संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८७

मत्स्यपुराणम् - अध्यायः ८७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


तिलपर्वतदानवर्णनम् ।

अतः परं प्रवक्ष्यामि तिलशैलं विधानतः ।
यत् प्रदानान्नरो याति विष्णुलोकं सनातनम् ॥१॥

उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिः स्मृतः ।
त्रिभिः कनिष्ठो विप्रेन्द्र! तिलशैलः प्रकीर्तितः ॥२॥

पूर्ववच्चापरान्‌ सर्वान्‌ विष्कम्भानभितो गिरीन् ।
दानमन्त्रान्‌ प्रवक्ष्यामि यथावन्मुनिपुङ्गव ॥३॥

यस्मान्‌ मधुवधे विष्णोर्देहस्वेदसमुद्भवाः ।
तिलाः कुशाश्च माषाश्च तस्माच्छन्नो भवत्विह ॥४॥

हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम् ।
भवादुद्धर शैलेन्द्र! तिलाचल! नमोस्तु ते ॥५॥

इत्यामान्त्र्य च यो दद्यात् तिलाचलमनुत्तमम् ।
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥६॥

दीर्घायुष्यं समाप्नोति पुत्रपौत्रैश्च मोदते ।
पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP