संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७७

मत्स्यपुराणम् - अध्यायः ७७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


शर्करासप्तमीव्रतकथनम् ।

ईश्वर उवाच ।
शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम् ।
आयुरारोग्यमैश्वर्य ययाऽनन्तं प्रजायते ॥१॥

माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः ।
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनैः ॥२॥

स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम् ।
तस्मिन्नमः सवित्रे तु गन्धधूपौ निवेदयेत् ॥३॥

स्थापयेदुदकुम्भञ्च शर्करापात्रसंयुतम् ।
शुक्लवस्त्रैरलङ्कृत्य शुक्लमाल्यानुलेपनैः ॥
सुवर्णेन समायुक्तं मन्त्रेणानेन पूजयेत् ॥४॥

विश्ववेदमयो यस्माद्वेदवादीति पठ्यसे ।
सर्वस्यामृतमेवत्वमतः शान्तिं प्रयच्छ मे  ॥५॥

पञ्चगव्यं ततः पीत्वा स्वपेत्तत् पार्श्वतः क्षितौ ।
सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च ॥६॥

अहो रात्रे गते पश्चादष्टम्यां कृतनैत्यकः ।
तत्सर्वं विदुषे तद्वद्‌ ब्राह्मणाय निवेदयेत् ॥७॥

भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः ।
भुञ्चीतातैललवणं स्वयमप्यथ वाग्यतः ॥८॥

अनेन विधिना सर्वं मासि मासि समाचरेत् ।
संवत्सरान्ते शयनं शर्कराकलशान्वितम् ॥९॥

सर्वोपस्करसंयुक्तं तथैकाङ्गां पयस्विनीम् ।
गृहं च शक्तिमान्‌ दद्यात्‌ समस्तोपस्करान्वितम् ॥१०॥

सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा ।
दशभिर्वाथ निष्केण तदर्धेनापि शक्तितः ॥११॥

सुवर्णाश्वः प्रदातव्यः पूर्ववन्‌मन्त्रवादनम् ।
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषं समश्नुते ॥१२॥

अमृतं पिबतो वक्त्रात्‌ सूर्य्यस्यामृतबिन्दवः ।
निपेतुर्ये तदुत्थामी शालिमुद्गेक्षवः स्मृताः ॥१३॥

शर्करा तु परा तस्मादिक्षुसारोऽमृतात्मवान् ।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥१४॥

शर्करासप्तमी चेयं वाजिमेधफलप्रदा ।
सर्वदुष्टप्रशमनी पुत्रपौत्रप्रवर्द्धिनी ॥१५॥

यः कुर्यात् परया भक्त्या स वै सद्गतिमाप्नुयात् ।
कल्पमेकं वसेत् स्वर्गे ततो याति परम्पदम् ॥१६॥

इममनघं यः श्रृणोति स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके ।
मतिमपि च ददाति सोऽपि देवैरमरवधूजनमालयाऽभिपूज्यः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP