TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८७

मत्स्यपुराणम् - अध्यायः १८७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १८७
नर्मदामाहात्म्ये ज्वालेश्वरतीर्थमाहात्म्यवर्णनम् ।

मार्कण्डेय उवाच ।
नर्मदा तु नदी श्रेष्ठा पुण्यात् पुण्यतमाहिता ।
मुनिभिस्तु महाभागैर्विभक्ता मोक्षकांक्षिभिः ॥१

यज्ञोपवीतमात्राणि प्रविभक्तानि पाण्डव ।
तेषु स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ॥२

ज(ज्वा)लेश्वरं परन्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तस्योत्पत्तिं कथयतः श्रुणु त्वं पाण्डुनन्दन! ॥३

पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।
भयोद्विग्ना विरूपाक्षं परित्रायस्व न प्रभो! ॥४

श्रीभगवानुवाच ।
स्वागतं तु सुरश्रेष्ठाः! किमर्थमिह चागताः ।
किं दुःखं को नु सन्तापः कुतो वा भयमागतम् ॥५

कथयध्वं महाभागाः एवमिच्छामि वेदितुम् ।
एवमुक्तास्तु रुद्रेण कथयन् संशितव्रताः ॥६

ऋषय ऊचुः ।
अतिवीर्य्यो महाघोरो दानवो बलदर्पितः ।
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ॥७

गगने सततं दिव्यं भ्रमते तस्य तेजसा!
ततो भीता विरूपाक्ष! त्वामेव शरणं गताः ॥८

त्रायस्व महतो दुःखात् त्वं हि नः परमा गतिः ।
एवं प्रसादं देवेश! सर्वेषां कर्तुमर्हसि ॥९

येन देवाः सगन्धर्वाः सुखमेधन्ति शङ्कर! ।
परां निर्वृतिमायान्ति तत्प्रभो! कर्तुमर्हसि ॥१0

श्रीभगवानुवाच ।
एतत् सर्वं करिष्यामि मा विषादं गमिष्यथ ।
अचिरेणैव कालेन कुर्य्यां युष्मत् सुखावहम् ॥११

आश्वास्य स तु तान् सर्व्वान्नर्मदा तटमाश्रितः ।
चिन्तयामास देवेशस्तद्वधं प्रतिमानद! ॥१२

अथ केन प्रकारेण हन्तव्यं त्रिपुरं मया ।
परं संचिन्त्य भगवान् नारदं चास्मरत्तदा ।
स्मरणादेव! संप्राप्तो नारदः समुपस्थितः ॥१३

नारद उवाच ।
आज्ञापय महादेव! किमर्थञ्च स्मृतो ह्यहम् ।
किं कार्य्यन्तु मया देव! कर्तव्यं कथयस्व मे ॥१४

श्रीभगवानुवाच ।
गच्छ नारद! तत्रैव यत्र तत्त्रिपुरं महत् ।
बाणस्य दानवेन्द्रस्य शीघ्रं गत्वा च तत्कुरु ॥१५

या भर्तृदेवतास्तत्र स्त्रियश्चाप्सरसां समाः ।
तासां वै तेजसा विप्र! भ्रमते त्रिपुरन्दिवि ॥१६

तत्र गत्वा तु विप्रेन्द्र! मतिमन्यां प्रबोधय ।
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः ॥१७

स्त्रीणां हृदयनाशाय प्रविष्टस्तत् पुरं प्रति ।
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् ॥१८

शतयोजनविस्तीर्णं ततो द्विगुणमायतम् ।
ततोऽपश्यद्धि तत्रैव बाणन्तु बलदर्पितम् ॥१९

मणिकुण्डलकेयूर मुकुटेन विराजितम् ।
हारदोरसुवर्णैश्च चन्द्रकान्तविभूषितम् ॥२0

रशना तस्य रत्नाढ्या बाहू कनकमण्डितौ ।
चन्द्रकान्तमहावज्रमणिविद्रुमभूषिते ॥२१

द्वादशार्कद्युतिनिभे निविष्टं परमात्मने ।
उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ॥२२

बाण उवाच ।
देवर्षे! त्वं स्वयं प्राप्तो अर्घ्यं पाद्यं निवेदये ।

सोऽभिवाद्य यथान्यायं क्रियतां किं द्विजोत्तम! ॥२३

चिरात्त्वमागतो विप्र! स्थीयतामिदमासनम् ।
एवं सम्भाषयित्वा तु नारदं ऋषिसत्तमम्
तस्य भार्या महादेवी ह्यनौपम्या तु नामतः ॥२४

अनौपम्योवाच ।
भगवन् । केन धर्मेण देवास्तुष्यन्ति नारद! ।
व्रतेन नियमेनाथ दानेन तपसापि वा ॥२५

नारदः उवाच ।
तिलधेनुञ्च यो दद्याद् ब्राह्मणे वेदपारगे ।
ससागरवनद्वीपा दत्ता भवति मेदिनी ॥२६

सूर्यकोटिप्रतीकाशैः विमानैः सार्वकामिकैः ।
मोदते सुचिरं कालमक्षयं कृतशासनम् ॥२७

आम्रामल कपित्थानि बदराणि तथैव च ।
कदम्बचम्पकाशोकाननेकविविधद्रुमान् ॥२८

अश्वत्थपिप्पलां श्चैव कदलीवटदाडिमान् ।
पिचुमन्दं मधूकं च उपोष्य स्त्री ददाति या ॥२९

स्तनौ कपित्थसदृशावुरू च कदलीसमौ ।
अश्वत्थे वन्दनीया च पिचुमन्दे सुगन्धिनी ॥३0

चम्पके चम्पकाभा स्यादशोके शोकवर्जिता ।
मधूके मधुरं वक्ति वटे च मृदुगात्रिका॥३१

बदरी सर्वदा स्त्रीणां महासौभाग्यदायिनी ।
कुक्कुटी कर्कटी चैव द्रव्यषष्ठी न शस्यते ॥३२

कदम्बमिश्रकनक मञ्जरी पूजनं तथा ।
अनग्निपक्वमन्नञ्च पक्वान्नानामभक्षणम्॥३३

फलानाञ्च परित्यागः सन्ध्या मौनं तथैव च ।
प्रथमं क्षेत्रपालस्य पूजा कार्या प्रयत्नतः ॥३४

तस्या भवति वै भर्ता मुखप्रेक्षः सदानघे! ।
अष्टमी च चतुर्थी च पञ्चमी द्वादशी तथा ॥३५

संक्रान्तिर्विषुवच्चैव दिनच्छिद्र मुखं तथा ।
एतांस्तु दिवसान् दिव्यानुपवासन्ति याः स्त्रियः
तासान्तु धर्म्मयुक्तानां स्वर्गवासो न संशयः ॥३६

कलिकालुष्यनिर्मुक्ताः सर्वपापविवर्जिताः ।
उपवासरतां नारीं नोपसर्पति तां यमः ॥३७

अनौपम्योवाच ।
अस्मत्कृतेन पुण्येन पुराजन्मकृतेन वा ।
भवदागमनं भूतं किञ्चित् पृच्छाम्यहं व्रतम्॥३८

अस्ति विन्ध्यावलिर्नाम बलिपत्नी यशस्विनी ।
श्वश्रूर्ममापि विप्रेन्द्र! न तुष्यति कदाचन ॥३९

श्वशुरोऽपि सर्वकालं दृष्ट्वा चापि न पश्यति ।
अस्तिकुम्भीनसी नाम ननान्दा पापकारिणी ॥४0

दृष्ट्वा चैवाङ्गुलीभंगं सदा कालं करोति च ।
दिव्येन तु पथा याति मम सौख्यं कथं वद ॥४१

ऊषरेण प्ररोहन्ति बीजं कुर्यात् कथंचन ।
येन व्रतेन चीर्णेन भवन्ति वशगा मम॥
तद्व्रतं ब्रूहि विप्रेन्द्र! दासभावं व्रजामि ते ॥४२

नारद उवाच ।
यदेतत्ते मया पूर्वं व्रतमुक्तं शुभानने!
अनेन पार्वती देवी चीर्णेन वरवर्णिनि! ॥४३

शङ्करस्य शरीरस्था विष्णोर्लक्ष्मीस्तथैव च ।
सावित्री ब्रह्मणश्चैव वसिष्ठस्याप्यरुन्धती ॥४४

एतेनोपोषितेनेह भर्ता स्थास्यति ते वशे ।
श्वश्रू श्वशुरयोश्चैव मुखबन्धो भविष्यति ॥४५

एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि ।
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ॥४६

प्रसादं कुरु विप्रेन्द्र! दानं ग्राह्यं यथेप्सितम् ।
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥४७

तव दास्याम्यहं विप्र! यच्चान्यदपि दुर्लभम् ।
प्रगृहाण द्विजश्रेष्ठ! प्रीयेतां हरिशङ्करौ ॥४८

नारद उवाच ।
अन्यस्मै दीयतां भद्रे! क्षीणवृत्तिस्तु यो द्विजः ।
अहन्तु सर्वसम्पन्नो मद्भक्तिः क्रियतामिति ॥४९

एवं तासां मनो हृत्वा सर्वासान्तु पतिव्रताः ।
जगाम भरत श्रेष्ठ! स्वकीयं स्थानकं पुनः ॥५0

ततो ह्यहृष्टदया अन्यतो गतमानसा ।
पुरे छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ॥५१

नर्मदामाहात्म्ये ज्वालेश्वरतीर्थमाहात्म्यवर्णनम् ।
मार्कण्डेय उवाच ।
नर्मदा तु नदी श्रेष्ठा पुण्यात् पुण्यतमाहिता ।
मुनिभिस्तु महाभागैर्विभक्ता मोक्षकांक्षिभिः ॥१॥

यज्ञोपवीतमात्राणि प्रविभक्तानि पाण्डव ।
तेषु स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ॥२॥

ज(ज्वा)लेश्वरं परन्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तस्योत्पत्तिं कथयतः श्रुणु त्वं पाण्डुनन्दन! ॥३॥

पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।
भयोद्विग्ना विरूपाक्षं परित्रायस्व न प्रभो! ॥४॥

श्रीभगवानुवाच ।
स्वागतं तु सुरश्रेष्ठाः! किमर्थमिह चागताः ।
किं दुःखं को नु सन्तापः कुतो वा भयमागतम् ॥५॥

कथयध्वं महाभागाः एवमिच्छामि वेदितुम् ।
एवमुक्तास्तु रुद्रेण कथयन् संशितव्रताः ॥६॥

ऋषय ऊचुः ।
अतिवीर्य्यो महाघोरो दानवो बलदर्पितः ।
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ॥७॥

गगने सततं दिव्यं भ्रमते तस्य तेजसा!
ततो भीता विरूपाक्ष! त्वामेव शरणं गताः ॥८॥

त्रायस्व महतो दुःखात् त्वं हि नः परमा गतिः ।
एवं प्रसादं देवेश! सर्वेषां कर्तुमर्हसि ॥९॥

येन देवाः सगन्धर्वाः सुखमेधन्ति शङ्कर! ।
परां निर्वृतिमायान्ति तत्प्रभो! कर्तुमर्हसि ॥१०॥

श्रीभगवानुवाच ।
एतत् सर्वं करिष्यामि मा विषादं गमिष्यथ ।
अचिरेणैव कालेन कुर्य्यां युष्मत् सुखावहम् ॥११॥

आश्वास्य स तु तान् सर्व्वान्नर्मदा तटमाश्रितः ।
चिन्तयामास देवेशस्तद्वधं प्रतिमानद! ॥१२॥

अथ केन प्रकारेण हन्तव्यं त्रिपुरं मया ।
परं संचिन्त्य भगवान् नारदं चास्मरत्तदा ।
स्मरणादेव! संप्राप्तो नारदः समुपस्थितः ॥१३॥

नारद उवाच ।
आज्ञापय महादेव! किमर्थञ्च स्मृतो ह्यहम् ।
किं कार्य्यन्तु मया देव! कर्तव्यं कथयस्व मे ॥१४॥

श्रीभगवानुवाच ।
गच्छ नारद! तत्रैव यत्र तत्त्रिपुरं महत् ।
बाणस्य दानवेन्द्रस्य शीघ्रं गत्वा च तत्कुरु ॥१५॥

या भर्तृदेवतास्तत्र स्त्रियश्चाप्सरसां समाः ।
तासां वै तेजसा विप्र! भ्रमते त्रिपुरन्दिवि ॥१६॥

तत्र गत्वा तु विप्रेन्द्र! मतिमन्यां प्रबोधय ।
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः ॥१७॥

स्त्रीणां हृदयनाशाय प्रविष्टस्तत् पुरं प्रति ।
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् ॥१८॥

शतयोजनविस्तीर्णं ततो द्विगुणमायतम् ।
ततोऽपश्यद्धि तत्रैव बाणन्तु बलदर्पितम् ॥१९॥

मणिकुण्डलकेयूर मुकुटेन विराजितम् ।
हारदोरसुवर्णैश्च चन्द्रकान्तविभूषितम् ॥२०॥

रशना तस्य रत्नाढ्या बाहू कनकमण्डितौ ।
चन्द्रकान्तमहावज्रमणिविद्रुमभूषिते ॥२१॥

द्वादशार्कद्युतिनिभे निविष्टं परमात्मने ।
उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ॥२२॥

बाण उवाच ।
देवर्षे! त्वं स्वयं प्राप्तो अर्घ्यं पाद्यं निवेदये ।
सोऽभिवाद्य यथान्यायं क्रियतां किं द्विजोत्तम! ॥२३॥

चिरात्त्वमागतो विप्र! स्थीयतामिदमासनम् ।
एवं सम्भाषयित्वा तु नारदं ऋषिसत्तमम्
तस्य भार्या महादेवी ह्यनौपम्या तु नामतः ॥२४॥

अनौपम्योवाच ।
भगवन् । केन धर्मेण देवास्तुष्यन्ति नारद! ।
व्रतेन नियमेनाथ दानेन तपसापि वा ॥२५॥

नारदः उवाच ।
तिलधेनुञ्च यो दद्याद् ब्राह्मणे वेदपारगे ।
ससागरवनद्वीपा दत्ता भवति मेदिनी ॥२६॥

सूर्यकोटिप्रतीकाशैः विमानैः सार्वकामिकैः ।
मोदते सुचिरं कालमक्षयं कृतशासनम् ॥२७॥

आम्रामल कपित्थानि बदराणि तथैव च ।
कदम्बचम्पकाशोकाननेकविविधद्रुमान् ॥२८॥

अश्वत्थपिप्पलां श्चैव कदलीवटदाडिमान् ।
पिचुमन्दं मधूकं च उपोष्य स्त्री ददाति या ॥२९॥

स्तनौ कपित्थसदृशावुरू च कदलीसमौ ।
अश्वत्थे वन्दनीया च पिचुमन्दे सुगन्धिनी ॥३०॥

चम्पके चम्पकाभा स्यादशोके शोकवर्जिता ।
मधूके मधुरं वक्ति वटे च मृदुगात्रिका॥३१॥

बदरी सर्वदा स्त्रीणां महासौभाग्यदायिनी ।
कुक्कुटी कर्कटी चैव द्रव्यषष्ठी न शस्यते ॥३२॥

कदम्बमिश्रकनक मञ्जरी पूजनं तथा ।
अनग्निपक्वमन्नञ्च पक्वान्नानामभक्षणम्॥३३॥

फलानाञ्च परित्यागः सन्ध्या मौनं तथैव च ।
प्रथमं क्षेत्रपालस्य पूजा कार्या प्रयत्नतः ॥३४॥

तस्या भवति वै भर्ता मुखप्रेक्षः सदानघे! ।
अष्टमी च चतुर्थी च पञ्चमी द्वादशी तथा ॥३५॥

संक्रान्तिर्विषुवच्चैव दिनच्छिद्र मुखं तथा ।
एतांस्तु दिवसान् दिव्यानुपवासन्ति याः स्त्रियः
तासान्तु धर्म्मयुक्तानां स्वर्गवासो न संशयः ॥३६॥

कलिकालुष्यनिर्मुक्ताः सर्वपापविवर्जिताः ।
उपवासरतां नारीं नोपसर्पति तां यमः ॥३७॥

अनौपम्योवाच ।
अस्मत्कृतेन पुण्येन पुराजन्मकृतेन वा ।
भवदागमनं भूतं किञ्चित् पृच्छाम्यहं व्रतम्॥३८॥

अस्ति विन्ध्यावलिर्नाम बलिपत्नी यशस्विनी ।
श्वश्रूर्ममापि विप्रेन्द्र! न तुष्यति कदाचन ॥३९॥

श्वशुरोऽपि सर्वकालं दृष्ट्वा चापि न पश्यति ।
अस्तिकुम्भीनसी नाम ननान्दा पापकारिणी ॥४०॥

दृष्ट्वा चैवाङ्गुलीभंगं सदा कालं करोति च ।
दिव्येन तु पथा याति मम सौख्यं कथं वद ॥४१॥

ऊषरेण प्ररोहन्ति बीजं कुर्यात् कथंचन ।
येन व्रतेन चीर्णेन भवन्ति वशगा मम॥
तद्व्रतं ब्रूहि विप्रेन्द्र! दासभावं व्रजामि ते ॥४२॥

नारद उवाच ।
यदेतत्ते मया पूर्वं व्रतमुक्तं शुभानने!
अनेन पार्वती देवी चीर्णेन वरवर्णिनि! ॥४३॥

शङ्करस्य शरीरस्था विष्णोर्लक्ष्मीस्तथैव च ।
सावित्री ब्रह्मणश्चैव वसिष्ठस्याप्यरुन्धती ॥४४॥

एतेनोपोषितेनेह भर्ता स्थास्यति ते वशे ।
श्वश्रू श्वशुरयोश्चैव मुखबन्धो भविष्यति ॥४५॥

एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि ।
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ॥४६॥

प्रसादं कुरु विप्रेन्द्र! दानं ग्राह्यं यथेप्सितम् ।
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥४७॥

तव दास्याम्यहं विप्र! यच्चान्यदपि दुर्लभम् ।
प्रगृहाण द्विजश्रेष्ठ! प्रीयेतां हरिशङ्करौ ॥४८॥

नारद उवाच ।
अन्यस्मै दीयतां भद्रे! क्षीणवृत्तिस्तु यो द्विजः ।
अहन्तु सर्वसम्पन्नो मद्भक्तिः क्रियतामिति ॥४९॥

एवं तासां मनो हृत्वा सर्वासान्तु पतिव्रताः ।
जगाम भरत श्रेष्ठ! स्वकीयं स्थानकं पुनः ॥५०॥

ततो ह्यहृष्टदया अन्यतो गतमानसा ।
पुरे छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

potential utilisation

  • संभाव्य उपयोग 
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.