संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११०

मत्स्यपुराणम् - अध्यायः ११०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


श्रृणु राजन्! प्रयागस्य महात्म्यं पुरनेव तु ।
नैमिषं पुष्करञ्चैव गोतीर्थं सिन्धुसागरम् ॥१॥

गया च चैत्रकं चैव गङ्गासागरमेव च ।
एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥२॥

दशतीर्थसहस्राणि त्रिंशत् कोट्यस्तथापराः ।
प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ॥३॥

त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी ।
प्रयागादभिनिष्क्रान्ता सर्वतीर्थनमस्कृता ॥४॥

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
यमुना गङ्गया सार्द्धं सङ्गता लोकभाविनी ॥५॥

गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ।
प्रयागं राजशार्दूल! कलां नार्हन्ति षोड़शीम् ॥६॥

तिस्रः कोट्योऽर्द्धकोटिश्च तीर्थानां वायुरब्रवीत् ।
दिवि भुव्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥७॥

प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ ।
भोगवत्यथ या चैषा वेदिरेषा प्रजापतेः ॥८॥

तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो युधिष्ठिर! ।
प्रजापतिमुपासन्ते ऋषयञ्च तपोधानाः ॥९॥

यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ।
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ॥१०॥

प्रभावात् सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो! ।
दशतीर्थसहस्राणि तिस्त्रः कोट्यस्तथा पराः ॥११॥

यत्र गङ्गा महाभागा स देशस्तत्तपोधनम् ।
सिद्धक्षेत्रञ्च विज्ञेयं गङ्गातीरसमन्वितम् ॥१२॥

इदं सत्यं विजानीयात् साधूनामात्मनश्च वै ।
सुहृदश्च जपेत् कर्णे शिष्यस्यानुगतस्य च ॥१३॥

इदं धन्यमिदं स्वर्ग्यमिदं सत्यमिदं सुखम् ।
इदं पुण्यमिदं धर्म्यं पावनं धर्ममुत्तमम् ॥१४॥

महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् ।
अधीत्य च द्विजोऽप्येतन्निर्मलः स्वर्गमाप्नुयात् ॥१५॥

य इदं श्रृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥१६॥

प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ।
स्नाहि तीर्थेषु कौरव्य! न च वक्रमतिर्भवेत् ॥१७॥

त्वया च सम्यक् पृष्टेन कथितं वै मया विभो ।
पितरस्तारिताः सर्वे तथैव च पितामहाः ॥
प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोड़शीम् ॥१८॥

एवं ज्ञानञ्च योगञ्च तीर्थं चैव युधिष्ठिर! ।
बहुक्लेशेन युज्यन्ते तेन यान्ति पराङ्गतिम् ।
त्रिकालं जायते ज्ञानं स्वर्गलोकं गमिष्यति ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP