संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २८

मत्स्यपुराणम् - अध्यायः २८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


शुक्रकृतदेवयानीसान्त्वनम्  ।

शुक्र उवाच  ।
यः परेषां नरो नित्यमतिवादां स्तितिक्षते  ।
देवयानि! विजानीहि तेन सर्वमिदञ्जितम् ॥१॥

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा  ।
संयते त्यज्यते सद्भिर्नयो रश्मिषु लम्बते ॥२॥

यः समुत्पतितं क्रोधमक्रोधेन नियच्छति  ।
देवयानि विजानीहि तेन सर्वमिदञ्जितम् ॥३॥

यः समुत्पतितं कोपं क्षमयैव निरस्यति  ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥४॥

यस्तु भावयते धर्मं योनिमात्रं तितिक्षति  ।
यश्च तप्तो न तपति भृशं सोऽर्थस्य भाजनम् ॥५॥

यो यजेदश्वमेधेन मासि मासि शतं समाः  ।
यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः ॥६॥

ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः  ।
नैतत् प्राज्ञस्तु कुर्वीत विदुस्तेन बलाबलम् ॥७॥

देवयान्युवाच  ।
वेदाहन्तात! बालापि कार्याणान्तु गतागतम्  ।
क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले ॥८॥

शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा  ।
असत्संकीर्णवृत्तेषु वासो मम न रोचते ॥९॥

पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च  ।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥१०॥

ये नैनमभिजानन्तु वृत्तेनाभिजनेन च  ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥११॥

तन्मे मथ्नाति हृदयमग्निकल्पमिवारणिम्  ।
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ॥१२॥

नह्यतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु  ।
या सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP