संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९२

मत्स्यपुराणम् - अध्यायः १९२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यकथनम् ।

मार्कण्डेय उवाच ।
भार्गवेशं ततो गच्छेत् भग्नो यत्र जनार्दनः ।
असुरैस्तु महायुद्धे महाबलपराक्रमैः ॥१

हुङ्कारितास्तु देवेन दानवाः प्रलयङ्गताः ।
तत्र स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ॥२

शुक्लतीर्थस्य चोत्पत्तिं श्रृणु त्वं पाण्डुनन्दन!
हिमवच्छिखरे रम्ये नानाधातु-विचित्रिते ॥३

तरुणादित्यसङ्कारो तप्तकाञ्चनसप्रभे ।
वज्रस्फटिकसोपाने चित्रवेदी शिलातले ॥४

जाम्बूनदमये दिव्ये नानापुष्पोपशोभिते ।
तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् ॥५

लोकानुग्रहदं शान्तं गणवृन्दैः समावृतम् ।
स्कन्दनन्दिमहाकालैर्वीरभद्रगणादिभिः ॥६

उमया सहितं देवं मार्कण्डिः पर्यपृच्छत ।
देवदेव महादेव ब्रह्मविष्ण्विन्द्रसंस्तुत! ॥७

संसारभयभीतोऽहं सुखोपायं ब्रवीहि मे ।
भगवन्! भूतभव्येश! सर्वपापप्रणाशनम् ॥८

तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर! ।
ईश्वर उवाच ।
श्रृणु विप्र! महाप्राज्ञ! सर्वशास्त्रविशारद! ।
स्नानाय गच्छसुभग! ऋषिसङ्घैः समावृतः॥९

मन्वत्रिकश्यपाश्चैव याज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥१०

नारदो गौतमश्चैव सेवन्ते धर्म्मकाङ्क्षिणः ।
गङ्गां कनखलं पुण्यं प्रयागं पुष्करं गयाम् ॥११

कुरुक्षेत्रं महापुण्यं राहुग्रस्ते दिवाकरे ।
दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् ॥१२

दर्शनात् स्पर्शनाच्चैव स्नानाद्दानात्तपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थं महाफलम् ॥१३

शुक्लतीर्थं महापुण्यं नर्म्मदायां व्यवस्थितम् ।
चाणक्यो नाम राजर्षिः सिद्धिं तत्र समागतः ॥१४

एतत् क्षेत्रं सुविपुलं योजनं वृत्तसंस्थितम् ।
शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥१५

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
जगती दर्शनाच्चैव भ्रूणहत्यां व्यपोहति ॥१६

अहं तत्र ऋषिश्रेष्ट! तिष्ठामि ह्युमया सह ।
वैशाखे चैत्रमासे तु कृष्णपक्षे चतुर्दशी॥१७

कैलासाच्चापि निष्क्रम्य तत्र सन्निहितो ह्यहम् ।
दैत्यदानवगन्धर्वाः सिद्धविद्याधरास्तथा ॥१८

गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः ।
गगनस्था तु तिष्ठन्ति विमानैः सार्वकामिकैः ॥१९

शुक्लतीर्थं तु राजेन्द्र! ह्यागता धर्मकाङ्क्षिणः ।
रजकेन यथा वस्त्रं शुक्लम्भवति वारिणा ॥२०

आजन्मजनितं पापं शुक्लतीर्थं व्यपोहति ।
स्नानं दानं महापुण्यं मार्कण्डे ऋषिसत्तम॥२१

शुक्लतीर्थात् परं तीर्थं न भूतं न भविष्यति ।
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ॥२२

अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ।
तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ॥२३

देवार्चनेन या पुष्टिर्न सा क्रतुशतैरपि ।
कार्तिकस्यतु मासस्य कृष्णपक्षे चतुर्दशी ॥२४

घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् ।
एकविंशकुलोपेतो न च्यवेदैश्वरात् पदात् ॥२५

शुक्लतीर्थं महापुण्यमृषिसिद्धनिषेवितम् ।
तत्र स्नात्वा नरो राजन्! न पुनर्जन्मभाक् भवेत् ॥२६

स्नात्वा वै शुक्लतीर्थे तु ह्यर्चयेत् वृषभध्वजम् ।
कपालपूरणं कृत्वा तुष्यत्यत्र महेश्वरः ॥२७

अर्द्धनारीश्वरं देवं पटे भक्त्या लिखापयेत् ।
शङ्खतूर्यनिनादैश्च ब्रह्मघोषैश्च सद्विजैः ॥२८

जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः ।
प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् ॥२९

आचार्यान् भोजयेत् पश्चाच्छिवव्रतपरान् शुचीन् ।
दक्षिणाञ्च यथाशक्ति वित्तशाठ्यं विवर्जयेत् ॥३०

प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेत् ।
एवं वै कुरुते यस्तु तस्य पुण्यफलं श्रृणु । १९२.३१

दिव्ययानं समारुढ़ो गीयमानोऽप्सरोगणैः ।
शिवतुल्य बलोपेतस्तिष्ठत्याभूतसंप्लवम् ॥३२

शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् ।
घृतेन स्नापयेद्देवं कुमारं चापि पूजयेत्॥३३

एवं या कुरुते भक्त्या तस्याः पुण्यफलं श्रृणु ।
मोदते शर्वलोकस्था यावदिन्द्राश्चतुर्दश ॥३४

पौर्णमास्यां चतुर्दश्यां संक्रान्तौ विषुवे तथा ।
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥३५

दानं दद्याद्यथाशक्त्या प्रीयेता हरिशङ्करौ ।
एवं तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥३६

अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।
उद्वाहयति यस्तीर्थे तस्य पुण्यफलं श्रृणु॥३७

यावत्तद्रोमसंख्या च तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥३८

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP