TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५९

मत्स्यपुराणम् - अध्यायः १५९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १५९
कुमारोत्पत्तिवर्णनम् देवकृतकुमारस्तुतिश्च ।

सूत उवाच ।
वामं विदार्य निष्क्रान्तः सुतो देव्याः पुनः शिशुः ।
स्कन्दाच्च वदने वह्नेः शुक्रात् सुवदनोऽरिहा ॥१॥

कृत्तिका मेलनादेव शाखाभिः सविशेषतः ।
शाखाभिधाः समाख्याताः षट्षु वक्त्रेषु विस्तृताः ॥२॥

यतस्ततो विशाखोऽसौ ख्यातो लोकेषु षण्मुखः ।
स्कन्दो विशाखः षड्वक्त्रो कार्त्तिकेयश्च विश्रुतः ॥३॥

चैत्रस्य बहुले पक्षे पञ्चदश्यां महाबलौ ।
संभूतावर्क सदृशौ विशाले शरकानने ॥४॥

चैत्रस्यैव सिते पक्षे पञ्चम्यां पाकशासनः ।
बालकाभ्याञ्चकारैकं मत्वा चामरभूतये ॥५॥

तस्यामेव ततः षष्ट्यामभिषिक्तो गुहः प्रभुः ।
सर्वैरमरसङ्घातैः ब्रह्मेन्द्रोपेन्द्र भास्करैः ॥६॥

गन्धमाल्यैः शुभैर्धूपैस्तथा क्रीडनकैरपि ।
छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः ॥७॥

अभ्यर्चितो विधानेन यतावत्षण्मुखः प्रभुः ।
सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम् ॥८॥

पत्न्यर्थं देवदेवस्य ददौ विष्णुस्तदायुधान् ।
यक्षाणां दशलक्षाणि ददावस्मै धनाधिपः ॥९व

ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम् ।
ददौ क्रीडनकन्त्वष्टा कुक्कुटं कामरूपिणम् ॥१०॥

एवं सुरास्तु ते सर्वे परिवारमनुत्तमम् ।
ददुर्मुदितचेतस्काः स्कन्दायादित्यवर्चसे ॥११व

जानुभ्यामवनौ स्थित्वा सुरसङ्घास्तमस्तुवन् ।
स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः ॥१२॥

देवा ऊचुः ।
नमः कुमाराय महाप्रभाय स्कन्दाय च स्कन्दित दानवाय ।
नवार्कविद्युद्द्युतये नमोऽस्तु नमोस्तु ते षण्मुख कामरूप ॥१३॥

पिनद्धनानाभरणाय भर्त्रे नमो रणे दारुण दारुणाय ।
नमोऽस्तु तेऽर्कप्रतिमप्रभाय नमोऽस्तु गुह्याय गुहाय तुभ्यम् ॥१४॥

नमोऽस्तु त्रैलोक्यभयापहाय नमोऽस्तु ते बालकृपापराय ।
नमो विशालामल लोचनाय नमो विशाखाय महाव्रताय ॥१५॥

नमो नमस्तेऽस्तु मनोहराय नमो नमस्तेऽस्तु रणोत्कटाय ।
नमो मयूरोज्ज्वलवाहनाय नमोऽस्तु केयूरवराय तुभ्यम् ॥१६॥

नमो धृतोदग्रपताकिने नमो नमः प्रभावप्रणताय तेऽस्तु ।
नमो नमस्ते वरवीर्यशालिने क्रियापराणां भवभव्यमूर्तये ॥१७॥

क्रियापरा यज्ञपतिञ्च स्तुत्वा विरेमुरेव त्वमराधिपाद्याः ।
एवं तदा षड्वदनन्तु सेन्द्रा मुदा सुतुष्टश्च गुहस्ततस्तान् ।
निरीक्ष्य नेत्रैरमरैः सुरेशान् शत्रून् हनिष्यामि गतज्वराःस्थ ॥१८॥

कुमार उवाच ।
कं वः कामं प्रयच्छामि देवता! ब्रूत निर्वृताः ।
यद्यप्यसाध्यं हृद्यं वो हृदये चिन्तितम्परम् ॥१९॥

इत्युक्तास्तु सुरास्तेन स्तुत्वा प्रणतमौलयः ।
सर्व एव महात्मानं गुहं तद्गतमानसाः ॥२०॥

दैत्येन्द्रस्तारको नाम सर्वामर कुलान्तकृत् ।
बलवान् दुर्जयो दुष्टो दुराचारोऽतिकोपनः ॥२१व

तमेव जहि हृद्योऽर्थं एषोऽस्माकं भयापह! ।
एवमुक्तस्तथेत्युक्त्वा सर्वामर पदानुगः ॥२२॥

जगाम जगतां नाथ स्तूयमानोऽमरेश्वरैः ।
तारकस्य वधार्थाय जगतः कण्टकस्य वै ॥२३॥

ततश्च प्रेषयामास शक्रो लब्धसमाश्रयः ।
दूतं दानवसिंहस्य परुषाक्षरवादिनम् ॥२४व

स तु गत्वाब्रवीद्दैत्यं निर्भयो बीमदर्शनः ।
शक्रस्त्वामाह देवेशो दैत्यकेतो! दिवस्पतिः ॥२५॥

तारकासुर! तच्छ्रुत्वा घट शक्त्या यथेच्छया ।
यज्जगद्दलनादाप्तं किल्बिषं दानव! त्वया ॥२६॥

तस्याहं शासकस्तेऽद्य राजास्मि भुवनत्रये ।
श्रुत्वैतद्दूतवचनं कोपसंरक्तलोचनः ॥२७॥

उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः ।
दृष्टं ते पौरुषं शक्र! रणेषु शतशो मया ॥२८॥

निस्त्रपत्वान्न ते लज्जा विद्यते शक्र! दुर्मते! ।
एवमुक्ते गते दूते चिन्तयामास दानवः ॥२९॥

नालव्धसंश्रयः शक्रो वक्तुमेव हि चार्हति ।
जितः स शक्रो नोऽकस्माज्जायते संश्रयाश्रयः ॥३०॥

निमित्तानि च दुष्टानि सोऽपश्यद्दुष्टचेष्टितः ।
पांसुवर्षमसृक्पातं गगनादवनीतले ॥१५९.३१॥

भुजनेत्रप्रकम्पं च वक्त्रशोषं मनोभ्रमम् ।
स्वकान्ता वक्त्रपद्मानां म्लानताञ्च व्यलोकयत् ॥३२॥

दुष्टांश्च प्राणिनो रौद्रान् सोऽपश्यद् दुष्टवेदिनः ।
तदचिन्त्वैव दितिजो न्यस्तचिन्तोऽभवत् क्षणात् ॥३३॥

यावद्रजघटाघण्टा रणत्काररवोत्कटाम् ।
तद्वत्तुरगसङ्घात क्षुण्ण भूरेणु पिञ्जराम् ॥३४॥

चञ्चलस्यन्दनोदग्र ध्वजराजि विराजिताम् ।
विमानैश्चाद्भुताकारे श्चलितामरचामरैः ॥३५॥

तां भूषणनिबद्धाञ्च किन्नरोद् गीतनादिताम् ।
नानानाक तरूत्फुल्ल कुसुमापीडधारिणीम् ॥३६॥

विकोशास्त्रपरिष्कारां वर्म्मनिर्मलदर्शनाम् ।
वन्द्युद्धुष्टस्तुतिरवां नानावाद्य निनादिताम् ॥३७॥

सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत् ।
चिन्तयामास स तदा किंचिदुद्भ्रान्तमानसः ॥३८॥

अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः ।
ततश्चिन्ताकुलो दैत्य सुश्राव कटुकाक्षरम् ॥३९॥

सिद्धबन्दिभिरुद्घुष्टमिदं हृदयदारणम् ।
अथ गाथा ।
जय अतुलशक्ति-दीघितिपिञ्जर!
भुजदण्ड -चण्डरभस! सुखद! कुमुदकानन विकासनेन्दो!
कुमार! जय दितिज-कुलमहोदधि-वडवानल! ॥४०॥

षण्मुख! मधुररवमयूररथ! सुरमुकुट कोटि घट्टित चरण नवाङ्कुरमहासन् ॥४१व


जय विशाख! विभो! जय सकललोकतारक! ।
स्कन्द! जय गौरीनन्दन! घण्टाप्रिय
प्रिय! विशाख! विभो!धृतपताकप्रकीर्णपटल! ।  कनकभूषणभासुर दिनकरच्छाय! ॥४२॥

जय जनितसंभ्रम लीलालूनाखिलाराते!
जय सकललोकतारक! दितिजासुरवरतारकान्तक! ।
स्कन्द! जय बाल! सप्तवासर! जय भुवनावलिशोकविनाशन! ॥४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

costalis

  • स्त्री. पर्शुका 
RANDOM WORD

Did you know?

कोणता शब्द योग्य आहे ? नखाला जिव्हारी लागणे की जिव्हाळी लागणे?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.