TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६१

मत्स्यपुराणम् - अध्यायः १६१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १६१
नरसिंहमाहात्म्यवर्णनम् ।

ऋषय ऊचुः ।
इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम् ।
नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ॥१

सूत उवाच ।
पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः ।
दैत्यानामादिपुरुषश्चकार स महत्तपः ॥२

दशवर्षसहस्राणि दशवर्ष शतानि च ।
जलवासी समभवत् स्नानमौन घृतव्रतः ॥३

ततः शमदमाभ्याञ्च ब्रह्मचर्येण चैव हि ।
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ॥४

ततः स्वयम्भूर्भगवान् स्वयमागम्य तत्र ह ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥५

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षस पन्नगैः ॥६

दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥७

देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यकृद्भिर्गन्धर्वाप्सरसाङ्गणैः ॥८

चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥९

प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत! ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥१०

हिरण्यकशिपुरुवाच ।
न देवासुरगन्धर्वा न यक्षोरगरक्षसाः ।
न मानुषाः पिशाचा वा हन्युर्मां देव सत्तम! ॥१६१.११

ऋषयो वा न मा शापैः शपेयुः प्रपितामह ।
यदि मे भगवान्प्रीतो वर एष वृतो मया ॥१२

न चास्त्रेण न शस्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्द्रेण न दिवा न निशाऽथवा ॥१३

भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलञ्चान्तरिक्षञ्च नक्षत्राणि दिशो दश ॥१४

अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥१५

ब्रह्मोवाच ।
एते दिव्या वरास्तात! मया दत्तास्तवाद्भुताः ।
सर्वान् कामान् सदा वत्स! प्राप्स्यसे त्वं न संशयः ॥१६

एवमुक्त्वा स भगवान् जगामाकाश एव हि ।
वैराजं ब्रह्मसदनं ब्रह्मर्षि गणसेवितम् ॥१७

ततो देवाश्च नागाश्च गन्धर्वा ऋषिभिः सह ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥१८

देवा ऊचुः ।
वरप्रदानाद् भगवन्! वधिष्यति स नोऽसुरः ।
तत्प्रसीदाशु भगवन्! वदोऽप्यस्य विचिन्त्यताम् ॥१९

भगवन् ।  सर्वभूतानां आदिकर्ता स्वयं प्रभुः ।
स्रष्टा त्वं हव्यकव्यानामव्यक्त प्रकृतिर्बुधः ॥२०

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ॥२१

अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ॥२२

तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कज जन्मनः ।
स्वानि स्तानानि दिव्यानि विप्रा जग्मुर्मुदान्विताः ॥२३

लब्धमात्रे वरे चाथ सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥२४

आश्रमेषु महाभागान् स मुनीन्शंसितव्रतान् ।
सत्यधर्मपरान् दान्तान् धर्षयामासदानवः ॥२५

देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥२६

यदा वरमदोत्सिक्तश्चोदितः कालधर्मतः ।
यज्ञियानकरोद्दैत्यानयज्ञियांश्च देवताः ॥२७

तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा ।
सेन्द्रा देवगणा यक्षाः सिद्ध द्विजमहर्षयः ॥२८

शरणं शरणं विष्णुमुपतस्थुर्महाबलम् ।
देवदेवं यज्ञमयं वासुदेवं सनातनम् ॥२९

देवा ऊचुः ।
नारायण! महाभाग! देवास्त्वां शरणं गताः ।
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो! ॥३०

त्वं हि नः परमो धाता त्वं हि न परमो गुरुः ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥३१

विष्णुरुवाच ।
भयन्त्यजध्वममरा अभयं वो ददाम्यहम् ।
तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ॥३२

एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥३३

एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् ।
वधं सङ्कल्पयामास हिरण्यकशिपोः प्रभुः ॥३४

सहायश्च महाबाहुरोङ्कारं गृह्य सत्वरम् ।
अथोङ्कारसहायस्तु भगवान् विष्णुरव्ययः ॥३५

हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः ।
तेजसा भास्कराकारः शशी कान्त्येव चापरः ॥३६

नरस्य कृत्वार्द्धतनुं सिंहस्यार्द्धतनुं तथा ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥३७

ततोऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम् ।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥३८

विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम् ।
वैहायसीङ्कामगमां पञ्चयोजनविस्तृताम् ॥३९

जराशोकक्लमोपेतां निष्प्रकम्पां शिवां सुखाम् ।
वेश्महर्म्यवतीं रम्यां ज्वलन्तीमिव तेजसा ॥४०

अन्तः सलिल संयुक्तां विहितां विश्वकर्म्मणा ।
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ॥४१

नीलपीतसितश्यामैः कृष्णैर्लोहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरी शतधारिभिः ॥४२

सिताभ्रघनसङ्काशा प्लवन्तीव व्यदृश्यत ।
रश्मिवती भास्वरा च दिव्यगन्ध मनोरमा ॥४३

सुसुखा न च दुखा स न शीता न च घर्मदा ।
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवन्ति ते ॥४४

नानारूपैरुपकृतां विचित्रैरति भास्वरैः ।
स्तम्भैर्न विभृता सा वै शाश्वती चाक्षपा सदा ॥४५

सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः ।
रसयुक्तं प्रभूतञ्च भक्ष्य भोज्यमनन्तकम् ॥४६

पुण्यगन्ध स्रजश्चात्र नित्यपुष्पफलद्रुमाः ।
उष्णे शीतानि तोयानि शीते चोष्णानि संति च ॥४७

पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरदारिणः ।
लतावितानसंच्छन्ना नदीषु च सरःसु च ॥४८

वृक्षान् बहुविधांस्तत्र मृगेन्द्रो ददृशे प्रभुः ।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥४९

नातिशीतानि नोष्णानि तत्र तत्र सरांसि च ।
अपश्यत् सर्वतीर्थानि सभायां तस्य सो विभुः ॥५०

नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः ।
रक्तैः कुवलयैर्नींलैः कुमुदैः संवृतानि च ॥५१

सुकान्तैर्धार्तराष्ट्रैश्च राजहंसैश्च सुप्रियः ।
कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि ॥५२

विमलैः स्फाटिकाभैश्च पाण्डुरैश्च दनैर्द्विजैः ।
बहु हंसोपगीतानि सारसाभिरुतानि च ॥५३

गन्धवत्यः शुभास्तत्र पुष्टमञ्जरि धारिणीः ।
दृष्टवान् पर्वताग्नेषु नागपुष्पधरा लताः ॥५४

केतक्यशोकसरलाः पुन्नाग तिलकार्जुनाः ।
चूता नीपाः प्रस्थपुष्पाः कदम्वा बकुलाधवाः ॥५५

प्रियङ्गु पाटलावृक्षाः शाल्मल्यः सहरिद्रकाः ।
सालास्तालास्तमालाश्च पञ्चकाश्च मनोरमाः ॥५६

तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः ।
विद्रुमाश्च द्रुमाश्चैव ज्वलिताग्निसमप्रभाः ॥५७

स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः ।
अर्जुनाशोकवर्णाश्च बहवश्चित्रका द्रुमाः ॥५८

वरुणो वत्सनाभश्च पनसाः सह चन्दनैः ।
नीलाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः ॥५९

पारिजाताश्च लोघ्राश्च मल्लिका भद्रदारवः ।
आमलक्यस्तथाजम्बु लकुचाः शैलवालुकाः ॥१६१.६०

कालीयकाद्रुकालाश्च हिङ्गवः पारियात्रकाः ।
मन्दारकुन्दलक्ताश्च पतङ्गाः कुटजास्तथा ॥६१

रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह ।
कदम्बाश्चैव भव्याश्च दाडिमा वीजपूरकाः ॥६२

सप्तपर्णाश्च बिल्वाश्च मधुपैरावतास्तथा ।
अशोकाश्च तमालाश्च नाना गुल्मलतावृताः ॥६३

मधूकाः सप्तपर्णाश्च बहवस्तीरगा द्रुमाः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः ॥६४

एते चान्ये च बहवस्तत्र काननजा द्रुमाः ।
नानापुष्पफलोपेता व्यराजन्त समन्ततः ॥६५

चकोराः शतपत्राश्च मत्तकोकिल सारिकाः ।
पुष्पिताः पुष्पिताग्रैश्च सम्पतन्ति महाद्रुमाः ॥६६

रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः ।
परस्परमवेक्षन्ते प्रहृष्टा जीवजीवकाः ॥६७

तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा ।
स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्वरः ॥६८

अनर्घ्यमणिवज्रार्चि शिखा ज्वलितकुण्डलः ।
आसीनश्चासने चित्रे दश नल्वप्रमाणतः ॥६९

दिवाकरनिभे दिव्ये दिव्यास्तरण संस्तृते ।
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥७०

हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः ।
उपचेरुर्महार्दैत्यं हिरण्यकशिपुं तदा ॥७१

दिव्यतानेन गीतानि जगुर्गन्धर्वसत्तमाः ।
विश्वाची सहजन्याच प्रम्लोचेत्यभिविश्रुता ॥७२

दिव्याथ सौरभेयीच समीची पुञ्चिकस्थली ।
मिश्रकेशीचरम्भा च चित्रलेखा शुचिस्मिता ॥७३

चारुकेशी घृताची च मेनका चोर्वशी तथा ।
एताः सहस्रशश्चान्या नृत्यगीत विशारदाः ॥७४

उपतिष्ठन्त राजानं हिरण्यकशिपुं प्रभुम् ।
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ॥७५

उपासन्त दितेः पुत्राः सर्वे लब्धवरास्तथा ।
तमप्रतिमकर्माणं शतशोऽथ सहस्रशः ॥७६

बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः ।
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः ॥७७

सुरहन्ता दुःखहन्ता सुनामा सुमतिर्वरः ।
घटोदरो महापार्श्वः क्रथनः कठिनस्तथा ॥७८

विश्वरूपः सुरूपश्च स्वबलश्च महाबलः ।
दशग्रीवश्च वालीच मेघवासा महासुरः ॥७९

घटास्यो कम्पनश्चैव प्रजनश्चेन्द्र तापनः ।
दैत्यदानवसंघास्ते सर्वे ज्वलितकुण्डलाः ॥८०

स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः ।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥८१

एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ।
उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः ॥८२

विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः ।
महेन्द्रवपुषः सर्वे विचित्राङ्गदवाहवः ॥८३

भूषिताङ्गा दितेः पुत्रास्तमुपासन्त सर्वशः ।
तस्यां सभायान्दिव्यायामसुराः पर्वतोपमाः ॥८४

हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः ।
न श्रुतन्नैव दृष्टं हि हिरण्यकशिपोर्यथा ॥८५

ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः ।
कनकरजतचित्रवेदिकायां परिहृतरत्न विचित्रवीथिकायाम् ।  १६१.८६

स ददर्श मृगाधिपः सभायां सुरचितरत्न गवाक्षशोभितायाम् ॥८७

कनकविमलहारविभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श ।
दिवसकर महाप्रभालसं तन्दितिजसहस्रशतैः निषेव्यमाणम् ॥८८

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कपटी मित्राचें मन, अधिक दुष्‍ट सर्पाहून

  • कपटी मित्राचे मन हे सर्पापेक्षांहि घातक आहे. 
RANDOM WORD

Did you know?

mahavakya panchikaran he pustak upalabdha hoil ka ?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site