TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९२

मत्स्यपुराणम् - अध्यायः ९२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ९२
शर्कराशैलदानवर्णनम् ।

अथातः संप्रवक्ष्यामि शर्कराशैलमुत्तमम् ।
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा ॥१॥

अष्टाभिः शर्कराभारैरुत्तमः स्यान्महाचलः ।
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामदमः स्मृतः ॥२॥

भारेण वार्द्धभारेण कुर्याद्यः स्वल्पवित्तवान् ।
विष्कम्भपर्वतान्‌ कुर्यात्तुरीयांशेन मानवः ॥३॥

धान्यपर्वतवत् सर्वमासाद्यामरसंयुतम् ।
मेरोरुपरि तद्वच्च स्थाप्य हेमतरुत्रयम् ॥४॥

मन्दारः पारिजातश्च तृतीयः कल्पपादपः ।
एतद्‌ वृक्षत्रयं मूर्ध्नि सर्वेष्वपि नियोजयेत् ॥५॥

हरिचन्दनसन्तानौ पूर्वपश्चिमभागयोः ।
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कारचले ॥६॥

मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् ।
गन्धमादनश्रृङ्गे तु धनदः स्यादुदङ्‌मुखः ॥७॥

प्राङ्मुखो वेदमूर्तिस्तु हंसः स्याद्विपुलाचले ।
हैमी सुपार्श्वेसुरभिर्दक्षिणाभिमुखो भवेत् ॥८॥

धान्यपर्वतवत् सर्वमावाहनविधानकम् ।
कृत्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमम् ॥
ऋत्विग्म्यश्चतुरः शैलानिमान्मन्त्रानुदीरयन् ॥९॥

सौभाग्यामृतसारोऽयं पर्वतः शर्करायुतः ।
तस्मादानन्दकारीत्वं भवशैलेन्द्र! सर्वदा ॥१०॥

अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः ।
देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल! ॥११॥

मनो भवधनुर्मध्यादुद्‌भूता शर्करायतः ।
तन्मयोऽसि महाशैल! पाहि संसारसागरात् ॥१२॥

यो दद्याच्छर्कराशैलमनेन विधिना नरः ।
सर्वपापैर्विनिर्मुक्तः स याति परमम्पदम् ॥१३॥

चन्द्रतारार्कसङ्काशमधिरुह्यानुजीविभिः ।
सहैव यानमातिष्ठेत् तत्र विष्णुप्रचोदितः ॥१४॥

ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ।
आयुरारोग्यसम्पन्नो यावज्जन्मार्बुदत्रयम् ॥१५॥

भोजनं शक्तितः कुर्यात् सर्वशैलेष्वमत्सरः ।
सर्वत्र क्षारलवणमश्नीयात्तदनुज्ञया ।
पर्वतोपस्करान् सर्वान् प्रापयेद् ब्राह्मणालयम् ॥१६॥

ईश्वर उवाच ।
आसीत् पुरा बृहत्कल्पे धर्म्ममूर्त्तिर्जनाधिपः ।
सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः ॥१७॥

सोमसूर्यादयो यस्य तेजसा विगतप्रभाः ।
भवन्ति शतशो येन शत्रवश्चापराजिताः ।
यथेच्छारूपधारी च मनुष्योऽप्यपराजितः ॥१८॥

तस्य भानुमती नाम भार्या त्रैलोक्यसुन्दरी ।
लक्ष्मीवद्दिव्यरूपेण निर्जितामरसुन्दरी ॥१९॥

राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी ।
दशनारीसहस्राणां मध्ये श्रीरिव राजते ॥२०॥

नृपकोटिसहस्रेण न कादिचत् समुच्यते ।
कदाचिदास्थानगतः पप्रच्छ स पुरोधसम् ।
विस्मयेनावृतो राजा वसिष्ठमृषिसत्तमम् ॥२१॥

भगवन्! केन धर्मेण मम लक्ष्मीरनुत्तमा ।
कस्माच्च विपुलन्तेजो मच्छरीरे सदोत्तमम् ॥२२॥

पुरा लीलावती नाम वेश्या शिवपरायणा ।
तथा दत्तश्चतुर्दश्याङ्गुरवे लवणाचलः ।
हेमवृक्षादिभिः सार्द्धं यथावद्विधिपूर्वकम् ॥२३॥

शूद्रः सुवर्णकारश्च नाम्ना शौण्डोऽभवत्तदा ।
भृत्योलीलावती गेहे तेन हेम्ना विनिर्मिताः ॥२४॥

तरवः सुरमुख्याश्च श्रद्‌धायुक्तेन पार्थिव ।
अतिरूपेण संपन्ना घटयित्वा विनाभृतिम् ॥
धर्म्मकार्य्यमिति ज्ञात्वा न गृह्णाति कथञ्चन ॥२५॥

उज्वलिताश्च तत्पत्न्या सौवर्णामरपादपाः ।
लीलावतीगिरेः पार्श्वे परिचर्याञ्च पार्थिव ॥२६॥

कृत्वा ताभ्यामशाठ्ये न गुरुशुश्रूषणादिकम् ।
सा च लीलावतीवेश्या कालेन महतापि च ॥२७॥

कालधर्म्ममनुप्राप्ता कर्म्मयोगेन नारद ।
सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम् ॥२८॥

योऽसौ सुवर्णकारस्तु दरिद्रोऽप्यतिसत्ववान् ।
न मौल्यमादाद्वेश्यातः स भवानिह साम्प्रतम् ॥२९॥

सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः ।
यया सुवर्णकारस्य तरवो हेमनिर्मिताः ।
सम्यगुज्वालिताः पत्न्या सेयम्भानुमती तव  ॥३०॥

उज्वालनादुज्वलरूपमस्याः सञ्जातमस्मिन् भुवनाधिपत्यम् ।
यस्मात् कृतं तत्परिकर्म्म रात्रावनुद्धाताभ्यां लवणाचलस्य ।
तस्माच्च लोकेष्वपराजितत्वमारोग्यसौभाग्युयुता च लक्ष्मीः ॥३१॥

तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन् दशधा कुरुष्व ।
तथेति सत्कृत्य स धर्म्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान् ।
धान्याचलादीन् शतशो मुरारेर्लोकं जगामामरपूज्यमानः ॥३२॥

पश्येदपीमान्नधनोऽति भक्त्या स्पृशेन्मनुष्यैरपि दीयमानान् ।
श्रृणोति भक्त्याऽथ मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ॥३३॥

दुःस्वप्नं प्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यः ।
यः कुर्यात् किमु मुनिपुङ्गवेह सम्यक् शान्तात्मा सकलगिरीन्द्रसम्प्रदानम् ॥३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:49.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

secondary stage syphilis

  • द्वितीयवस्था फिरंग 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.