TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४३

मत्स्यपुराणम् - अध्यायः १४३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १४३
त्रेतायुगे यज्ञविधिप्रवृत्तिः ।

ऋषय ऊचुः ।
कथं त्रेतायुगमुखे यज्ञस्यासीत् प्रवर्तनम् ।
पूर्वे स्वायम्भुवे स्वर्गे यथावत् प्रब्रवीहि नः ॥१॥

अन्तर्हितायां सन्ध्यायां सार्द्धं कृतयुगेन हि ।
कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तथा ॥२॥

औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने ।
प्रतिष्ठितायां वार्तायां ग्रामेषु च परेषु च ॥३॥

वर्णाश्रमप्रतिष्ठान्नं कृत्वा मन्त्रैश्च तैः पुनः ।
संहितास्तु सुसंहृत्य कथं यज्ञः प्रवर्त्तितः ॥
एतच्छ्रुत्वाब्रवीत् सूतः श्रूयतां तत्प्रचोदितम् ॥४॥

सूत उवाच ।
मन्त्रान्वै योजयित्वा तु इहामुत्र च कर्म्मसु ।
तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्त्तयत्प्रभुः ॥५॥

दैवतैः सह संहृत्य सर्वसाधनसंवृतः ।
तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ॥६॥

यज्ञकर्म्मण्यवर्तन्त कर्म्मण्यग्रे तथर्त्विजः ।
हूयमाने देवहोत्रे अग्नौ बहुविधं हविः ॥७॥

सम्प्रतीतेषु देवेषु सामगेषु च सुस्वरम् ।
परिक्रान्तेषु लघुषु अध्वर्युपुरुषेषु च ॥८॥

आलब्धेषु च मध्ये तु तथा पशुगुणेषु वै ।
आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा ॥९॥

य इन्द्रियात्मका देवा यज्ञभागभुजस्तु ते ।
तान्यजन्ति तदा देवाः कल्पादिषु भवन्ति ये ॥१०॥

अध्वर्युप्रैषकाले तु व्युत्थिता ऋषयस्तथा ।
महर्षयश्च तान् द्रृष्ट्वा दीनान् पशुगणांस्तदा ।
विश्वभुजन्तेत्वपृच्छन् कथं यज्ञविधिस्तवः ॥११॥

अधर्मो बलवानेष हिंसा धर्मेप्सया तव ।
नवः पशुविधिस्त्वष्टस्तव यज्ञे सुरोत्तम! ॥१२॥

अधर्मा धर्म्मघाताय प्रारब्धः पशुभिस्त्वया ।
नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म्म उच्यते ।
आगमेन भवान् धर्मं प्रकरोतु यदीच्छति ॥१३॥

विधिद्रृष्टेन यज्ञेन धर्मेणाव्यसनेन तु ।
यज्ञबीजैः सुरश्रेष्ठ! त्रिवर्गपरिमोषितैः ॥१४॥

एष यज्ञो महानिन्द्रः स्वयम्भुविहितः पुनः ।
एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्वदर्शिभिः ॥
उक्तो न प्रति जग्राह मानमोहसमन्वितः ॥१५॥

तेषां विवादः सुमहान् जज्ञे इन्द्रमहर्षिणम् ।
जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते ॥१६॥

ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः ।
सन्धाय सममिन्द्रेण पप्रच्छुः खचरं वसुम् ॥१७॥

ऋषय ऊचुः ।
महाप्राज्ञ! त्वया द्रृष्टः कथं यज्ञविधिर्नृप! ।
औत्तानपादे प्रब्रूहि संशयं नस्तुद प्रभो! ॥१८॥

सूत उवाच ।
श्रुत्वा वाक्यं वसुस्तेषामविचार्य बलाबलम् ।
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥१९॥

यथोपनीतैर्यष्टव्यमिति होवाच पार्थिवः ।
यष्टव्यं पशुभिर्मेध्यैरथ मूलफलैरपि ॥२०॥

हिंसास्वभावो यज्ञस्य इति मे दर्शनागमः ।
तथैते भविता मन्त्रा हिंसालिङ्गामहर्षिभिः ॥२१॥

दीर्घेण तपसा युक्तैस्तारकादिनिदर्शिभिः ।
तत्प्रमाणं मया चोक्तं तस्माच्छमितुमर्हथ ॥२२॥

यदि प्रमाणं स्वान्येव मन्त्रवाक्यानि वो द्विजाः! ।
तथा प्रवर्त्ततां यज्ञो ह्यन्यथा मानृतं वचः ॥२३॥

एवं कृतोत्तरास्ते तु युञ्ज्यात्मानं ततो धिया ।
अवश्यम्भाविनं द्रृष्ट्वा तमधोह्यशपंस्तदा ॥२४॥

इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम् ।
ऊद्‌र्ध्वचारी नृपो भूत्वा रसातलचरोऽभवत् ॥२५॥

वसुधातलचारी तु तेन वाक्येन सोऽभवत् ।
धर्माणां संशयच्छेत्ता राजा वसुधरो गतः ॥२६॥

तस्मान्नवाच्यो ह्येकेन बहुज्ञेनापि संशयः ।
बहुधारस्य धर्म्मस्य सूक्ष्मा दुरनुगागातिः ॥२७॥

तस्मान्न निश्चयाद्वक्तुं धर्म्मः शक्तो हि केनचित् ।
देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ॥२८॥

तस्मान्न हिंसा यज्ञे स्याद्यदुक्तमृषिभिः पुरा ।
ऋषिकोटिसहस्राणि स्वैस्तपोभिर्दिवङ्गताः ॥२९॥

तस्मान्न हिंसा यज्ञञ्च प्रशंसन्ति महर्षयः ।
उञ्छो मूलं फलं शाकमुदपात्रे तपोधनाः ॥३०॥

एतद्दत्वा विभवतः स्वर्गलोके प्रतिष्ठिताः ।
अद्रोहश्चाप्यलोभश्च दमोभूतदया शमः ॥३१॥

ब्रह्मचर्यं तपः शौचमनुक्रोशं क्षमा धृतिः ।
सनातनस्य धर्म्मस्य मूलमेव दुरासदम् ॥३२॥

द्रव्यमन्त्रात्मको यज्ञस्तपश्च समतात्मकम् ।
यज्ञैश्च देवानाप्नोति वैराजं तपसा पुनः ॥३३॥

ब्रह्मणः कर्म्मसंन्यासाद् वैराग्यात्प्रकृतेर्लयम् ।
ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ॥३४॥

एवं विवादः सुमहान् यज्ञस्यासीत् प्रवर्त्तते ।
ऋषीणां देवतानाञ्च पूर्वे स्वायम्भुवेऽन्तरे ॥३५॥

ततस्ते ऋषयो द्रृष्ट्वा हृतं धर्मं बलेन ते ।
वसोर्वाक्यमनाद्रृत्य जग्मुस्ते वै यथागतम् ॥३६॥

गतेषु ऋषिसङ्घेषु देवायज्ञमवाप्नुयुः ।
श्रूयन्ते हि तपः सिद्धा ब्रह्मक्षत्रादयो नृपाः ॥३७॥

प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः ।
सुधामा विरजाश्चैव शङ्कपाद्राजसस्तथा ॥३८॥

प्राचीनबर्हिः पर्ज्जन्यो हविर्धानादयो नृपाः ।
एते चान्ये च बहवस्ते तपोभिर्दिवङ्गताः ॥३९॥

राजर्षयो महात्मानो येषां कीर्त्तिः प्रतिष्ठिताः ।
तस्माद्विशिष्यते यज्ञात्तपः सर्वैस्तु कारणैः ॥४०॥

ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा ।
तस्मान्नाप्नोति तद्यज्ञात्तपो मूलमिदं स्मृतम् ॥४१॥

यज्ञप्रवर्तनं ह्येवमासीत् स्वायम्भुवेऽन्तरे ।
तदा प्रभृति यज्ञोऽयं युगैः सार्द्धं प्रवर्तितः ॥४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

steady moving system

  • अचर गतिक पद्धति 
  • अचर गतिक यंत्रणा 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.