संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७२

मत्स्यपुराणम् - अध्यायः ७२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अङ्गारकव्रतकथनम् ।

ईश्वर उवाच ।
श्रृणु चान्यद् भविष्यं यद्रूपसम्पद्विधायकम् ।
भविष्यति युगे तस्मिन् द्वापरान्ते पितामह ॥
पिप्पलादस्य संवादो युधिष्ठिरपुरःसरैः  ॥१॥

वसन्तं नैमिषारण्ये पिप्पलादं महामुनिम् ।
अधिगम्य तदा चैनं प्रश्नमेकं करिष्यति ।
युधिष्ठिरो धर्म्मपुत्रो धर्मयुक्तस्तपोधनम् ॥२॥

युधिष्ठिर उवाच ।
कथमारोग्यमैश्वर्यं मतिर्धर्म्मेगतिस्तथा ।
अव्यङ्गता शिवे भक्तिर्वैष्णवो वा भवेत् कथम् ॥३॥

ईश्वर उवाच ।
तस्योत्तरमिदं ब्रह्मन्! पिप्पलादस्य धीमतः ।
श्रृणुष्व यद्वक्ष्यति वै धर्म्मपुत्राय धार्मिकः ॥४॥

पिप्पलाद उवाच ।
साधु पृष्टं त्वया भद्र! इदानीं कथयामि ते ।
अङ्गारव्रतमित्येतत् स वक्ष्यति महीपतेः ॥५॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विरोचनस्य सम्वादं भार्गवस्य च धीमतः ॥६॥

प्रह्लादस्य सुतं द्रृष्ट्वा द्विरष्टपरिवत्सरम् ।
रूपेणाप्रतिमं कान्त्या सोऽहसद्‌भृगुनन्दनः ॥७॥

साधु साधु महाबाहो! विरोचन ! शिवं तव ।
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः ॥८॥

ब्रह्मन्! किमर्थमेतत्ते हास्यमाकस्मिकं कृतम् ।
साधु साध्विति मामेवमुक्तवांस्त्वं वदस्व मे ॥९॥

तमेवं वादिनं शुक्र उवाच वदताम्वरः ।
विस्मयाद्‌ व्रतमाहात्म्याद्धास्यमेतत् कृतं मया ॥१०॥

पुरा दक्षविनाशाय कुपितस्य तु शूलिनः ।
अथ तद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः ॥११॥

भित्वा स सप्तपातालानदहत्सप्त सागरान् ।
अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः ॥१२॥

वीरभद्र इति ख्यातः करपादायुतैर्युतः ।
कृत्वासौ यज्ञमथनं पुनर्भूतलसम्भवः ।
त्रिजगन्निर्दहन् भूयः शिवेन विनिवारितः ॥१३॥

कृतं त्वया वीरभद्र! दक्षयज्ञविनाशनम् ।
इदानीमलमेतेन लोकदाहेन कर्म्मणा ॥१४॥

शान्तिप्रदाता सर्वेषां ग्रहाणां प्रथमो भव ।
प्रेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान् मम ॥१५॥

अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज ।
देवलोके द्वितीयञ्च तव रूपं भविष्यति ॥१६॥

ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः ।
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति ॥१७॥

एवमुक्तस्तदा शान्तिमगमत्कामरूपधृक् ।
सञ्जातस्तत्क्षणाद्राजन्!ग्रहत्वमगमत्‌ पुनः ॥१८॥

स कदाचित्‌ भवांस्तस्य पूजार्घ्यादिकमुत्तमम् ।
द्रृष्टवान्‌ क्रियमाणञ्च शूद्रेण च व्यवस्थितः ॥१९॥

तेन त्वं रूपवान् जातः सुरशत्रुकुलोद्वह ।
विविधा च रुचिर्जाता यस्मात् तव विदूरगा ॥२०॥

विरोचन इति प्राहुर्यस्मात् त्वां देवदानवाः ।
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात् ॥२१॥

ईद्रृशीं रूपसम्पत्तिं द्रृष्ट्वा विस्मितवानहम् ।
साधु साध्विति तेनोक्तं मही माहात्म्यमुत्तमम् ॥
पश्यतोऽपि भवेद्रूपमैश्वर्यं किमु कुर्वतः ॥२२॥

यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम् ।
आलोकितन्तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य! जाता ॥२३॥

ईश्वर उवाच ।
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः ।
प्रह्लादनन्दनो वीरः पुनः पप्रच्छ विस्मितः ॥२४॥

विरोचन उवाच ।
भगवंस्तद्‌ व्रतं सम्यक् श्रोतुमिच्छामि तत्त्वतः ।
दीयमानन्तु यद्दानं मया द्रृष्टं भवान्तरे ॥२५॥

माहात्म्यञ्च विधिं तस्य यथावद्वक्तुमर्हसि ।
इति तद्वचनं श्रुत्वा पुनः प्रोवाच विस्तरात् ॥२६॥

शुक्र उवाच ।
चतुर्थ्यङ्गारकदिने यदा भवति दानव ।
मृदा स्नानां तदा कुर्यात्‌ पद्मरागविभूषितः ॥२७॥

अग्निर्मूर्द्धादिवो मन्त्रं जपन्नास्ते उदङ्‌मुखः ।
शूद्रस्तूष्णीं स्मरन्‌ भौममास्ते भोगविवर्जितः ॥२८॥

तथास्तमित आदित्ये गोमयेनानुलेपयेत् ।
प्राङ्गणं पुष्पमालाभिरक्षताभिः समन्ततः ॥२९॥

अभ्यर्च्याभि लिखेत् पद्मं कुङ्कुमेनाष्टपत्रकम् ।
कुङ्कुमस्याप्यभावे तु रक्तचन्दनमिष्यते ॥३०॥

चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः ।
तण्डुलैरक्तशालीयैः पद्मरागैश्च संयुताः ॥३१॥

चतुः कोणेषु तान् कृत्वा फलानि विविधानि च ।
गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत् ॥३२॥

सुवर्णश्रृङ्गीं कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवत्साम् ।
धुरन्धरं रक्तमतीव सौम्यं दान्यानि सप्ताम्बरसंयुतानि ॥३३॥

अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम् ।
चतुर्भुजं हेममये निविष्टं पात्रे गुडस्योपरि सर्पियुक्तम् ॥३४॥

समस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय ।
दातव्यमेतत् सकलं द्विजाय कुटुम्बिने नैव तु दाम्भिकाय ।
समर्पयेद्विप्रवराय भक्त्या कृताञ्जलिः पूर्वमुदीर्य मन्त्रम् ॥३५॥

भूमिपुत्र! महाभाग! स्वेदोद्भव! पिनाकिनः ।
रूपार्थी त्वां प्रपन्नोऽहं गृहाणार्घ्यं नमोऽस्तु ते ॥३६॥

मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा ।
ततोऽर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः ॥३७॥

दद्यात्तेनैव मन्त्रेण भौमङ्गोमिथुनान्वितम् ।
शय्यां च शक्तितो दद्यात्‌ सर्वोपस्करसंयुताम् ॥३८॥

यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।
तत्तद्‌गुणवते देयन्तदेवाक्षयमिच्छता ॥३९॥

प्रदक्षिणां ततः कृत्वा विसर्ज्य द्विजपुङ्गवम् ।
नक्तमक्षारलवणमश्नीयाद्‌ घृतसंयुतम् ॥४०॥

भक्त्या यस्तु पुनः कुर्यादेवमङ्गारकाष्टकम् ।
चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते ॥४१॥

रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि ।
विष्णौ वाऽथ शिवे भक्तः सप्तद्वीपाधिपो भवेत् ॥४२॥

सप्तकल्पसहस्राणि रुद्रलोके महीयते ।
तस्मात्त्वमपि दैत्येन्द्र! व्रतमेतत् समाचर ॥४३॥

पिप्पलाद उवाच ।
इत्येवमुक्त्वा भृगुनन्दनोऽपि जगाम दैत्यश्च चकार सर्वम् ।
त्वं चापि राजन्! कुरु सर्वमेतद्यतोऽक्षयं वेदविदो वदन्ति ॥४४॥

ईश्वर उवाच ।
तथेति संपूज्य स पिप्पलादं वाक्यञ्चकाराद्‌भुतवीर्यकर्मा ।
श्रृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं भगवान् विधत्ते ॥४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP