संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०७

मत्स्यपुराणम् - अध्यायः २०७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


वृषोत्सर्गविधिवर्णनम् ।
मनुरुवाच ।
भगवंच्छ्रोतुमिच्छामि वृषभस्य च लक्षणम् ।
वृषोत्सर्गविधिञ्चैव तथा पुण्यफलं महत् ॥१॥

मत्स्य उवाच ।
धेनुमादौ परीक्षेत सुशीलाञ्च गुणान्विताम् ।
अव्यङ्गामपरिक्लिष्टां जीववत्सामरोगिणीम् ॥२॥

स्निग्धवर्णां स्निग्धखुरां स्निग्ध श्रृङ्गीं तथैव च ।
मनोहराकृतिं सौम्यां सुप्रमाणामनुद्धताम् ॥३॥

आवर्तैर्दक्षिणावर्तैर्युक्तां दक्षिणतस्तथा ।
वामावर्तैर्वामतश्च विस्तीर्ण जघनां तथा ॥४॥

मृदुसंहतताम्रेष्ठीं रक्तग्रीवासुशोभिताम् ।
अश्यामदीर्घास्फुटिता रक्तजिह्वा तथा च या ॥५॥

विस्रावामलनेत्रा च शफैरविरलैर्दृढ़ैः ।
वैढूर्यमधुवर्णैश्च जलबुद्बुदसन्निभैः ॥६॥

रक्तस्निग्धैश्च नयनैस्तथा रक्तकनीनिकैः ।
सप्त चतुर्दशदन्ता च तथा वा श्यामतालुका ॥७॥

षडुन्नता सुपार्श्वोरुः पृथुपञ्चसमायता ।
अष्टायतशिरोग्रीवा या राजन्! सा सुलक्षणा ॥८॥

मनुरुवाच ।
षडुन्नताः के भगवन्! के च पञ्चसमायताः ।
आयाताश्च तथैवाष्टौ धेनूनाङ्के शुभावहाः ॥९॥

मत्स्य उवाच ।
उरः पृष्ठं शिरः कुक्षी श्रोणी च वसुधाधिप! ।
षडुन्नतानि धेनूनां पूजयन्ति विचक्षणाः ॥१०॥

कर्णौ नेत्रे ललाटञ्च पञ्चभास्करनन्दन! ।
समायतानि शस्यन्ते पुच्छं सास्ना च सक्थिनी ॥११॥

चत्वारश्चस्तना राजन्! ज्ञेया ह्यष्टौ मनीषिभिः ।
शिरोग्रीवायताश्चैते भूमिपाल! दशस्मृताः ॥१२॥

तस्याः सुतं परीक्षेत वृषभं लक्षणान्वितम् ।
उन्नतस्कन्धककुदं ऋजुलाङ्गूलकम्बलम् ॥१३॥

महाकटितटस्कन्धं वैढूर्यमणिलोचनम् ।
प्रवालगर्भश्रृङ्गाग्रं सुदीर्घ पृथुबालधिम् ॥१४॥

नवाष्टादशसङ्ख्यैर्वा तीक्ष्णाग्रैर्दर्शनैः शुभैः ।
मल्लिकाक्षश्च मोक्तव्यो गृहेऽपि धनधान्यदः ॥१५॥

वर्णतस्ताम्रकपिलो ब्राह्मणस्य प्रशस्यते ।
श्वेतोरक्तश्च कृष्णश्च गौरः पाटक एव च ॥१६॥

श्रृङ्गिणस्ताम्रपृष्ठश्च शबलः पञ्चबालकैः ।
पृथुकर्णौ महास्कन्धः श्लक्ष्णरोमा च यो भवेत्
रक्ताक्षः कपिलो यश्च रक्तश्रृङ्गतलो भवेत् ॥१७॥

श्वेतोदरः कृष्णपार्श्वो ब्राह्मणस्य तु शस्यते ।
स्निग्धा रक्तेन वर्णेन क्षत्रियस्य प्रशस्यते ॥१८॥

