TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १३६

मत्स्यपुराणम् - अध्यायः १३६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १३६
मयस्य महेश्वररूपस्य कालस्य प्रशंसावर्णनम् ।

सूत उवाच ।
मयः प्रहारं कृत्वा तु मायावी दानवर्षभः ।
विवेश तूर्णं त्रिपुरमभ्रं नीलमिवाम्बरम् ॥१॥

सदीर्घमुष्णं निःश्वस्य दानवान्‌ वीक्ष्य मध्यगान् ।
दध्यौ लोकक्षये प्राप्ते कालं काल इवापरः ॥२॥

इन्द्रोऽपि बिभ्यते यस्य स्थितो युद्धेप्सुरग्रतः ।
स चापि निधनं प्राप्तो विद्युन्माली महायशाः ॥३॥

दुर्गं वै त्रिपुरस्यास्य न समं विद्यते पुरम् ।
तस्याप्येषो नयः प्राप्तो न दुर्गं कारणं क्वचित् ॥४॥

कालस्यैव वशे सर्वं दुर्गं दुर्गतरञ्च यत् ।
काले क्रुद्धे कथं कालात्त्राणं नोऽद्य भविष्यति ॥५॥

लोकेषु त्रिषु यत् किञ्चिद्‌बलं वै सर्वजन्तुषु ।
कालस्य तद्वशं सर्वमिति पैतामहो विधिः ॥६॥

अस्मिन् कः प्रभवोद्योगोह्यसन्धार्ये मितात्मनि ।
लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम् ॥७॥

बिभेमि नेन्द्राद्धि यमाद् वरुणान्न च वित्तपात् ।
स्वामी चैषान्तु देवानां दुर्जयः स महेश्वरः ॥८॥

ऐश्वर्यस्य फलं यत्तत् प्रभुत्वस्य च यत् फलम् ।
तदद्य दर्शयिष्यामि यावद्वीराः समन्ततः ॥९॥

वापीममृततोयेन पूर्णा स्रक्ष्ये वरौषधीः ।
जीविष्यन्ति तदा दैत्याः सञ्जीवनवरौषधीः ॥१०॥

इति सञ्चित्य बलवान् मयो मायाविनां वरः ।
मायया ससृजे वापीं रम्भामिव पितामहः ॥११॥

द्वियोजनायतां दीर्घां पूर्णयोजनविस्तृताम् ।
आरोहसंक्रमवतीं चित्ररूपां तथैव च ॥१२॥

इन्दोः किरणकल्पेन मृष्टेनामृतगन्धिना ।
पूर्णां परमतोयेन गुणपूर्णामिवाङ्गनाम् ॥१३॥

उत्पलैः कुमुदैः पद्मैर्वृतां कादम्बकैस्तथा ।
चन्द्रभास्करवर्णाभैर्भीमैरावरणैर्वृताम् ॥१४॥

खगैमधुररावैश्च चारुचामीकरप्रभैः ।
कामैषिभिरिवाकीर्णां जीवानामरणीमिव ॥१५॥

तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः ।
तस्यां प्रक्षापयामास विद्युन्मालिनमादितः ॥१६॥

स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः ।
उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः ॥१७॥

मयस्य चाञ्जलिं कृत्वा तारकाख्योऽभिवादितः ।
विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत् ॥१८॥

क्व नन्दी सह रुद्रेण वृतः प्रथकजम्बुकैः ।
युद्‌ध्यामो नन्दिनं पीड्य दया देहेषु का हि नः ॥१९॥

अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः ।
तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः ॥२०॥

विद्युन्‌मालेः निशम्यैतन्मयोवचनमूर्जितम् ।
तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः ॥२१॥

विद्युन्‌मालिन्न मे राज्यमभिप्रेतन्न जीवितम् ।
त्वया विना महाबाहो! किमन्येन महासुर! ॥२२॥

महामृतमयी वापी ह्येषा मायाभिरीश्वर! ।
सृष्टा दानवदैत्यानां हतानां जीववर्द्धिनी ॥२३॥

दिष्ट्या त्वां दैत्य! पश्यामि यमलोकादिहागतम् ।
दुर्गतावनयग्रस्तं भोक्ष्यामोऽद्य महानिधिम् ॥२४॥

द्रृष्ट्वा द्रृष्ट्वा च तां वापीं मायया मयनिर्मिताम् ।
हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन् ॥२५॥

दानवा! युद्‌द्यतेदानीं प्रमथैः सहनिर्भयाः ।
मयेन निर्मितावापी हतान् सञ्जीवयिष्यति ॥२६॥

ततः क्षुब्धाम्बुनिधिभा भेरीसानु भयङ्करी ।
वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः ॥२७॥

श्रुत्वा भेरीरवं घोरं मेघारम्भित सन्निभम् ।
न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः ॥२८॥

लोहरायतसौवर्णैः कटकैर्मणिराजितैः ।
आमुक्तैः कुण्डलैहारैर्मुकुटैरपि चोत्कटैः ॥२९॥

धूमायिता ह्यविरमा ज्वलन्त इव पावकाः ।
आयुधानि समादाय काशिनो द्रृढविक्रमाः ॥३०॥

नृत्यमाना इव नटा गर्जंन्त इव तोयदा ।
करोच्छ्राया इव गजा सिंहा इव च निर्भयाः ॥३१॥

ह्रदा इव च गम्भीराः सूर्य्या इव प्रतापिताः ।
द्रुमा इव च दैत्येन्द्रा त्रासयन्ते बलं महत् ॥३२॥

प्रमथा अपि सोत्साहा गरुड़ोत्पात पातिनः ।
युयुत्सवोऽभिधावन्ति दानवान् दानवारयः ॥३३॥

नन्दीश्वरेण प्रमथास्तारकाख्येण दानवाः ।
चक्रुः संहत्य संग्रामञ्चोद्यमाना बलेन च ॥३४॥

तेऽसिभिश्चन्द्रसङ्काशैः शूलैश्चानलपिंगलैः ।
बाणैश्च द्रृढनिर्मुक्तैरभिजघ्नुः परस्परम् ॥३५॥

शराणां सृज्यमानानामसीनाञ्च निपात्यताम् ।
रूपाण्यासन्‌ महोल्कानां पतन्तीनामिवाम्बरात् ॥३६॥

शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः ।
निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः ॥३७॥

हेमकुण्डलयुक्तानि किरीटोत्कटवन्तिच ।
शिरांस्युर्व्या पतन्तिस्म गिरिकूटानिवात्यये ॥३८॥

परश्वधैः पट्टिशैश्च खङ्गैश्च परिघैस्तथा ।
छिन्नाः करिवराकारा निपेतुस्ते धरातले ॥३९॥

गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः ।
साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम् ॥४०॥

बलवान्‌ भासि प्रमथ दर्पितो भासि दानव! ।
इति चोच्चारयन्वाचं वारणा रणधूर्गताः ॥४१॥

परिघैराहता केचिद्दानवैः शङ्करानुगाः ।
वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः ॥४२॥

प्रमधैरपि नाराचैरसुराः सुरशत्रवः ।
द्रुमैश्च गिरिश्रृङ्गैश्च गाढ़मेवाहवे हताः ॥४३॥

सूदितानथ तान् दैत्यानन्ये दानवपुङ्गवाः ।
उत्‌क्षिप्य चिक्षिपुर्वाप्यां मयदानव नोदिताः ॥४४॥

ते चापि भास्वरैर्देहैः स्वर्गलोक इवामराः ।
उत्तस्थुर्वापीमासाद्य सद्रूपा भरणाम्बराः ॥४५॥

अथैके दानवाः प्राप्य वापी प्रक्षेपणादसून् ।
आस्फोट्य सिंहनादञ्च कृत्वा धावंस्तथा सुराः ॥४६॥

दानवाः प्रमथानेतान् प्रसर्पत किमासथ ।
हतानपि हि वो वापी पुनरुज्जीवयिष्यति ॥४७॥

एवं श्रुत्वा शङ्कुकर्णो वचोऽग्रग्रहसन्निभः ।
द्रुतमेवेत्य देवेशमिदं वचनमब्रवीत् ॥४८॥

सूदिताः सूदिता देव! प्रमथैरसुराह्यमी ।
उत्तिष्ठन्ति पुनर्भीमाः सस्या इव जलोक्षिताः ॥४९॥

अस्मिन् किल पुरे वापी पूर्णामृतरसाम्भसा ।
निहता निहता यत्र क्षिप्ता जीवन्ति दानवाः ॥५०॥

इति विज्ञापयेद्देवं शङ्कुकर्णो महेश्वरम् ।
अभवन् दानवबल उत्पाता वै सुदारुणाः ॥५१॥

तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा ।
अभ्यधावत् सुसंक्रुद्धो महादेवरथं प्रति ॥५२॥

त्रिपुरे तु महान्घोरो भेरीशङ्खरवो बभौ ।
दानवा निः सृता द्रृष्ट्वा देवदेवरथे सुरम् ॥५३॥

भूकम्पश्चाभवत्तत्र शताङ्गो भूगतोऽभवत् ।
द्रृष्ट्वा क्षोभमगाद्रुद्रः स्वयम्भूश्च पितामहः ॥५४॥

ताभ्यां देववरिष्ठाभ्यामन्वितः स रथोत्तमः ।
अनायतनमासाद्य सीदते गुणवानिव ॥५५॥

धातुक्षये देह इव ग्रीष्मे चाल्पमिवोदकम् ।
शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा ॥५६॥

रथादुत्पत्यात्मभूर्वै सीदन्तं तु रथोत्तमम् ।
वृषरूपं महत् कृत्वा रथं जग्राह दुर्धरम् ॥५७॥

तदा शराद्विनिष्पत्य पीतवासा जनार्दनः ।
वृषरूपं महत् कृत्वा रथं जग्राह दुर्धरम् ॥५८॥

सविषाणाभ्यां त्रैलोक्यं रथमेव महारथः ।
प्रगृह्योद्वहते सज्जं कुलं कुलवहो यथा ॥५९॥

तारकाख्योऽपि दैत्येन्द्रो गिरीन्द्र इव पक्षवान् ।
अभ्यद्रवत्तदा देवं ब्रह्माणं हतवांश्च सः ॥६०॥

स तारकाख्याभिहतः प्रतोदं न्यस्य कूबरे ।
विजज्वाल मुहुर्ब्रह्मा श्वासं वक्त्रात् समुद्गिरन् ॥६१॥

तत्र दैत्यैर्महानादो दानवैरपि भैरवः ।
तारकाख्यस्य पूजार्थं कृतो जलधरोपमः ॥६२॥

रथचरणकरोऽथ महामृधे वृषभवपुर्वृषभेन्द्रपूजितः ।
दितितनयबलं विमर्द्य सर्वं त्रिपुरपुरं प्रविवेश केशवः ॥६३॥

सजलजलदराजिता समस्तां कुमुदवरोपलफुल्लपङ्कजाढ्याम् ।
सुरगुरुरपिबत्पयोऽमृतन्तद्रविरिव सञ्चितशार्वरन्तमोऽन्धम् ॥६४॥

वापीं पीत्वा सुरेन्द्राणां पीतवासाजनार्दनः ।
नर्दमानो महाबाहुः प्रविवेश शरन्ततः ॥६५॥

ततोऽसुरा भीमगणेश्वरैर्हताः प्रहारसम्बर्द्धितशोणितापगाः ।
पराङ्मुखाभीममुखैः कृतारणे यथा नयाभ्युद्यततत्परैर्नरः ॥६६॥

स तारकाख्यस्तडिमालिरेव च मयेन सार्द्धं प्रमथैरभिद्रुता ।
पुरं परा वृत्यनुतेशरार्दिता यथा शरीरं पवनोदये गता ॥६७॥

गणेश्वराभ्युद्यतदर्पकाशिनो महेन्द्रनन्दीश्वरषण्मुखायुधि ।
विनेदुरुच्चैर्जहसुश्च दुर्मदा जयेम चन्द्रादि दिगीश्वरैः सह ॥६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sag correction

  • अवतलन संशुद्धि 
  • also catenary correciton 
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site