TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६२

मत्स्यपुराणम् - अध्यायः १६२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १६२
नरसिंहमाहात्म्यवर्णनम् ।

सूत उवाच ।
ततो दृष्ट्वा महात्मानं कालचक्रमिवागतम् ।
नरसिंह वपुञ्छन्नं भस्मच्छन्नमिवानलम् ॥१

हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान् ।
दिव्येन चक्षुषा सिंहमपश्यद्देवमागतम् ॥२

तं दृष्ट्वा रुक्मशैलाभमपूर्वान्तनुमाश्रितम् ।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥३

प्रह्लाद उवाच ।
महाबाहो! महाराज! दैत्यानामादिसम्भव ।
न श्रुतं न च नो दृष्टं नारसिंहमिदं वपुः ॥४

अव्यक्तप्रभवन्दिव्यं किमिदं रूपमागतम् ।
दैत्यान्तकरणं घोरं संशतीव मनो मम ॥५

अस्य देवाः शरीरस्थाः सागराः सरितश्च याः ।
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥६

चन्द्रमाश्च सनक्षत्रैरादित्यैर्वसुभिः सह ।
धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥७

मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः ।
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥८

ब्रह्मा देवः पशुपतिर्ललाटस्था भ्रमन्ति वै ।
स्थावराणि च सर्वाणि जङ्घमानि तथैव च ॥१६२.९

भवांश्च सहितोऽस्माभिः सर्वैर्देवगणैर्वृतः ।
विमानशतसङ्कीर्णा तथैव भवतः सभा ॥१०

सर्वं त्रिभुवनं राजन्! लोकधर्माश्च शाश्वताः ।
दृश्यन्ते नारसिंहेऽस्मिस्तथेदमखिलं जगत् ॥११

प्रजापतिश्चात्र मनुर्महात्मा ग्रहश्च योगश्च महीरुहाश्च ।
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यञ्च तपो दमश्च ॥१२

सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे ।
क्रोधश्च कामश्च तथैव हर्षो धर्म्मश्च मोहः पितरश्च सर्वे ॥१३

प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः ।
उवाच दानवान् सर्वान् गणांश्च स गणाधिपः ॥१४

मृगेन्द्रो गृह्यतामेष अपूर्वं सत्वमास्थितः ।
यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ॥१५

ते दानवगणाः सर्वे मृगेन्द्रं भीमविक्रमम् ।
परिक्षिपन्तो मुदिता त्रासयामासु रोजसा ॥१६

सिंहनादं विमुच्याथ नरसिंहो महाबलः ।
बभञ्ज तां सभां सर्वां व्यादितास्य इवान्तकः १६२.१७

सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् ।
चिक्षेप शस्त्राणि सिंहस्य रोषाद्व्याकुललोचनः ॥१८

सर्वास्त्राणामथ ज्येष्ठं दण्डमस्त्रं सुदारुणम् ।
कालचक्रं तथा घोरं विष्णुचक्रं तथा परम् ॥१९

पैतामहं तथात्युग्रं त्रैलोक्य दहनं महत् ।
विचित्रामशीनीञ्चैव शुष्कार्द्रं चाशनिद्वयम् ॥२०

रौद्रं तथोग्रं शूलञ्च कङ्कालं मुसलं तथा ।
मोहनं शोषणं चैव सन्तापन विलापनम् ॥२१

वायव्यं मथनं चैव कापालमथ कैङ्करम् ।
तथा प्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च ॥२२

अस्त्रं ब्रह्मशिरश्चैव सोमास्त्रं शिशिरं तथा ।
कम्पनं शतनञ्चैव त्वाष्ट्रञ्चैव सुभैरवम् ॥१६२.२३

कालमुद्गरमक्षोभ्यं तपनञ्च महाबलम् ।
संवर्तनं मादनञ्च तथा मायाधरं परम् ॥२४

गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् ।
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् ।
अस्त्रं पाशुपतञ्चैव यस्याप्रतिहता गतिः ॥२५

अस्त्रं हयशिरश्चैव ब्राह्ममस्त्रं तथैव च ।
नारायणास्त्रमैन्द्रञ्च सार्पमस्त्रं तथाद्भुतम् ॥२६

पैशाचमस्त्रमजितं शोषदं शामनं तथा ।
महाबलं भावनं च प्रस्थापनविकम्पने ॥२७

एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा ।
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ॥२८

अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमाः ।
विवस्वान् धर्म्मसमये हिमवन्तमिवांशुभिः ॥२९

स ह्यमर्षानिलोद्धूतो दैत्यानां सैन्यसागरः ।
क्षणेन प्लावयामास मैनाकमिव सागरः ॥३०

प्रासैः पाशैश्च खङ्गैश्च गदाभिर्मुसलैस्तथा ।
वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः ॥३१

मुद्गरैर्भिन्दिपालैश्च शिलोलूखल पर्वतै ।
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ॥३२

ते दानवाः पाशगृहीतहस्ता महेन्द्र तुल्याशनि वज्रवेगाः ।
समन्ततोऽभ्युद्यत-बाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः ॥३३

सुवर्णमालाकुलभूषिताङ्गाः पीतांशुका भोगविभाविताङ्गाः ।
मुक्तावली दाम सनाथ कक्षा हंसा इवा भान्ति विशालपक्षाः ॥३४

तेषां तु वायुप्रतिमौजसां वै केयूर मौली वलयोत्कटानाम् ।
तान्युत्तमाङ्गान्यभितो विभान्ति प्रभात सूर्यांशु समप्रभाणि ॥३५

क्षिपद्भिरुग्रैर्ज्वलितैर्महाबलैर्महास्त्रपूगैः सुसमावृतो बभौ ।
गिरिर्यथा सन्ततवर्षिभिर्घनैः कृतान्धकारान्तर कन्दरो द्रुमैः ॥३६

तैर्हन्यमानोऽपि महास्त्रजालैर्महाबलैर्दैत्यगणैः समेतैः ।
नाकम्पताजौ भगवान् प्रताप स्थितप्रकृत्या हिमवानिवाचलः ॥३७

सन्त्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावक तुल्य तेजसा ।
भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागर वारि सम्भवाः ॥३८

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शिरीं

  • न. ( गो . ) बांबूच्या काठयांचें केलेलें मासे धरण्याचें जाळें . 
RANDOM WORD

Did you know?

भारतीय विवाहसंस्थेचा पाया केव्हां घातला गेला?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site