काचनाभेन वैश्यस्य कृष्णेनाप्यन्त्यजन्मनः ।
यस्य प्रागायते शृङ्गे भ्रूमुखाभिमुखे सदा ॥१९॥

सर्वेषामेव वर्णानां सर्वः सर्वार्थसाधकः ।
मार्जारपादः कपिलो धन्यः कपिल पिङ्गलः ॥२०॥

श्वेतो मार्जारपादस्तु धन्यो मणि निभेक्षणः ।
करटः पिङ्गलश्चैव श्वेतपादस्तथैव च ॥२१॥

सर्वापादसितो यश्च द्विपादः सत्य एव च ।
कपिञ्जलनिभो धन्यस्तथा तित्तिरिसन्निभः ॥२२॥

आकर्णमूलश्वेतन्तु मुखं यस्य प्रकाशते ।
नन्दीमुखः स विज्ञेयो रक्तवर्णो विशेषतः ॥२३॥

श्वेतन्तु जठरं यस्य भवेत् पृष्ठं च गोपतेः ।
वृषभः स समुद्राख्यः सततं कुलवर्धनः ॥२४॥

मल्लिकापुष्पचित्रश्च धन्यो भवति पुङ्गवः ।
कमलैर्मण्डलैश्चापि चित्रो भवति भाग्यदः ॥२५॥

अतसीपुष्पवर्णश्च तथा धन्यतरः स्मृतः ।
एते धन्यास्तथा धन्यान् कीर्तयिष्यामि ते नृप! ॥२६॥

कृष्ण ताल्वोष्ठवदना रूक्षश्रृङ्ग शफाश्च ये ।
अव्यक्तवर्ण ह्रस्वाश्च व्याघ्रसिंह-निभाश्च ये ॥२७॥

ध्वाङ्क्ष गृध्र सवर्णाश्च तथा मूषकसन्निभाः ।
कुण्ठाः काणास्तथा खञ्जाः केकराक्षास्तथैव च ॥२८॥

विषमश्वेतपादाश्च उद्भ्रान्तनयनास्तथा ।
नैते वृषाः प्रमोक्तव्या न च धार्यास्तथा गृहे ॥२९॥

मोक्तव्यानाञ्च धार्याणां तेषां वक्ष्यामि लक्षणम् ।
स्वस्तिकाकारश्रृङ्गाश्च तथा मेघौघनिस्वनाः ॥३०॥

महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ।
महोरस्का महोच्छ्राया महाबलपराक्रमाः ॥३१॥

शिरः कर्णौ ललाटञ्च बालधिश्चरणास्तथा ।
नेत्रे पार्श्वे च कृष्णानि शस्यन्ते चन्द्रभासिनाम् ॥३२॥

श्वेतान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः ।
भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलबालधीः ॥३३॥

पुरस्तादुद्यतो नीलो वृषभश्च प्रशस्यते ।
शक्तिध्वजपताकाढ्या येषां राजी विराजते ॥३४॥

अनड्वाहस्तु ते धन्याश्चित्रसिद्धिजयावहाः ।
प्रदक्षिणं निवर्तन्ते स्वयं ये विनिवर्तिताः ॥३५॥

समुन्नतशिरोग्रीवा धन्यास्ते यूथवर्द्धनाः ।
रक्तश्रृङ्गाग्रनयनः श्वेतवर्णो भवेद्यदि ॥३६॥

शफैः प्रवालसदृशैर्नास्ति धन्यतरस्ततः ।
एते धार्य्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ॥३७॥

धारिताश्च तथा मुक्ता धनधान्यप्रवर्द्धनाः ।
चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ॥३८॥

लाक्षारस-सवर्णश्च तं नीलमिति निर्दिशेत् ।
वृष एष स मोक्तव्यो न सन्धार्यो गृहे भवेत् ॥३९॥

तदर्थमेषा चरति लोके गाथा पुरातनी ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥४०॥

गौरीञ्चाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ॥४१॥

एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन्!
मुक्ता न शोचेन्मरणं महात्मा मोक्षं गतश्चाहमतोऽभिधास्ये ॥४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP