TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५२

मत्स्यपुराणम् - अध्यायः ५२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ५२
कर्मयोगवर्णनम् ।

ऋषय ऊचुः ।
इदानीं प्राह यद्विष्णुः पृष्टः परममुत्तमम् ।
तमिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम् ॥१॥

सूत उवाच ।
एवमेकार्णवे तस्मिन् मत्स्यरूपी जनार्दनः ।
विस्तारमादिसर्गस्य प्रतिसर्गस्य चाखिलम् ॥२॥

कथयामास विश्वात्मा मनवे सूर्यसूनवे ।
कर्म्मयोगञ्च साङ्ख्यञ्च यथावद्विस्तरान्वितम् ॥३॥

ऋषय ऊचुः ।
श्रोतुमिच्छामहे सूत! कर्म्मयोगस्य लक्षणम् ।
यस्मादविदितं लोके न किञ्चित् तव सुव्रत ॥४॥

सूत उवाच ।
कर्म्मयोगञ्च वक्ष्यामि यथा विष्णु विभाषितम् ।
ज्ञानयोगसहस्राद्धि कर्म्मयोगः प्रशस्यते ॥५॥

कर्म्मयोगोद्भवं ज्ञानं तस्मात् तत् परमं पदम् ।
कर्म्म ज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्म्मणः ॥६॥

तस्मात् कर्मणि युक्तात्मा तत्वमाप्नोति शाश्वतम् ।
वेदोऽखिलो धनं मूलमाचारश्चैव तद्धितम् ॥७॥

अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिताः ।
दया सर्वेषु भूतेषु क्षान्तीर क्षातुरस्य च ॥८॥

अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः ।
अनायासेषु कार्येषु माङ्गल्याचारसेवनम् ॥९॥

न च द्रव्येषु कार्पण्यमार्तेषूपार्जितेषु च ।
तथा स्पृहा परद्रव्ये परस्त्रीषु च सर्वदा ॥१०॥

अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः ।
अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ॥११॥

कर्म्मयोगं विना ज्ञानं कस्यचिन्नेह द्रृश्यते ।
श्रुतिस्मृत्युदितं धर्ममुपतिष्ठेत् प्रयत्नतः ॥१२॥

देवतानां पितॄणाञ्च मनुष्याणाञ्च सर्वदा ।
कुर्यादहरहर्यज्ञैर्भूतर्षि गणतर्पणम् ॥१३॥

स्वाध्यायैरर्चयेच्चर्षीन् होमैर्विद्वान् यथाविधि ।
पितृन् श्राद्धैरन्नदानैर्भूतानि बलिकर्मभिः ॥१४॥

पञ्चैते विहिता यज्ञाः पञ्चसूनापनुत्तये ।
कण्डनी पेषणी चुल्ली जलकुम्भी प्रमार्जनी ॥१५॥

पञ्चसूना गृहस्थस्य तेन स्वर्गे न गच्छति ।
तत्पापनाशनायामी पञ्चयज्ञाः प्रकीर्त्तिताः ॥१६॥

द्वाविंशति तथाष्टौ च ये संस्काराः प्रकीर्त्तिताः ।
तद्युक्तोऽपि न मोक्षाय यस्त्वात्मगुणवर्जितः ॥१७॥

तस्मादात्मगुणोपेतः श्रुतिकर्म्म समाचरेत् ।
गोब्राह्मणानां वित्तेन सर्वदा भद्रमाचरेत् ॥१८॥

गोभूहिरण्यवासोभिर्गन्धमाल्योदकेन च ।
पूजयेद्‌ ब्रह्मविष्ण्वर्क रुद्रवस्वात्मकं शिवम् ॥१९॥

व्रतोपवासैर्विधिवत् श्रद्धया च विमत्सरः ।
योऽसावतीन्द्रियः शान्तः सूक्ष्मोऽव्यक्तः सनातनः ॥

वासुदेवो जगन्मूर्त्तिस्तस्य सम्भूतयो ह्यमी ॥२०॥
ब्रह्मा विष्णुश्च भगवान् मार्त्तण्डो वृषवाहनः ।

अष्टौ च वसवस्तद्वदेकादशगणाधिपाः ।
लोकपालाधिपालैश्च पितरो मातरस्तथा ॥२१॥

इमा विभूतयः प्रोक्ता श्चराचरसमन्विताः ।
ब्रह्माद्याश्चतुरो मूलमव्यक्ताधिपतिः स्मृतः ॥२२॥

ब्रह्मणा चाथ सूर्य्येण विष्णुनाथ शिवेन वा ।
अभेदात् पूजितेन स्यात् पूजितं सचराचरम् ॥२३॥

ब्रह्मादीनां परन्धाम त्रयाणामपि संस्थितिः ।
वेदमूर्तावतः पूषा पूजनीयः प्रयत्नतः ॥२४॥

तस्मादग्निद्विजमुखान् कृत्वा संपूजयेदिमान् ।
दानेर्व्रतोपवासैश्च जपहोमादिना नरः ॥२५॥

इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्सलस्य ।
विकर्म्मभीतस्य सदा न किञ्चित् प्राप्तव्यमस्तीह परे च लोके ॥२६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:47.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खिचणें

  • अ.क्रि. मागें हटणें ; सरणें ; एका बाजुला अथवा मार्गाबाहेर होणें . २ ( ल .) ( वचन अथवा उद्देश यांपासुन फिरणें ; चळणें . ( सं . कृष - कर्ष ; हिं खिंचना ) 
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site