TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११४

मत्स्यपुराणम् - अध्यायः ११४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ११४
भारतवर्षवर्णनम् ।
ऋषय ऊचुः ।
यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः ।
चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे ॥१॥

एतद्वेदितुमिच्छामः सकाशात्तव सुव्रत!
उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर! ॥२॥

एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः ।
पौराणिकस्तदासूत! ऋषीणां भावितात्मनाम् ॥३॥

बुद्‌ध्या विचार्य्य बहुधा विमृश्य च पुनः पुनः ।
तेभ्यस्तु कथयामास उत्तरश्रवणं तदा ॥४॥

अथाहं वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः ।
भरणात्प्रजनाच्चैव मनुर्भरत उच्यते ॥५॥

निरुक्तवचनैश्चैव वर्षं तद्भारतं स्मृतम् ।
यतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हि स्मृतः ॥६॥

न खल्वन्यत्र मर्त्यानां भूमौ कर्मविधिः स्मृतः ।
भारतस्यास्य वर्षस्य नवभेदान्निबोधत ॥७॥

इन्द्रद्वीपः केसरश्च ताम्रपर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥८॥

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरः ॥९॥

आयतस्तु कुमारीतो गङ्गायाः प्रवहावधिः ।
तिर्यगूद्‌र्ध्वन्तु विस्तीर्णः सहस्राणि दशैव तु ॥१०॥

द्वीपोह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः ।
यवनाश्च किराताश्च तस्यान्ते पूर्वपश्चिमे ॥११॥

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्यायुत वणिज्यादि वर्तयन्तो व्ववस्थिताः ॥१२॥

तेषां सव्यवहारोऽयं वर्तनन्तु परस्परम् ।
धर्मार्थकामसंयुक्तो वर्णानान्तु स्वकर्मसु ॥१३॥

सङ्कल्पपञ्चमानान्तु आश्रमाणां यथाविधि ।
इह स्वर्गापवर्गार्थं प्रवृत्तिरिह मानुषे ॥१४॥

यस्त्वयं मानवो द्वीपस्तिर्यग्यामः प्रकीर्त्तितः ।
य एनं जायते कृत्स्नं स सम्राडिति कीर्त्तितः ॥१५॥

अयं लोकस्तु वै सम्राडन्तरिक्षजितां स्मृतः ।
स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात् ॥१६॥

सप्त चास्मिन् महावर्षे विश्रुताः कुलपर्वताः ।
महेन्द्रो मलयः सह्यः शक्तिमान् ऋक्षवानपि ॥१७॥

विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः ।
तेषां सहस्रशश्चान्ये पर्वतास्तु समीपतः ॥१८॥

अभिज्ञातस्ततश्चान्ये विपुलाश्चित्र सानवः ।
अन्ये तेभ्यः परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥१९॥

तैर्विमिश्रा जानपदा आर्या म्लेच्छाश्च सर्वतः ।
पिबन्ति बहुला नद्यो गङ्गासिन्धुः सरस्वती ॥२०॥

शतद्रूश्चन्द्रभागा च यमुना सरयू तथा ।
ऐरावती वितस्ता च विशाला देविका कुहूः ॥२१॥

गोमती धौतपापा च बाहुदा च द्रृषद्वती ।
कौशिकी तु तृतीया च निश्चला गण्डकी तथा ।
इक्षुर्लौहितमित्येता हिमवत्पार्श्वनिः सृताः ॥२२॥

वेदस्तृतिर्वेत्रवती वृत्रघ्नी सिन्धुरेव च ।
पर्णाशा नर्मदा चैव कावेरी महती तथा ॥२३॥

पारा च धन्वतीरूपा विदुषा वेणुमत्यपि ।
शिप्रा ह्यवन्ती कुन्ती च परियात्राश्रिताः स्मृताः ॥२४॥

मन्दाकिनीदशार्णा च चित्रकूटा तथैव च ।
तमसापिप्पलीश्येनी तथा चित्रोत्पलापि च ॥२५॥

विमला चञ्चलाचैव तथा च धूतवाहिनी ।
शुक्तिमन्ती शुनी लज्जा मुकुटा ह्रदिकापि च ॥
ऋष्यवन्तप्रसूतास्तानथामलजलाः शुभाः ॥२६॥

तापीपयोष्णी निर्विन्ध्या क्षिप्रा च ऋषभा नदी ।
वेणा वैतरणी चैव विश्वमालाकुमुद्वती ॥२७॥

तोया चैव महागौरी दुर्गमातुशिला तथा ।
विन्ध्यपादप्रसूतास्ताः सर्वाः शीतजलाः शुभाः ॥२८॥

गोदावरी भीमरथी कृष्णवेणी च वञ्जुला ।
तुङ्गभद्रा सुप्रयोगा बाह्या कावेरि चैव तु
दक्षिणापथनद्यस्ताः सह्यपादाद्विनिः सृताः ॥२९॥

कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती ।
मलयप्रसूता नद्यः सर्वाः शीतजलाः शुभाः ॥३०॥

त्रिभागा ऋषिकुल्या च इक्षुदा त्रिदिवाचला ।
ताम्रपर्णी तथा मूली शरवा विमला तथा
महेन्द्रतनयाः सर्वाः प्रख्याताः शुभगामिनीः ॥३१॥

काशिकासुकुमारी च मन्दगामन्दवाहिनी ।
कृपा च पाशिनीचैव शुक्तिमन्तात्मजास्तु ताः ॥३२॥

सर्वाः पुण्यजलाः पुण्याः सर्वगाश्च समुद्रगाः ।
विश्वस्य मातरः सर्वाः सर्वपापहराः शुभाः ॥३३॥

तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ।
तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ॥३४॥

शूरसेना भद्रकारा बाह्याः सहपटच्चराः ।
मत्स्याः किराताः कुल्याश्च कुन्तलाः काशिकोशलाः ॥३५॥

आवन्ताश्च कलिङ्गाश्च मूकाश्चैवान्धकैः सह ।
मध्यदेशाजनपदाः प्रायशः परिकीर्त्तिताः ॥३६॥

सह्यस्यानन्तरे चैते तत्र गोदावरी नदी ।
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥३७॥

यत्र गोवर्धनो नाम मन्दरो गन्धमादनः ।
रामप्रियार्थं स्वर्गीया वृक्षादिव्यास्तथौषधीः ॥३८॥

भरद्वाजेन मुनिना प्रियार्थमवतारिताः ।
ततः पुष्पवरो देशस्तेन जज्ञे मनोरमः ॥३९॥

बाल्हीका वाटधानाश्च आभीराः कालतोयकाः ।
पुरन्ध्राश्चैव शूद्राश्च पल्लवाश्चात्तखण्डिकाः ॥४०॥

गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ।
शका द्रुह्याः पुलिन्दाश्च पारदाहारमूर्त्तिकाः ॥४१॥

रामठाः कण्टकाराश्च कैकेया दशनामकाः ।
क्षत्रियोपनिवेश्याश्च वैश्याः शूद्रकुलानि च ॥४२॥

अत्रयोऽथ भरद्वाजाः प्रस्थलाः सदसेरकाः ।
लम्पकास्तलगानाश्च सैनिकाः सह जाङ्गलैः ॥
एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधतः ॥४३॥

आभीर श्रीकोंकदाणदधोभागे तापीतः पश्चिमे तटे ।
आभीर देशो देवेशि विंध्यशैले व्यवस्थितः ॥४४॥

अङ्गा वङ्गा मद्‌गुरका अन्तर्गिरिबहिर्गिरी ।
सुह्योत्तराः प्रविजयाः मार्गवागेयमालवाः ॥
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः ।
शाल्वमागधगोनर्दः प्राच्या रजपदाः स्मृताः ॥४५॥

तेषां परे जनपदा दक्षिणापथवासिनः ।
पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥४६॥

सेतुकाः सूतिकाश्चैव कुपथावाजिवासिकाः ।
नवराष्ट्रामाहिषिकाः कलिङ्गाश्चैवसर्वशः ॥४७॥

कारूषाश्च सहैषीका आटव्याः शवरास्तथा ।
पुलिन्दाविन्ध्यपुषिका वैदर्भा दण्डकैः सह ॥४८॥

कुलीयाश्च सिरालाश्च रूपसास्तापसैः सह ।
तथा तैत्तिरिकाश्चैव सर्वे कारस्करास्तथा ।
वासिकाश्चैव ये चान्ये ये चैवान्तरनर्म्मदाः ।
भारुकच्छाः समाहेया सह सारस्वतैस्तथा ॥४९॥

काच्छीकाश्चैवसौराष्ट्रा आनर्ता अर्बुदैः सह ।
इत्येते अपरान्तांस्तु श्रृणु ये विन्ध्यवासिनः ॥५०॥

मालवाश्चकरूषाश्च मेकलाश्चोत्कलैः सह ।
औण्ड्रामाषादशार्णाश्च भोजाः किष्किन्धकैः सह ॥५१॥

स्तोशलाः कोसलाश्चैव त्रैपुरा वैदिशास्तथा ।
तुमुरास्तुम्बराश्चैव पद्गमा नैषधैः सह ॥५२॥

अरूपाः शौण्डिकेराश्च वीतिहोत्रा अवन्तयः ।
एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः ॥५३॥

अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च चे ।
निराहाराः सर्वगाश्च कुपथा अपथास्तथा ॥५४॥

कुथप्रावरणाश्चैव ऊर्णादर्वा समुद्रकाः ।
त्रिगर्ता मण्डलाश्चैव किराताश्चामरैः सह ॥५५॥

चत्वारि भारते वर्षे युगानि मुनयोऽब्रुवन् ।
कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् ॥५७॥

मत्स्य उवाच ।
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते ।
शुश्रूषवस्तमूचुस्ते प्रकामं लौमहर्षणिम् ॥५८॥

यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च ।
आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया ॥५९॥

जम्बूखण्डस्य विस्तारं तथान्येषां विदाम्वर! ।
द्वीपानां वासिनां तेषां वृक्षाणां प्रब्रवीहि नः ॥६०॥

पृष्टस्त्वेवं तदा विप्रैर्यया प्रश्नं विशेषतः ।
उवाच ऋषिभिर्द्रृष्टं पुराणाभिमतं यथा ॥६१॥

सूत उवाच ।
शुश्रूषवस्तु यद्विप्राः शुश्रूषध्वमतन्द्रिताः ।
जम्बूवर्षः किंपुरुषः सुमहान्नन्दनोपमः ॥६२॥

दशवर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता ।
जायन्ते मानवास्तत्र सुतप्तकनकप्रभाः ॥६३॥

वर्षे किंपुरुषे पुण्ये प्लक्षो मधुवहः स्मृतः ।
तस्य किंपुरुषाः सर्वे पिबन्तो रसमुत्तमम् ॥६४॥

अनामया ह्यशोकाश्च नित्यं मुदितमानसाः ।
सुवर्णवर्णाश्चनराः स्त्रियश्चाप्सरसः स्मृताः ॥६५॥

ततः परं किम्पुरुषात् हरिवर्षं प्रचक्षते ।
महारजतसङ्काशा जायन्ते यत्र मानवाः ॥६६॥

देवलोकच्युताः सर्वे बहुरूपाश्च सर्वशः ।
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥६७॥

न जरा बाधते तत्र तेन जीवन्ति ते चिरम् ।
एकादशसहस्राणि तेषामायुः प्रकीर्तितम् ॥६८॥

मध्यमं तन्मया प्रोक्तं नाम्न वर्षमिलावृतम् ।
न तत्र सूर्यस्तपति नच जीवन्ति मानवाः ॥६९॥

चन्द्रसूर्य्यौ सनक्षत्रावप्रकाशाविलावृते ।
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥७०॥

पद्मगन्धाश्च जायन्ते तत्र सर्वे च मानवाः ।
जम्बूफलरसाहाराः अनिष्पन्दाः सुगन्धिनः ॥७१॥

देवलोकच्युताः सर्वे महारजतवाससः ।
त्रयोदशसहस्राणि वर्षाणान्ते नरोत्तमाः ॥७२॥

आयुः प्रमाणं जीवन्ति ये तु वर्षइलावृते ।
मेरोस्तु दक्षिणो पार्श्वे निषधस्योत्तरेण वा ॥७३॥

सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः ।
नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥७४॥

तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः ।
योजनानां सहस्रञ्च शतधा च महान्‌ पुनः ॥७५॥

उत्सेधो वृक्षराजस्य दिवमावृत्य तिष्ठति ।
तस्य जम्बूफलरसो नदी भूत्वा प्रसर्पति ॥७६॥

मेरुं प्रदक्षिणं कृत्वा जम्बूमूलगता पुनः ।
तं पिबन्ति सदा हृष्टा जम्बूरसमिलावृते ॥७७॥

जम्बूफलरसं पीत्वा न जरा बाधतेऽपि तान् ।
न क्षुधा न क्लमो वापि न दुःखञ्च तथाविधम् ॥७८॥

तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
इन्द्रगोपकसङ्काशं जायते भासुरञ्च यत् ॥७९॥

सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः ।
स्कन्नन्तु काञ्चनं शुभ्रं जायते देवभूषणम् ॥८०॥

तेषां मूत्रं पुरीषं वा दिक्ष्वष्टासु च सर्वशः ।
ईश्वरानुग्रहाद्‌भूमिर्मृतांश्च ग्रसते तु तान् ॥८१॥

रक्षः पिशाचा यक्षाश्च सर्वे हेमवतास्तु ते ।
हेमकूटेतु विज्ञेया गन्धर्व्वाः साप्सरोगणाः ॥८२॥

सर्वेनागा निषेवन्ते शेषवासुकितक्षकाः ।
महामेरौ त्रयस्त्रिंशत् क्रीडन्ते यज्ञियाः शुभाः ॥८३॥

नीलवैढूर्ययुक्तेऽस्मिन् सिद्धाब्रह्मर्षयोऽवसन् ।
दैत्यानां दानवानाञ्च श्वेतः पर्वत उच्यते ॥८४॥

शृङ्गवान् पर्वतश्रेष्ठः पितृणां प्रतिसञ्चरः ।
इत्येतानि मयोक्तानि नव वर्षाणि भारते ॥८५॥

भूतेरपि निविष्ठानि गतिमन्ति ध्रुवाणि च ।
तेषां बुद्धिर्बहुविधा द्रृश्यते देवमानुषैः ॥
अशक्या परिसंख्यातुं श्रद्धेया च विभूषता ॥८६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:50.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

usance of a bill

  • बिलहुंडी की मीयादमुद्दत 
RANDOM WORD

Did you know?

नाग आणि नागपंचमी यांचा परस्परसंबंध काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site