TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११८

मत्स्यपुराणम् - अध्यायः ११८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ११८
हिमवत्प्रदेशवर्णनम् ।
सूत उवाच ।
तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोरमम् ।
अगम्यं मानुषैरन्यैर्दैवयोगादुपागतः ॥१॥

ऐरावती सरिच्छ्रेष्ठा यस्माद्देशाद्विनिर्गता ।
मेघश्यामञ्च तं देशन्द्रुमखण्डैरनेकशः ॥२॥

शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः ।
न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपाद्रुमैः ॥३॥

महानिम्बैस्तथा निम्बैर्निर्गुण्डीभिर्हरिद्रुमैः ।
देवदारुमहावृक्षैस्तथा कालेयकद्रुमैः ॥४॥

पद्मकैश्चन्दनैर्बिल्वैः कपित्थैः रक्तचन्दनैः ।
वाताम्रारिष्टकाक्षोटैरब्दकैश्च तथार्जुनैः ॥५॥

हस्तिकर्णैः सुमनसै) कोविदारैः सुपुष्पितैः ।
प्राचीनामलकैश्चापि धनकैः समराटकैः ॥६॥

खर्जूरैर्नारिकेलैश्च प्रियाल्वाम्रातकेङ्गुदैः ।
तन्तुमालैर्धवैर्भव्यैः काश्मीरीपणिभिस्तथा ॥७॥

जातीफलैः पूगफलैः कट्‌फलैलावलीफलैः ॥
मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुकैः ॥८॥

यवासैः शमिपर्णासैर्वेतसैरम्बुवेतसैः ।
रक्तातिरङ्गनारङ्गै र्हिङ्गुभिः सप्रियङ्गुभिः ॥९॥

रक्ताशोकैस्तथाशोकैराकल्लैरविचारकैः ।
मुचकुन्दैस्तथा कुन्दैराटरूषपरूषकैः ॥१०॥

किरातैः किङ्किरातैश्च केतकैः श्वेतकेतकैः ।
सौभाञ्जनैरञ्जनैश्च सुकलिङ्गनिकोटकैः ॥११॥

सुवर्णचारुवसनैर्द्रुमश्रेष्ठैस्तथासनैः ।
मन्मथस्य शराकारैः सहकारैर्मनोरमैः ॥१२॥

पीतयूथिकया चैव श्वेतयूथिकया तथा ।
जात्या चम्पकजात्या च तुम्बरैश्चाप्यतुम्बरैः ॥१३॥

मोचैर्लोचैस्तु लिकुचैस्तिलपुष्पकुशेशयैः ।
तथा सुपुष्पावरणैः चव्यकैः कामिवल्लभैः ॥१४॥

पुष्पाङ्कुरैश्च वकुलैः पारिभद्रहरिद्रकैः ।
धाराकदम्बैः कुटजैः कदम्बैर्गिरिकूटजैः ॥१५॥

आदित्यमुस्तकैः कुम्भैः कुङ्कुमैः कामवल्लभैः ।
कट्‌फलैर्वदरैर्नीपैदीपैरिव महोज्ज्वलैः ॥१६॥

रक्तैः पालीवनैः श्वेतैर्दाड़िमैश्चम्पकद्रुमैः ।
बन्धूकैश्च सुबन्धूकैः कुञ्जकानान्तु जातिभिः ॥१७॥

कुसुमैः पाटलाभिश्च मल्लिकाकारवीरकैः ।
कुरवकैर्हिमवरैर्जम्बुभिर्नृपजम्बुभिः ॥१८॥

बीजपूरैः सकर्पूरैर्गुरूभिश्चागुरुद्रुमैः ।
बिम्बैश्च प्रतिबिम्बैश्च सन्तानकवितानकैः ॥१९॥

तथा गुग्गुलवृक्षैश्च हिन्तालधवलेक्षुभिः ।
तृणशून्यैः करवीरैरशोकैश्चक्रमर्दनैः ॥२०॥

पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः ।
तिन्तिड़ीकैस्तथालोध्रैर्विडङ्गैः क्षीरिकाद्रुमैः ॥२१॥

अश्मन्तकैस्तथा कालैर्जम्बीरैः श्वेतकद्रुमैः ।
भल्लातकैरिन्द्रयवैर्वल्गुजैः सिद्धिसाधकैः ॥२२॥

करमर्दैः कासमर्दैरविष्टकवरिष्टकैः ।
रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः ॥२३॥

कङ्कोलैर्लवङ्गैश्च त्वग्‌द्रुमैः पारिजातकैः ।
प्रतानैः पिप्पलीनाञ्च नागवल्यश्चभागशः ॥२४॥

मरीचस्य तथा गुल्मैर्नवमल्लिकया तथा ।
मृद्वीकामण्डपैर्मुख्यैरतिमुक्तकमण्डपैः ॥२५॥

त्रपुसैर्नर्तिकानाञ्च प्रतानेः सफलैः शुभैः ।
कूष्माण्‍डानां प्रतानैश्च अलाबूनां तथा क्वचित् ॥२६॥

चिर्भिटस्य प्रतानैश्च पटोलीकारवल्लिकैः ।
कर्कोटकीवितानैश्च वार्ताकैर्बृहतीफलैः ॥२७॥

कण्टकैर्मूलकैर्मूलशाकैस्तु विविधैस्तथा ।
कह्वारैश्च विदार्या च रुरूटैः स्वादुकण्टकैः ॥२८॥

सभण्डीरविदूसारराजजम्बुकवालुकैः ।
सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च ॥२९॥

काकोलीक्षीरकाकोलीच्छत्रया चातिच्छत्रया ।
कासमर्दीसहासद्भिः शकन्दलसकाण्डकैः ॥३०॥

तथा क्षीरकशाकेन कालशाकेन चाप्यथ ।
शिम्बिधान्यैस्तथाधान्यै सर्वैर्निरवशेषितः ॥३१॥

औषधीभिर्विचित्राभिर्दीप्यमानाभिरेव च ।
आयुष्याभिर्यशस्याभिर्बल्याभिश्च नराधिप ॥३२॥

जरामृत्युभयघ्नीभिः क्षद्भयघ्नीभिरेव च ।
सौभाग्यजननीभिश्च कृत्स्नाभिश्चाप्यनेकशः ॥३३॥

तत्र वेणुलताभिश्च तथा कीचकवेणुभिः ।
काशैः शशाङ्ककाशैश्च शरगुल्मैस्तथैव च ॥३४॥

कुशगुल्मैस्तथा रम्यैर्गुल्मैश्चेक्षोर्मनोरमैः ।
कार्पासजातिवर्गेण दुर्लभेन शुभेन च ॥३५॥

तथा च कदलीखण्डैर्मनोहारिभिरुत्तमैः ।
तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः ॥३६॥

इरापुष्पसमायुक्तैः कुङ्कुमस्य च भागशः ।
तगरातिविषामांसीग्रन्थकैस्तु सुरागदैः ॥३७॥

सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथापरैः ।
जम्बीरकैर्भूस्तृणकैः सरसैः सशुकैस्तथा ॥३८॥

शृङ्गवेराजमोदाभिः कुबेरकप्रियालकैः ।
जलजैश्च तथा वर्णैर्नानावर्णैः सुगन्धिभिः ॥३९॥

उदयादित्यसङ्काशैः सूर्य्यचन्द्रनिभैस्तथा ।
तपनीयसवर्णैश्च अतसीपुष्पसन्निभैः ॥४०॥

शुकपत्रनिभैश्चान्यैः स्थलपत्रैश्च भागशः ।
पञ्चवर्णैः समाकीर्णैर्बहुवर्णैस्तथैव च ॥४१॥

द्रष्टुर्द्रृष्ट्या हितमुदैः कुमुदैश्चन्द्रसन्निभैः ।
तथा वह्निशिखाकारैर्गजवक्त्रोत्पलैः शुभैः ॥४२॥

नीलोत्पलैः सकर्पूरैर्गुञ्जातककसेरुकैः ।
श्रृङ्गाटकमृणालैश्च करटै राजतोत्पलैः ॥४३॥

जलजैः स्थलजैर्मूलैः फलैः पुष्पैर्विशेषतः ।
विविधैश्चैव नीवारैर्मुनिर्भोज्यैर्नराधिप ॥४४॥

न तद् धान्यं न तच्छस्यां न तच्छाकं न तत् फलम् ।
न तन्मूलं न तत् कन्दं न तत् पुष्पं नराधिप ॥४५॥

नागलोकोद्भवं दिव्यं नरलोकभवञ्च यत् ।
अनूपोत्थं वनोत्थञ्च तत्र यन्नास्ति पार्थिव ॥४६॥

सदा पुष्पफलं सर्वमजर्यमृतुयोगतः ।
मद्रेश्वरः स दद्रृशे तपसा ह्यतियोगतः ॥४७॥

दद्रृशे च तथा तत्र नानारूपान् पतत्त्रिणः ।
मयूरान् शतपत्रांश्च कलविङ्कांश्च कोकिलान् ॥४८॥

तदा कादम्बकान् हंसान् कोयष्टीन् खञ्जरीटकान् ।
कुररान् कालकूटांश्च खट्‌वाङ्गान् लुब्धकांस्तथा ॥४९॥

गोक्ष्वेडकान् तथा कुम्भान् धार्तराष्ट्रान् शुकान् बकान् ।
धातुकांश्चक्रवाकांश्च कटुकान् टिट्टिभान् भटान् ॥५०॥

पुत्रप्रियान् लोहपृष्ठान्‌ गोचर्मगिरिवर्तकान् ।
पारावतांश्चकमलान्‌सारिकाजीवजीवकान् ॥५१॥

लाववर्तकवार्ताकान् रक्तवर्त्म प्रभद्रकान् ।
ताम्रचूडान् स्वर्णचूडान् कुक्कुटान् काष्ठकुक्कुटान् ॥५२॥

कपिञ्जलान् कलविङ्कान् तथा कुङ्कुमचूड़कान् ।
भृङ्गराजान् सीरपादान् भुलिङ्गान् डिण्डिमान् नवान् ॥५३॥

मञ्जुलीतकदात्यूहान् भारद्वाजांस्तथाचषान् ।
एतांश्चान्यांश्च सुबहून्‌ पक्षिसङ्घान्‌ मनोहरान् ॥५४॥

श्वापदान् विविधाकारान् मृगांश्चैव महामृगान् ।
व्याघ्रान् केसरिणः सिंहान् द्वीपिनः शरभान् वृकान् ॥५५॥

ऋक्षांस्तरक्षूंश्च बहून् गोलाङ्‌गूलान् सवानरान् ।
शशलोमान् सकादम्बान् मार्जारान् वायुवेगिनः ॥५६॥

तथा मत्तांश्च मातङ्गान् महिषान् गवयान् वृषान् ।
चमरान् सृमरांश्चैव तथा गौरखरानपि ॥५७॥

उरभ्रांश्च तथा मेषान् सारङ्गानथ कुकूरान् ।
नीलांश्चैव महानीलान् करालान् मृगमातृकान् ॥५८॥

सदंष्ट्रा रामसरभान्‌ कौञ्चाकारकशम्वरान् ।
करलान्‌ कृतमालांश्च कालपुच्छांश्च तोरणान् ॥५९॥

दंष्ट्रान् खङ्गान् वराहांश्च तुरङ्गान् खरगर्दभान् ।
एतानद्विष्टान् मद्रेशो विरुद्धांश्च परस्परम् ॥६०॥

अविरुद्धान् वने द्रृष्ट्वा विस्मयं परमं ययौ ।
तच्चाश्रमपदं पुण्यं बभूवात्रेः पुरा नृप ॥६१॥

तत्प्रसादात् प्रभायुक्तं स्तावरैर्जङ्गमैस्तथा ।
हिंसन्ति हि नचान्योन्यं हिंसकास्तु परस्परम् ॥६२॥

क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः ।
निर्मितास्तत्र चात्यर्थमत्रिणा सुमहात्मना ॥६३॥

शैलान् नितम्बदेशेषु न्यवसच्च स्वयं नृपः ।
पयः रक्षन्ति ते दिव्यममृतस्वादुकण्टकम् ॥६४॥

क्वचिद्राजन्! महिष्यश्च क्वचिदाजाश्च सर्वशः ।
शिलाः क्षीरेण संपूर्णाः दध्नाचान्यत्रवां बहिः ॥६५॥

सम्पश्यन् परमां प्रीतिमवाप वसुधाधिपः ।
सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ॥६६॥

प्रणालिकानि चोष्णानि शीतलानि च भागशः ।
कन्दराणि च शैलस्य सुसेव्यानि पदे पदे ॥६७॥

हिमपातो न तत्रास्ति समन्तात् पञ्च योजनम् ।
उपत्यका सुशैलस्य शिखरस्य न विद्यते ॥६८॥

तत्रास्ति राजन्! शिखरं पर्वतेन्द्रस्य पाण्डुरम् ।
हिमपातङ्गनायत्र कुर्वन्तिसहिताः सदा ॥६९॥

तत्रास्ति चापरं श्रृङ्गं यत्र तोयघनाघनाः ।
नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं वरम् ॥७०॥

तदाश्रमं मनोहारि यत्र कामधरा धरा ।
सुरमख्योपयोगित्वात् शाखिनां सफलाः फलाः ॥७१॥

सदोपगीतभ्रमरं सुरस्त्रीसेवितं परम् ।
सर्वपापक्षयकरं शैलस्येव प्रहारकम् ॥७२॥

वानरैः क्रीडमानैश्च दैशाद्देशान्नराधिप ।
हिमपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः ॥७३॥

तदाश्रमं समन्ताच्च हिमसंरुद्धकन्दरैः ।
शैलवाटैः परिवृतमगम्यमनुजैः सदा ॥७४॥

पूर्वाराधितभावोऽसो महाराजः पुरूरवाः ।
तदाश्रमपदं प्राप्तो देवदेवप्रसादतः ॥७५॥

तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलङ्‌कृतम् ।
कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं हि दद्रृशे स मद्रराट् ॥७६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:50.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fan blower

  • पंखा भाता 
RANDOM WORD

Did you know?

विविध देवदेवतांचे आकार, रंग, रूप ही कल्पना कशी आणि कोणी निर्माण केली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site