TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७४

मत्स्यपुराणम् - अध्यायः १७४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १७४
सुरसैन्यविस्तारवर्णनम् ।
मत्स्य उवाच ।
श्रुतस्ते दैत्यसैन्यस्य विस्तरो रविनन्दन! ।
सुराणामपि सैन्यस्य विस्तरं वैष्णवं श्रृणु ॥१॥

आदित्या वसवो रुद्रा अश्विनौ च महाबलौ ।
सबलाः सानुगाश्चैव सन्नह्यन्त यथाक्रमम् ॥२॥

पुरुहूतस्तु पुरतो लोकपालाः सहस्रदृक् ।
ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् ॥३॥

मध्ये चास्य रथः सर्व पक्षि प्रवररंहसः ।
सुचारु चक्र चरणो हेमवज्र परिष्कृतः ॥४॥

देव गन्धर्व यक्षौघै रनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥५॥

वज्रविस्फूर्जितोद्भूतैः विद्युदिन्द्रायुधो दितैः ।
युक्तो बलाहकगणैः पर्वतैरिव कामगैः ॥६॥

यमारूढः स भगवान् पर्येति सकलं जगत् ।
हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः ॥७॥

स्वर्गे शक्रानुयातेषु देवतूर्य निनादिषु ।
सुन्दर्यः परिनृत्यन्ति शतशोऽप्सरसाङ्गणे ॥८॥

केतुना नागराजेन राजमानो यथा रविः ।
युक्तो हयसहस्रेण मतो मारुतरंहसा ॥९॥

सस्यन्दन वरो भाति गुप्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥१०॥

यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्गरम् ।
तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् ॥११॥

चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः ।
शङ्कमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥१२॥

कालपाशान् समाविध्यन् हयैः शशिकरोपमैः ।
वाय्वीरितैर्जलाकारैः कुर्वन् लीलाः सहस्रशः ॥१३॥

पाण्डुरोद्धूत वसनः प्रचलन् रुचिराङ्गदः ।
मणिश्यामोत्तमवपुर्हरिभारार्पितो वरः ॥१४॥

वरुणः पाशघृङ्मध्ये देवानीकस्य तस्थिवान् ।
युद्धवेलामभिलषन् भिन्नवेल इवार्णवः ॥१५॥

यक्षराक्षससैन्येन गुह्यकानां गणैरपि ।
युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ॥१६॥

राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत ।
विमानयोधी धनदो विमाने पुष्पके स्थितः ॥१७॥

स राजराजः शुशुभे युद्धार्थी नरवाहनः ।
उक्षापमास्थितः संख्ये साक्षादिव शिवः स्वयम् ॥१८॥

पूर्वपक्षः सहस्राक्षः पितृराजस्तु दक्षिणः ।
वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः ॥१९॥

चतुर्षु युक्ताश्चत्वारो लोकपाला महाबलाः ।
स्वासु दिक्षुस्वरक्षन्त तस्य देवबलस्य ते ॥२०॥

सूर्यः सप्ताश्वयुक्तेन रथेनामितगामिना ।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥२१॥

उदयास्तग चक्रेण मेरुपर्वत गामिना ।
त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥२२॥

सहस्ररश्मि युक्तेन भ्राजमानेन तेजसा ।
चचार मध्ये लोकानां द्वादशात्मा दिनेश्वरः ॥२३॥

सोमः श्वेतहये भाति स्यन्दने शीत रश्मिवान् ।
हिमवत्तोयपूर्णाभि र्भाभिराह्लादयञ्जगत् ॥२४॥

तमृक्षपूगानुगतं शिशिरांशुं द्विजेश्वरम् ।
शशच्छायाङ्कित तनुं नैशस्य तमसः क्षयम् ॥२५॥

ज्योतिषामीश्वरं व्योम्नि रसानां रसदं प्रभुम् ।
ओषधीनां सहस्राणां निधानममृतस्य च ॥२६॥

जगतः प्रथमं भागं सौम्यं सत्यमयं रथम् ।
ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम् ॥२७॥

यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु ।
सप्तधातुगतो लोकां स्त्रीन्दधार चचार च ॥२८॥

यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरम् ।
सप्तस्वरगतोयश्च नित्यङ्गीर्भिरुदीर्यते ॥२९॥

यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् ।
यमाहुराकाशगमं शीघ्रगं शब्दयोगिनम् ॥३०॥

स वायुः सर्वभूतायुरुद्भूतः स्वेन तेजसा
ववौ प्रव्यथयन् दैत्यान् प्रतिलोमं स तोयदः ॥३१॥

मरुतो दिव्यगन्धर्वैर्विद्याधरगणैः सह ।
चिक्रीडु रसिभिः शुभ्रै निर्मुक्तै रिव पन्नगैः ॥३२॥

सृजन्तः सर्पपतयस्तीव्र तोयमयं विषम् ।
शरभूता दिवीन्द्राणाञ्चेरुर्व्यात्तानना दिवि ॥३३॥

पर्वतैश्च शिलाश्रृङ्गैः शतशश्चैव पादपैः ।
उपतस्थुः सुरगणाः प्रहर्तुं दानवे बले ॥३४॥

यः सदेवो हृषीकेशः पद्मनाभस्त्रिविक्रमः ।
युगान्ते कृष्णवर्णाभो विश्वस्य जगतः प्रभुः ॥३५॥

सर्वयोनिः स मधुहा हव्यभुक् क्रतुसंस्थितः ।
भूम्यपो व्योमभूतात्मा श्यामः शान्तिकरोऽरिहा ॥३६॥

अरिघ्नममरादीनाञ्चक्रं गृह्य गदाधरः ।
अर्कं नगादिवोद्यन्तमुद्यम्योत्तम तेजसा ॥३७॥

सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा शत्रुकालप्रदाङ्गदाम् ॥३८॥

अन्यैर्भुजैः प्रदीप्ताभैर्भुजगारि ध्वजः प्रभुः ।
दधारायुध जातानि शार्ङ्गादीनि महाबलः ॥३९॥

सकश्यपस्यात्मभुवं द्विजं भुजगभोजनम् ।
पवनाधिकसम्पातं गगनक्षोभणं खगम् ॥४०॥
भुजगेन्द्रेण वदने निविष्टेन विराजितम् ।
अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ॥४१॥

देवासुरविमर्देषु बहुशो दृढ़विक्रमम् ।
महेन्द्रेणामृतस्यार्थे वज्रेण कृत लक्षणम् ॥४२॥

शिखिनं बलिनञ्चैव तप्त कुण्डल भूषणम् ।
विचित्रपत्र वसनं धातुमन्तमिवाचलम् ॥४३॥

स्फीत क्रोडावलम्बेन शीतांशु समतेजसा ।
भोगिभोगावसिक्तेन मणिरत्नेन भास्वता ॥१७४.४४॥

पक्षाभ्याञ्चारुपत्राभ्यामावृत्य दिवि लीलया ।
युगान्ते सेन्द्र चापाभ्यान्तोयदाभ्यमिवाम्बरम् ॥४५॥

नीललोहितपीताभिः पताकाभिरलङ्कृतम् ।
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥४६॥

अरुणावरजं श्रीमानारुह्य समरे विभुः ।
सुवर्णस्वर्णवपुषा सुपर्णं खेचरोत्तमम् ॥४७॥

तमन्वयुर्देवगणा मुनयश्च समाहिताः ।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च जनार्दनम् ॥४८॥

तद्वैश्रवण संश्लिष्टं वैवस्वत पुरःसरम् ।
द्विजराजपतिक्षिप्तं देवराजविराजितम् ॥४९॥

चन्द्रप्रभाभिर्विपुलं युद्धाय समवर्तत ।
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत ।  ।
स्वस्त्यस्तु दानवानीके उशना वाक्यमाददे ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.9730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Champernowne distributions

  • शॅम्परनोवन वितरणे (उत्पन्नांच्या संदर्भात ही एक तीन प्राचलांची वितरण पद्धती आहे. येथे m हे x चे मध्यक व थिटा, अल्फा हे स्थिरांक आहेत,) 
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.