TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२१

मत्स्यपुराणम् - अध्यायः १२१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १२१
तस्याश्रमस्योत्तरतस्त्रिपुरारिनिषेवितः ।
नानारत्नमयैः श्रृङ्गैः कल्पद्रुमसमन्वितैः ॥१॥

मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः ।
तस्मिन्निवसति श्रीमान् कुबेरः सह गुह्यकैः ॥२॥

अप्सरोऽनुगतो राजा मोदते ह्यलकाघिपः ।
कैलासपादसम्भूतं रम्यं शीतजलं शुभम् ॥३॥

मन्दारपुष्परजसा पूरितं देवसन्निभम् ।
तस्मात् प्रवहते दिव्या नदी मन्दाकिनी शुभा ॥४॥

दिव्यञ्च नन्दनं तत्र तस्यास्तीरे महद्वनम् ।
प्रागुत्तरेण कैलासाद्दिव्यं सौगन्धिकं गिरिम् ॥५॥

सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति ।
चन्द्रप्रभो नाम गिरिः स शुभ्रो रत्नसन्निभः ॥६॥

तत्समीपे सरो दिव्यमच्छोदं नाम विश्रुतम् ।
तस्मात् प्रभवते दिव्या नदी ह्यच्छोदिका शुभा ॥७॥

तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शभम् ।
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ॥८॥

यक्षसेनापतिः क्रूरो गुह्यकेः परिवारितः ।
पुण्या मन्दाकिनी नाम नदी ह्यच्छोदिका शुभा ॥९॥

महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम् ।
कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम् ॥१०॥

मनः शिलामयं दिव्यं सुवेलं पर्वतं प्रति ।
लोहितो हेमश्रृङ्गस्तु गिरिः सूर्यप्रभो महान् ॥११॥

तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः ।
तस्मात् प्रभवते पुण्यो लौहित्यश्च नदो महान् ॥१२॥

दिव्यारण्यं विशोकञ्च तस्य तीरे महद्वनम् ।
तस्मिन् गिरौ निवसति यक्षोमणिधरोवशी ॥१३॥

सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ।
कैलासात् पश्चिमोदीच्यां ककुद्मानौषधी गिरिः ॥१४॥

ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः ।
तदजनन्त्रैः ककुदं शैलन्त्रिककुदं प्रति ॥१५॥

सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः ।
तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम् ॥१६॥

तस्मात् प्रभवते पुण्या सरयूर्लोकपावनी ।
तस्यास्तीरे वनं दिव्यं वैभ्राजं नामविश्रुतम् ॥१७॥

कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी ।
ब्रह्मधाता निवसति राक्षसोऽनन्तविक्रमः ॥१८॥

कैलासात् पश्चिमामाशां दिव्यः सर्वौषधिर्गिरिः ।
अरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः ॥१९॥

भवस्य दयितः श्रीमान्‌ पर्वतो हैमसन्निभः ।
शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः ॥२०॥

शतसंख्यैस्तापनीयैः श्रृङ्गैर्दिवमिवोल्लिखन् ।
शृङ्गवान् सुमहादिव्यो दुर्गः शैलोमहाचितः ॥२१॥

तस्मिन् गिरौ निवसति गिरिशो धूम्रलोचनः ।
तस्य पादात् प्रभवति शैलोदं नाम तत्सरः ॥२२॥

तस्मात् प्रभवते पुण्या नदीशैलोदकाशुभा ।
सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमो दधिम् ॥२३॥

अस्त्युत्तरेण कैलासाच्छिवः सर्वौषधो गिरिः ।
गौरन्तु पर्वतश्रेष्ठं हरितालमयं प्रति ॥२४॥

हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः ।
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम् ॥२५॥

रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।
गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः ॥२६॥

दिवं यास्यन्तु मे पूर्वे गंगातोयाप्लुतास्थिकाः ।
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ॥२७॥

सोमपादात् प्रसूता सा सप्तधा प्रविभज्यते ।
यूपामणिमयास्तत्र विमानाश्च हिरण्मयाः ॥२८॥

तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह ।
दिव्यच्छायापथस्तत्र नक्षत्राणान्तु मण्डलम् ॥२९॥

द्रृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा ।
अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता ॥३०॥

भवोत्तमांगे पतिता संरुद्धा योगमायया ।
तस्या ये बिन्दवः केचित्‌ क्रुद्धायाः पतिपा भुवि ॥३१॥

ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ।
भित्वा विशामि पातालं श्रोतसा गृह्य शङ्करम् ॥३३॥

अथावलेपनं ज्ञात्वा तस्याः क्रुद्धन्तु शङ्करः ।
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् ॥३४॥

एतस्मिन्नेव काले तु द्रृष्ट्वा राजानमग्रतः ।
धमनीसन्ततं क्षीणां क्षुधा व्याकुलितेन्द्रियम् ॥३५॥

अनेन तोषितश्चाहं नद्यर्थे पूर्वमेव तु ।
बुध्वास्य वरदानन्तु ततः कोपं न यच्छत ॥३६॥

ब्रह्मणो वचनं श्रुत्वा यदुक्तं धारयन्नदीम् ।
ततो विसर्जयामास संरुद्धां स्वेन तेजसा ॥३७॥

नदी भगीरथस्यार्थे तपसोग्रेण तोषितः ।
ततो विसर्जयामास सप्तस्रोतांसि गङ्गया ॥३८॥

त्रीणि प्राचीमभिमुखं प्रतीचीन्त्रीण्यथैव तु ।
स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा ॥३९॥

नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा ।
सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥४०॥

सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् ।
तस्मात् भागीरथी सा वै प्रविष्टा दक्षिणो दधिम् ॥४१॥

सप्त चैताः प्लावयन्ति वर्षन्तु हिमसाह्वयम् ।
प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः ॥४२॥

तान्देशान् प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः ।
सशैलान् कुकुरान् रौध्रान् बर्बरान् यवनान् खसान् ॥४३॥

पुलिकांश्च कुलत्थांश्च अङ्गलोक्यान्वरांश्च यान् ।
कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणो दधिम् ॥४४॥

अथ वीरमरूंश्चैव कालिकांश्चैवशूलिकान् ।
तुषारान् बर्बरानङ्गान्यगृह्णात् परदान्‌ शकान् ॥४५॥

एतान् जनपदांश्चक्षः प्लावयित्वोदधिङ्गता ।
दरदोर्जगुण्डांश्चैव गान्धारानौरसान्‌ कुहून् ॥४६॥

शिवपौरानिन्द्रमरून् वसतीन् समतेजसम् ।
सैन्धवानुर्वसान् वर्वान् कुपश्रान् भीमरोमकान् ॥४७॥

शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते ।
गन्धर्वान् किन्नरान्यक्षान् रक्षोविद्याधरोरगान् ॥४८॥

कलापग्रामकांश्चैव तथा किंपुरुषान्नरान् ।
किरातांश्च पुलिन्दांश्च कुरून् वै भारतानपि ॥४९॥

पाञ्चालान् कौशिकान् मत्स्यान् मागधाङ्गांस्तथैव च ।
ब्रह्मोत्तराश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥५०॥

एतान् जनपदानार्यान् गङ्गा भावयते शुभा ।
ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणो दधिम् ॥५१॥

ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखा ययौ ।
प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः ॥५२॥

धीवरानृषिकांश्चैव तथा नीलमुखानपि ।
केकरानेककर्णाश्च किरातानपि चैव हि ॥५३॥

कालिन्दगतिकांश्चैव कुशिकान्‌ स्वर्गभौमकान् ।
सामण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः ॥५४॥

ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ ।
कुपथान् प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि ॥५५॥

तथा खरपथान् देशान् वेत्रशङ्कुपथानपि ।
मध्येनोज्जानकमरून् कुथप्रावरणान् ययौ ॥५६॥

इन्द्रद्वीपसमीपे तु प्रविष्टा लवणोदधिम् ।
ततस्तु पावनी प्रायात् प्राचीमाशाञ्जवेन तु ॥५७॥

तोमरान्प्लावयन्ती च हंसमार्गान्‌ समूहकान् ।
पूर्वान्देशांश्च सेवन्ती भित्वा सा बहुधा गिरिम् ॥
कर्णप्रावरणान् प्राप्य गता साश्वमुखानपि ॥५८॥

सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि ।
शैमिमण्डलकोष्ठन्तु सा प्रविष्टा महत्सरः ॥५९॥

तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः ।
उपगच्छन्ति ता नद्यो यतो वर्षति वासवः ॥६०॥

तीरे वंशौकसारायाः सुरभिर्नाम तद्वनम् ।
हिरण्यश्रृङ्गो वसति विद्वान् कौबरको वशी ॥६१॥

यज्ञादपेतः सुमहानमितौजाः सुविक्रमः ।
तत्रागस्त्यैः परिवृता विद्वद्भिर्ब्रह्मराक्षसैः ॥६२॥

कुबेरानुचरा ह्येते चत्वारस्तत्समाश्रिताः ।
एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम् ॥६३॥

परस्परेण द्विगुणा धर्म्मतः कामतोऽर्थतः ।
हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम् ॥६४॥

सरस्वती प्रभवति तस्माज्योतिष्मती तु या ।
अवगाढ़े ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥६५॥

सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ।
यस्मादग्रे प्रभवति गन्धर्वानुकुले च ते ॥६६॥

मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान् ।
जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम् ॥६७॥

पयोदस्तु ह्रदो नीलः स शुभः पुण्‍डरीकवान् ।
पुण्डरीकात् पयोदाच्च तस्माद् वै सम्प्रसूयताम् ॥६८॥

सरसस्तुसरस्त्वेतत् स्मृतमुत्तरमानसम् ।
मृग्याच मृगकान्ता च तस्माद्‌ द्वेसम्प्रसूयताम् ॥६९॥

ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः ।
नाम्ना ते वैजया नाम द्वादशो दधिसन्निभाः ॥७०॥

तेभ्यः शान्तीच मध्वीच द्वेनद्यौ सम्प्रसूयताम् ।
किंपुरुषाद्यानि यान्यष्टौ तेषु देवो न वर्षति ॥७१॥

उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः ॥
बलाहकश्च ऋषभो चक्रो मैनाक एव च ॥७२॥

विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम् ॥७३॥

चन्द्रकान्तस्तथा द्रोणः सुमहांश्च शिलोच्चयः ।
उद्गायता उदीच्यान्तु अवगाढा महोमधिम् ॥७४॥

चक्रो बधिरकश्चैव तथा नारदपर्वतः ।
प्रतीचीमायतास्ते वै प्रतिष्ठास्ते महोदधिम् ॥७५॥

जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्वतः ।
आयतास्ते महाशैलाः समुद्रं दक्षिणम्प्रति ॥७६॥

चक्रमैनाकयोर्मध्ये दिवि संदक्षिणापथे ॥
तत्र संवर्तको नामसोऽग्निः पिबति तज्जलम् ।
अग्निः समुद्रवासस्तु और्वोऽसौवड़वामुखः ॥७७॥

इत्येते पर्वताविष्टाश्चत्वारो लवणो दधिम् ।
छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात् ॥७८॥

तेषान्तु द्रृश्यते चन्द्रे शुक्ले कृष्णे समाप्लुतिः ॥७९॥

ते भारतस्य वर्षस्य भेदा ये न प्रकीर्त्तिताः
इहोदितस्य द्रृश्यन्ते अन्ये त्वन्यत्र चोदिताः ।
उत्तरोत्तरमेतेषां वर्षमुद्रिच्यते गुणैः ॥८०॥

आरोग्यायुः प्रमाणाभ्यां धर्म्मतः कामतोऽर्थकः ।
समन्तितानि भूतानि तेषु वर्षेषु भागशः ॥८१॥

वसन्ति नानाजातीनि तेषु सर्वेषु तानि वै ।
इत्येतद्धारयद्विश्वं पृथ्वी जगदिदं स्थिताः ॥८२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Assay fee

  • पारख फी 
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.