसर्पति ॥७॥

तेषां भेदश्च योगश्च तथा कालस्य निश्चयः ।
अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे ॥८॥

विषुवद्‌ग्रहवर्णश्च सर्वमेतद्‌ ध्रुवेरितम् ।
जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः ॥९॥

द्वितीय आवहन् वायुर्मेघास्ते त्वभिसंश्रिताः ।
इतो योजनमात्राच्च अध्यर्द्धविकृता अपि ॥१०॥

वृष्टिसर्गस्तथा तेषां धाराधारः प्रकीर्तिताः ।
पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः ॥११॥

शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा ।
कामगानां समृद्धानां भूतानां नाशमिच्छताम् ॥१२॥

पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः ।
पुष्करावर्तका नाम कारणेनेह शब्दिताः ॥१३॥

नानारूपधराश्चैव महाघोरस्वराश्च ते ।
कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर्नियामकाः ॥१४॥

वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः ।
यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा ॥१५॥

यस्मिन् ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयं प्रभुः ।
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः ॥१६॥

तेषामप्यायनं धूमः सर्वेषामविशेषतः ।
तेषां श्रेष्ठश्च पर्जन्यश्चत्वारश्चैव दिग्गजाः ॥१७॥

गजनां पर्वतानाञ्च मेघानां भोगिभिः सह ।
कुलमेकं द्विधाभूतं योनिरेका जलं स्मृतम् ॥१८॥

पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम् ।
तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये ॥१९॥

षष्ठः परिवहो नाम वायुस्तेषां परायणः ।
योऽसौ बिभर्ति भगवन्! गङ्गामाकाशगोचराम् ॥२०॥

दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम् ।
तस्या विस्पन्दितन्तोयं दिग्गजाः पृथुभिः करैः ॥२१॥

शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः ।
दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः ॥२२॥

उदग्‌हिमवतः शैलस्योत्तरे चैव दक्षिणे ।
पुण्ड्रं नाम समाख्यातं सम्यग्‌वृष्टिविवृद्धये ॥२३॥

तस्मिन् प्रवर्तते वर्षं तत्तुषारसमुद्भवम् ।
ततो हिमवतो वायुर्हिमं तत्र समुद्भवम् ॥२४॥

आनयत्यात्मवेगेन सिञ्चयानो महागिरिम् ।
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम् ॥२५॥

इभास्ये च ततः पश्चादिदम्भूतविवृद्धये ।
वर्षद्वयं समाख्यातं सम्यग् वृष्टिविवृद्धये ॥२६॥

मेघाश्चाप्यायनं चैव सर्वमेतत् प्रकीर्त्तितम् ।
सूर्य्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ॥२७॥

वर्षं धर्मं हिमं रात्रिं सन्ध्ये चैव दिनं तथा ।
शुभाशुभफलानीह ध्रुवात् सर्व प्रवर्त्तते ॥२८॥

ध्रुवेणाधिष्ठिताश्चापः सूर्य्यो वै गृह्य तिष्ठति ।
सर्वभूतशरीरेषु त्वापो ह्यानुश्चिताश्चयाः ॥२९॥

दह्यमानेषु तेष्वेह जङ्गमस्थावरेषु च ।
धूमधूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः ॥३०॥

तेन चास्त्राणि जायन्ते स्थानमभ्रमयं स्मृतम् ।
तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम् ॥३१॥

समुद्राद्वायुसंयोगात् वहन्त्यापो गभस्तयः ।
ततस्त्वृतुवशात् काले परिवर्त्तन् दिवाकरः ॥३२॥

नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः ।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ॥३३॥

ततो वर्षति षण्मासान् सर्वभूतविवृद्धये ।
वायुभिस्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः ॥३४॥

मेहनाच्च मिहेर्धातोर्मेघत्वं व्यञ्जयन्ति च ।
न भ्रश्यन्ते ततो ह्यापस्तस्मादभ्रस्य वै स्थितः ॥
स्रष्टाऽसौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः ॥३५॥

ध्रुवेणाधिष्ठितो वायुर्वृष्टिं संहरते पुनः ।
ग्रहान्निवृत्या सूर्य्यात्तु चरते ऋक्षमण्डलम् ॥३६॥

चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम् ।
अतः सूर्य्यरथस्यापि सन्निवेशं प्रचक्षते ॥३७॥

स्थितेन त्वेकचक्रेण पञ्चारेण त्रिनाभिना ।
हिरण्मयेनाणुना वै अष्टचक्रैक नेमिना ॥
चक्रेण भास्वता सूर्य्यः स्यन्दनेन प्रसर्पिणा ॥३८॥

शतयोजनसाहस्रो विस्तारायाम उच्यते ।
द्विगुणा च रथोपस्थादीषादण्डः प्रमाणत ॥३९॥

स तस्य ब्रह्मणा सृष्टो रथोह्यर्थवशेन तु ।
असङ्गः काञ्चनो दिव्यो युक्तः पर्वतगैर्हयैः ॥४०॥

च्छन्दोभिर्वाजिरूपैस्तैर्यथाचक्रं समास्थितैः ।
वारुणस्य रथस्येह लक्षणैः सद्रृशश्च सः ॥४१॥

तेनासौ चरति व्योम्नि भास्वाननुदिनन् दिवि ।
अथाङ्गानि तु सूर्य्यस्य प्रत्यङ्गानि रथस्य च ॥
सम्वत्सरस्यावयवैः कल्पितानि यथाक्रमम् ॥४२॥

अहर्नाभिस्तु सूर्य्यस्य एकचक्रस्य वै स्मृतः ।
अरात् सम्वत्सरास्तस्य नेम्यः षड् ऋतवः स्मृताः ॥४३॥

रात्रिर्वरूथोधर्म्मश्च ध्वजऊर्ध्वं व्यवस्थितः ।
अक्षकोट्योर्युगान्यस्य अर्तवाहाः कलाः स्मृताः ॥४४॥

तस्य काष्ठा स्मृता घोणा दन्तपङ्क्तिः क्षणास्तु वै ।
निमेषश्चानुकर्षोऽस्य ईषा चास्य कला स्मृता ॥४५॥

युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ ।
सप्ता (मा) श्चरूपाश्छन्दांसि वहन्ते वायुरंहसा ॥४६॥

गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुप् तथैव च ।
पङ्‌क्तिश्च बृहतीचैव उष्णिगेव तु सप्तमः ॥४७॥

चक्रमक्षे निबद्धन्तु ध्रुवे चाक्षः समर्पितः ।
सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवम् ॥४८॥

अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः ।
एवमर्थवशात्तस्य सन्निवेशो रथस्य तु ॥४९॥

तथा संयोगभागेन सिद्धो वै भास्करो रथः ।
तेनाऽसौ तरणिर्मध्ये नभसः सर्पते दिवम् ॥५०॥

युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु ।
भ्रमतो भ्रमतो रश्मी तौ चक्रयुगयोस्तु वै ॥५१॥

मण्डलानि भ्रमतेऽस्य खेचरस्य रथस्य तु ।
कुलालचक्रभ्रमवन्‌मण्डलं सर्वतो दिशम् ॥५२॥

युगाक्षकोटि ते तस्य वातोर्मीस्यन्दनस्य तु ।
संक्रमे ते ध्रुवमहो मण्डले पर्वतो दिशम् ॥५३॥

भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे ।
वर्द्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु ॥५४॥

युगाक्षकोटी सम्बद्धौ द्वे रश्मीस्यन्दनस्य ते ।
ध्रुवेण प्रगृहीतौ तौ रश्मी धारयता रविम् ॥५५॥

आकृष्यते यदा ते तु ध्रुवेण समधिष्ठिते ।
तदा सोऽभ्यन्तरे सूर्य्यो भ्रमते मण्डलानि तु ॥५६॥

अशीतिमण्‍डलशतं काष्ठयोरुभयोश्चरन् ।
ध्रुवेण मुच्यमाने न पुना रश्मियुगेन च ॥५७॥

तथैव बाह्यतः सूर्य्यो भ्रमते मण्डलानि तु ।
उद्वेष्टयन् वै वेगेन मण्डलानि तु गच्छति ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जिकडनें

  • क्रि.वि. ज्याप्रदेशा - वाजू - दिशे - कडून . ही जमीन जिकडणें पाहिजे तिकडणें मोजा , शंभर काठया भरेल . 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site