TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १३७

मत्स्यपुराणम् - अध्यायः १३७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १३७
मयसमीपे वापीपानकथनम् ।

सूत उवाच ।
प्रमथैः समरेभिन्नास्त्रैपुरास्ते सुरारयः ।
पुरं प्रविविशुर्भीताः प्रमथैर्भग्नगोपुरम् ॥१॥

शीर्ण दंष्ट्रा यथा नागा भग्नश्रृङ्गा यथा वृषाः ।
यथा विपक्षाः शकुना नद्यः क्षीणोदका यथा ॥२॥

मृतप्रायास्तथा दैत्या दैवतैर्विकृताननाः ।
बभूवुस्ते विमनसः कथं कार्यमिति ब्रुवन् ॥३॥

अथ तान् म्लानमनसस्तदा तामरसाननः ।
उवाच दैत्यो दैत्यानां परमाधिपतिर्मयः ॥४॥

कृत्वा युद्धानि घोराणि प्रमथैः सहसामरैः ।
तोषयित्वा तथा युद्धे प्रमथानमरैः सह ॥५॥

यूयं यत् प्रथमं दैत्याः पश्चाच्च बलपीडिताः ।
प्रविष्टा नगरन्त्रासात् प्रमथैर्भृशमर्दिताः ॥६॥

अप्रियं क्रियते व्यक्तं देवैर्नास्त्यत्र संशयः ।
यत्र नाम महाभागाः प्रविशन्ति गिरेर्वनम् ॥७॥

अहो हि कालस्य बलमहो कालो हि दुर्जयः ।
यत्रेदृशस्य दुर्गस्य उपरोधोऽयमागतः ॥८॥

मये विवदमाने तु नर्द्दमान इवाम्बुदे ।
बभूवुर्निष्प्रभा दैत्या ग्रहा इन्दूदये यथा ॥९॥

वापीपालास्ततोऽभ्येत्य नभः काल इवाम्बुदाः ।
मयामाहुर्यमप्रख्यं साञ्जलिप्रग्रहाः स्थिताः ॥१०॥

या सामृतरसा गूढा वापी वै निर्मिता त्वया ।
समाकुलोत्पलवना समीनाकुलपङ्कजा ॥११॥

पीता सा वृषरूपेण केनचिद्दैत्यनायकः ।
वापी सा साम्प्रतं द्रृष्टा मृतसंज्ञा इवाङ्गना ॥१२॥

वापीपालवचः श्रुत्वा मयोऽसौ दानवप्रभुः ।
कष्टमित्यसकृत्‌ प्रोच्य दितिजानिदमब्रवीत् ॥१३॥

मया मायाबलकृता वापी पीता त्वियं यदि ।
विनष्टाः स्म न सन्देहस्त्रिपुरं दानवागतम् ॥१४॥

निहतान्निहतान् दैत्यानाजीवयति दैवतैः ।
पीता वा यदि वा वापी पीता वै पीतवाससा ॥१५॥

कोऽन्यो मन्मायया गुप्तां वापीममृततोयिनीम् ।
पास्यते विष्णुमजितं वर्जयित्वा गदाधरम् ॥१६॥

सुगुह्यमपि दैत्यानां नास्त्यस्याविदितम्भुवि ।
यत्र मद्वरकौशल्यं विज्ञानं न वृतं बुधैः ॥१७॥

समोऽयं रुचिरो देशो निर्द्रुमो निर्द्रुमाचलः ।
लभेमन्द्रूरतः कृत्वा बाधन्तेऽस्मान् गणामराः ॥१८॥

ते यूयं यदि मन्यध्वं सागरोपरिधिष्ठिताः ।
प्रमथानां महावेगं सहामः श्वसनोपमम् ॥१९॥

एतेषाञ्च समारम्भास्तस्मिन् सागरसंप्लवे ।
निरुत्साहा भविष्यन्ति एतद्रथपथावृताः ॥२०॥

युध्यतां निघ्नतां शत्रून्‌ भीतानाञ्च द्रविष्यताम् ।
सागरोऽम्बरसङ्काशः शरणन्नो भविष्यति ॥२१॥

इत्युक्त्वा स मयो दैत्यो दैत्यानामधिपस्तदा ।
त्रिपुरेण ययौ तूर्णं सागरं सिन्दुबान्धवम् ॥२२॥

सागरे जलगम्भीर उत्पपात पुरं वरम् ।
अवतस्थुः पुराण्येव गोपुराभरणानि च ॥२३॥

अपक्रान्ते तु त्रिपुरे त्रिपुरारिस्त्रिलोचनः ।
पितामहमुवाचेदं वेदवादविशारदम् ॥२४॥

पितामह! द्रृढं भीता भगवन्! दानवा हि नः ।
विपुलं सागरन्ते तु दानवाः समुपाश्रिताः ॥२५॥

यत एव हि ते यातास्त्रिपुरेण तु दानवाः ।
तत एव रथं तूर्णं प्रापयस्व पितामह ॥२६॥

सिंहनादं ततः कृत्वा देवा देवरथञ्च तम् ।
परिवार्य ययुर्हृष्टाः सायुधाः पश्चिमौ दधिम् ॥२७॥

ततोऽमरामरगुरुं परिवार्य भवं हरम् ।
नर्दयन्तो ययुस्तूर्णं सागरं दानवालयम् ॥२८॥

अथ चारुपताकभूषितं पटहाडम्बरशङ्कनादितम् ।
त्रिपुरमभिसमीक्ष्य देवता विविधबला ननदुर्यथा घनाः ॥२९॥

असुरवरपुरेऽपि दारुणो जलधरारवमृदङ्गगह्वरः ।
दनुतनयनिनादमिश्रितः प्रतिनिधिसंक्षुभितार्णवोपमः ॥३०॥

अथ भुवनपतिर्गतिः सुराणामरिमृगयां प्रददात् सुलब्धबुद्धिः ।
त्रिदशगणापतिर्ह्युवा च शक्रम् त्रिपुरगतं सहसा निरीक्ष्य शत्रुम् ॥३१॥

त्रिदशगणपते! निशामयैतत् त्रिपुरनिकेतनमुत्तमं सुरेन्द्र ।
यमवरुणकुबेरषण्मुखैस्तत् सह गणपैरपि हन्मि तावदेव ॥३२॥

विहितपरबलाभिघातभूतम् व्रज जलधेस्तु यतः पुराणि तस्थुः ।
स रथवरगतो भवः समर्थो ह्युदधिमगात् त्रिपुरं पुनर्निहन्तुम् ॥३३॥

इति परिगणयन्तोदितेः सुता ह्यवतस्थुर्लवणार्णवोपरिष्टात् ॥
अभिभवत् त्रिपुरं स दानवेन्द्रं शरवर्षैर्मुसलैश्च वज्रमिश्रैः ॥३४॥

अहमपि रथवर्यमास्थितः सुरवरवर्य्य! भवेय पृष्ठतः ।
असुरवरवधार्थमुद्यतानाम् प्रतिविदधामि सुखयतेऽनघ ॥३५॥

इति भववचनप्रचोदितो दशशतनयनवपुः समुद्यतः ।
त्रिपुरपुरजिघांसया हरिः प्रविकसिताम्बुजलोचनो ययौ ॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

narrow spectrum

  • मर्यादित प्रभावव्याप्ति 
RANDOM WORD

Did you know?

अष्टगंधात कोणकोणते घटक असतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site